#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00118 Uniform title: kriyāsāra volume 1 Author : nīlakaṇṭha Alternate name : nilakaṇṭhaśivācārya v r Editor : venkathanāthācārya n s Description: Transcribed from Sanskrit Series volume 95 of Oriental Research Institute Publications. Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Sept. 16, 2008 Publisher : Oriental Research Institute Publication year : 1954 Publication city : Mysore Publication country : India #################################################### श्री गणेशाय नमः || क्रियासारः || उपोद्घातः श्री गुरुभ्यो नमः | श्री गणाधिपतये नमः || आद्यन्तमङ्गलमजात समान भावमाद्यन्त विश्वमजरामयमात्मवेदम् | पञ्चाननं प्रबल पञ्च विनोदशीलं संभावयेमनसि शङ्करमम्बिकेशम् || १ || कैलासे वसते कला निधिकलां सानन्दमुत्तंसते | सव्योन्मीलित शैलराजतनयापुंभाव मिश्रायते | कस्तूरी कलितार्ध कल्पित कनत्कर्पूर लेपोल्लसद्दे हायामित किंकरैर्विलसते तस्मै नमः शम्भवे || २ || रुद्राक्षस्त्र गलं कृत्वा नतितरां शुभ्रैरदभ्रैः शुभैर्दिव्याङ्गान् भसितैरमन्द हसितैर्मान्यान् परानन्दतः | तान्वन्दे शिवकिङ्कराञ्छिव कृपालब्धाणिमाद्यष्टकान् प्रत्यूहाद्रि विभेदने पटुतरान् दम्भोलि कल्पानहम् || ३ || वन्दे मल्लय देवदेशिकवरं तातं शिवाराधनाबद्धोत्साहमनादि वीरविल सच्छैवागमोक्तक्रमैः | प्रातर्मध्यदिनेऽथ सायमुचितैर्नालं दिवा शर्वरी यत्स्वाभाविक भक्तियोगलहरी विस्तारणयाखिला || ४ || तां वन्दे चेन्नमाम्बामहरह रुदितैर्भक्तिभावैरुदारैः पातिव्रत्यं शिवार्चापरिचरणविधौ साधुसंपादयन्तीम् | मैत्रीमासादयन्तीं परशिवपदयोः पश्यतां पावयित्रिं धात्री शीलानुकर्त्रीं परकृत सहने सादरं मत्सवित्रीम् || ५ || प्. ३) देवः कैलसनाथः कलितशारिकलः शर्वरी पश्चिमांशे कारुण्यां भो निधिर्मामशिशिव दमलैः सूक्तिवृन्दैरमन्दैः | सर्वेषामागमानां वचन समुदयैः संगृहीतैः प्रबन्धं कुर्यास्त्वं वत्सबुद्धिः प्रसरति विमला ते क्रियासार नाम्ना || ६ || इत्याज्ञप्तस्तु तेन स्वरस विकसितां बुद्धिमासाद्य सूक्ष्मां भूयस्यै प्रितयेऽहं जगतिसुमनसां सत्क्रियासारमेनम् कुर्वे सर्वागमानां परशिव वचसां संग्रहं नीलकण्ठः स्मारं स्मारं स्मारेर्मनुमनुकलय स्वप्नलब्धोपदेशम् || ७ || लिङ्गाङ्गी मनुजो भवेद्यदि पुनः यदैवाङ्ग भाक् सारङ्गी पदसङ्गि पाणिकमलोऽनङ्गी कृतानङ्गदृक् | अङ्गसङ्गि भुजङ्ग भूषणवरो गङ्गातरङ्गावली- राजद्रम्य कुरङ्ग लिङ्ग शकलोत्तं सोत्तमाङ्गो भवेत् || ८ || नीलकण्ठ मुखांभोधेर्निगमागम वर्त्मना | निर्गतं शैवराद्घान्तं नीलकण्ठस्तनोत्यसौ || ९ || पूर्वाचार्यैरखिल निगमैरागमै सक्तमार्गाः क्षुण्णास्तीक्ष्णैः प्रबलमतिभिर्लब्ध तत्वावबोधैः | संक्षिप्योक्तैरकृतकवचोगुंफनैजंगमानां भूयो भूयादमल मनसां भूयसी भक्तिवृद्धिः || १० || शैवानागम चोदितान् श्रुतिवचो निन्द्यान् बहन्तोऽवद न्व्यासी या खिल सूत्रचोदितमत प्रत्यर्थिता शक्ति दर्शिनः | प्. ४) वेदोदीरित कर्म मार्गचरता मेतेषु वै मुख्यमप्यन्येषा- मधिकारितां छ्रुतिमताचारच्युता चारिणाम् || ११ || शैवेष्मिन् श्रुतिमूलत्व व्याससूत्रानुकूलताम् | वैदिकाचारणीयत्वं तन्निरस्य न प्रदर्शये || १२ || आगमानामशेषाणामुपदेष्टा महेश्वरः | वेदानामपि नैतेषु युक्तः प्रामाण्य संशयः || १३ || प्रामाण्यमविशेषेण निगमागमवर्त्मना | आगमा विविधाज्ञेया वेदानामविरोधिनः || १४ || विरोधिनश्च तत्रैते श्रुतिमार्गानुरोधिनः | कर्षणादि प्रतिष्ठान्ता वैदिकानुष्ठिता यथा || १५ || तथैव वीरशैवानामागमा वैदिका मताः | वेदाविरुद्ध रूपेण वैदिकत्वमुदाहृतम् || १६ || यदिवेदोक्त मेवस्याद्वैदिकं परमार्थतः | एकादशी व्रतादीनां श्रुत्या चोदितकर्मणाम् || ७ || अवैदिकत्वात्सर्वेषामननुष्ठेयता भवेत् | वेदाविरुद्धानुष्ठानात्पातित्यं चापतेत्तदा || १८ || यद्यनुष्ठेयमेवस्यान् देकादश्यादिकं बुधैः | शैवागमास्तदाचारा वैदिकानेतिका प्रमा || १९ || स्मृतिभिश्च पुराणैश्च दीक्षिता एव वैदिकाः | शैवागमेषु विहिता नैवस्युर्वैदिका यदि || २० || प्. ५) स्मृत्युक्ता वैदिका नेति कुतस्त्वं नैव बावसे | वैदिकास्ते भवेयुश्चेदागमोक्ताश्च वैदिकाः || २१ || अत एवा चरंत्येतान्वैदिकाः सकला बुधाः | आलयोत्सव कर्मादीन् मुक्तये शास्त्र वित्तमाः || २२ || कापालादि मतान्याहुः शैवान्यन्यानि यानि च | अवैदिकानि सर्वाणि नाचरेत्तानि वैदिकः || २३ || शैवान् पाशुपतांश्चैव जटिलान् मुण्डिनस्तथा | लिङ्गिनो व्रतिनश्चैव पाषण्डान्परिवर्जयेत् || २४ || इत्यनेन निषिद्धानि कापालादीनि वै पुनः | वीरशैवक्रमगता न निन्द्या इति तत्कथम् || २५ || न हिंस्यादिति वाक्येन हिंसामात्रे निवेधिते | यागीय पशुबन्धादौ न निवेधो भवेद्यथा || २६ || सर्वशब्दस्य सङ्कोचो धर्मतो न्यत्र युक्तिमान् | यजेतेति विधिस्तत्र नियामक उदाहृतः || २७ || वीरशैवेतरे शैवे शैवानित्यादि निंदितम् | शैव शब्दस्य सङ्कोचः सर्वशब्दादिके यथा || २८ || नियामिका श्रुतिस्तत्र श्रूयते बहुशः पुनः | वेदान्तसारमुख्यासु चामृतस्यादिके तथा || २९ || अथवा शिव निश्वास श्रुतिभ्यस्ते शिवागमाः | अधिकाः शिववक्त्रेण साक्षादेव विनिर्गतः || ३० || प्. ६) परस्परा विरुद्धार्थाः शिवोक्तानिगमागमाः | अल्पबुद्धिभिरन्योन्य विरोधः परिकल्प्यते || ३१ || निगमानामागमानां परमाप्तोपदेशतः | प्रामाण्यमविशेषेण ज्ञातव्यं तत्वदर्शिभिः || ३२ || बहुभिर्युक्तिभिः स्पष्टं विरोधः परिहार्यते | ग्रन्थ विस्तरभीत्याहं प्रकृतार्थमुपक्रमे || ३३ || || प्रबन्ध क्रमस्त्वेदमुपोद्घातादनन्तरम् || द्वात्रिंशदुपदेशास्तु भवन्ति कथिता इमे | उपदेशे प्राथमिके व्याससूत्रानुरोधतः || ३४ || सर्वज्ञे सर्वशाक्तौ च निमित्ते जगतस्तथा | उपादाने च वेदान्त वाक्यानां सम्यगन्वयः || ३५ || सर्ववेदान्तवाक्यानां उपदेशे द्वितीयके || ३६ || स्मृत्यादि बाधे संप्राप्ते परिहारः प्रदर्श्यते | परपक्षानपेक्षत्वं प्रपञ्चेनोपपादितः || ३७ || श्रुतिवाक्य निषेधस्य परिहारः प्रपञ्चितः | जीवस्या जन्यता तस्य हेतवश्य प्रदर्शिताः || ३८ || तृतीये चोपदेशे तु जीवे करण बृंहिते | उपसंहरणं प्रोक्तं तदवस्थान्तराणि च || ३९ || ब्रह्मत्वं च तथा भेदाभेदावितिक्रमात् | गुणोपसंहृतिश्चापि तद्गुणानुपसंहृतिः || ४० || विद्यातः पुरुषार्थस्य सिद्धिस्तत्रोपवर्णिता | प्. ७) विद्या तदङ्गभूत्यादि धारणासहकारिणः || ४१ || विधि प्रभेदा मुक्तेश्च फलस्य नियमः क्रमात् | साधनस्य विचारश्च वर्णितः क्रमशस्तथा || ४२ || उपदेशे चतुर्थे तु कृतं फल विचारणम् | दन्त धावन मुख्यानि कर्माणि कथितानि हि || ४३ || उपदेशे पञ्चमके षष्ठे भस्म जनिस्ततः | धारणं सप्तमे भूतेरष्टमे तत्प्रदर्शनम् || ४४ || रुद्राक्षोत्पत्तिरुदिता नवमे दशमे पुनः | धारणं तत्प्रशंसा तु कथितैकादशे क्रमात् || ४५ || उपदेशे द्वादशे तु पञ्चाक्षर जपक्रमः | त्रयोदशे तत्प्रशंसा शिवपूजाविधिस्ततः || ४६ || चतुर्दशोपदेशेस्यात् पुष्पपत्रादि लक्षणम् | उपदेशे पञ्चदशे षोडशे तूच्यते क्रमात् || ४७ || गुरुपूजा विधिस्तस्य प्रशंसा भक्तिपूर्वकम् | भक्त प्रशंसा कथिता तथा सप्तदशे ततः || ४८ || अष्टादशे तेषु दानमेकोने विंशके पुनः | लिङ्गङ्ग सामरस्यञ्च लिङ्गधारणमेव च || ४९ || विंशोपदेशे कथिता तत्प्रशंसा समासतः | आद्य तत्व महालिंग लक्षणं त्वेकविंशतौ || ५० || शक्ति वै शिष्ट्यमुदितं द्वाविंशेसप्रमाणकम् | प्. ८) त्रयोविंशे गोलकादिस्खलनादि निरूपणम् || ५१ || चतुर्विंशे षट्स्थलोक्तिरथदीक्षा विशेषतः | पञ्चविंशेऽथ षड्विंशे सकल ध्यानमीरितम् || ५२ || सप्तविंशेनिष्कलस्य ध्यानरीतिरुदाहृता | अष्टाविंशोपदेशे तु प्रसाद ग्रहणं गुरोः || ५३ || पादोदकाभिषेकश्चाप्येकोन त्रिंशके पुनः | स्वतः प्रामाण्यमुदितं आगमानामनुक्रमात् || ५४ || शिव धर्म प्रभावस्तु त्रिंशतीरितमादरात् | एकत्रिंशे समाख्यातं शिवद्रोहे समागते || ५५ || निष्कृतिः प्रायशस्तत्र द्वात्रिंश उपदेशके | शिवमाहात्म्य कथने सवणे भक्तिपूर्वकम् || ५६ || श्रेयः परम्परा वाप्तिः कथितोऽय मनुक्रमः | द्वात्रिंश उपदेशास्ते सङ्गृहीताः शिवागमैः || ५७ || निरूपणीयमन्योन्यं निगमागम वर्त्मनाम् | ऐकरूप्यं विरोधस्य परिहारः प्रमाणतः || ५८ || वीर शैवागमानां तु विशेषेणैकरूपता | विद्याश्चतुर्दशाख्याता वाच्या तत्संमतिः पुरा || ५९ || अङ्गानि वेदाश्चत्वारो मीमांसान्याय विस्तरः | पुराणं धर्मशास्त्रं च विद्याह्येताश्चतुर्दश || ६० || शिक्षाकल्पो व्याकरणं निरुक्तं ज्यौतिषं तथा | प्. ९) छन्दो विचितिरित्येतैष्षडङ्गो वेद उच्यते || ६१ || आदिवक्ता शिवः याक्षात् देतासां परमेश्वरः | ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः || ६२ || ऋगेक विंशभेदाः स्याद्यजुरेकोत्तरं शतम् | सहस्रधा सामवेदो नवधाथर्वणः स्मृतः || ६३ || तत्रैते वेदपुरुष शिरांस्युपनिषद्गणाः | श्रीरुद्र बृहदारण्य श्वेताश्वतर मुण्डकाः || ६४ || कैवल्य कालाग्नि रुद्रौ कठवल्ली च बाष्कलः | हंसः परमहंसश्च ब्रह्मनारायणादपि || ६५ || कात्यायनी ब्रह्म बिन्दुरारुण्यामृत बिन्दुकौ | पञ्चब्रह्म च जाबालः तेजो बिन्दुश्च मौद्गलः || ६६ || बोधायनीय चर्चे च श्रवणं च पराक्रमः | प्राच्यश्च शौनकीयं च शिवसङ्कल्पमेव च || ६७ || आसुरायण मैत्रायणीय वाजसनेयकम् | वेदान्तसार प्रणव वज्रसूच्यंबकास्तथा || ६८ || सांख्यायनीयमित्याद्याः सर्वविद्योत्तमोत्तमाः | अष्टादशपुराणानि परिगीतानि तानि तु || ६९ || आदौ ब्राह्मं ततः पाद्मं तृतीयं वैष्णवं विदुः | शैवं चतुर्थमाख्यातं पञ्चमं भगवत्परम् || ७० || षष्ठं तु नारदीयं स्यात् मार्कण्डेयं तु सप्तमम् | आग्नेयमष्टमंज्ञेयं भविष्यन्न वमं विदुः || ७१ || प्. १०) दशमं ब्रह्म कैवर्तं लैङ्गमेका दशं मतम् | वाराहं द्वादशं विद्यात्स्कान्दं चैव त्रयोदशम् || ७२ || चतुर्दशं वामनन्तु कौर्मं पञ्चदशं मतम् | मात्स्यं षोडशमाख्यातं गारुडं तु ततः परम् || ७३ || अष्टादशंस्याद्ब्रह्माण्डं उपपूर्वाण्यतः परम् | सनत्कुमार कथितं नारसिंहमतः परम् || ७४ || स्कान्दं सनत्कुमारेण कथितं तु ततः परम् || ७५ || चतुर्थं शिवधर्माख्यं पुराणं नन्दिनिर्मितम् | तथा दूर्वाससा प्रोक्तं नारदीयं ततः परम् || ७६ || कापिलं मानवं चैव तथैवोशनसा कृतम् || ७७ || ब्रह्माण्डं तु ततः पुण्यं वारुणं तु ततः परम् | पुराणं कालिकाख्यं स्यात्काल कण्ठाभिधायकम् || ७८ || ततो वासिष्ठ लैङ्गाख्यं नाम्ना माहेश्वरं च तत् | ततः साम्बपुराणाख्यं सुसूक्ष्ममिति चेरितम् || ७९ || पराशरं च मारीचं भार्गवाख्यं ततः परम् | एतान्युपपुराणानि ब्रह्मज्ञान प्रदानि हि || ८० || मीमांसा न्याय शास्त्रं च पुराणं स्मृतयस्तथा | वेदोपाङ्गानि मुनिभिः परिगीतानि तत्र तु || ८१ || पूर्वोत्तर विभेदेन मीमांसा द्विविधा स्मृता | न्याय काणादभेदेन तर्कोपि द्विविधः स्मृतः || ८२ || प्. ११) स्मृतयोष्टादश प्रोक्ताः मुनिभिर्निर्मिताः पृथक् | तेषु पूर्वो मनुः प्रोक्तो बृहस्पतिरनन्तरः || ८३ || दक्ष नामा तृतीयः स्याद्गौतमोथ यमोङ्गिराः | योगीश्वरः प्रचेताश्च शातातप पराशरौ || ८४ || संवर्तोशतसौ शंखलिखितावत्रिरेव च | विष्ण्वापस्तम्ब हारीता धर्मशास्त्र प्रवर्तकाः || ८५ || अष्टादशापि स्मृतय स्तन्नाम परिचिह्निताः | जाबालिर्नाचिकेतश्च स्कन्दो लौगाक्षिकाश्यपौ || ८६ || व्यासः सनत्कुमारश्च शन्तनुर्जनकस्तथा | क्रतुः कात्यायनश्चैव जातुकर्णिः कपिञ्जलः || ८७ || बोधायनश्च काणादो विश्वामित्रस्तथैव च | पैठीनसिर्गोभिलश्चेत्युप स्मृति विधायकाः || ८८ || अष्टादशोपस्मृतयः तत्तन्नामभिरङ्किताः | एवं चतुर्दशाख्याता वेदमार्गानुरोधतः || ८९ || ताल्वोष्टपुट निष्पन्द पूर्वकं शिवभाषिताः | अष्टाविंशति संख्याकाश्शिवोक्तास्ते शिवागमाः || ९० || त्रिपदार्थं चतुष्पादं प्राहतन्त्रं जगत्पतिः | सूत्रेणैकेन संगृह्य प्राहविस्तरतः प्रभुः || ९१ || कामिकादि प्रभेदेन तद्भिन्नं बहुधैव हि | कामिकाद्यावातु लान्ताः शिवेनोक्ताः शिवागमाः || ९२ || प्. १२) सिद्धांता इति विज्ञेया उपदेश समन्विताः | कामिकं योगजं चिन्त्यं कारणं त्वजितं तथा || ९३ || दीप्तं सूक्ष्मं सहस्रं चाप्यं शुमान् सुप्रभेदकः | विजयं चैव निश्वासः स्वायम्भुवमथानलम् || ९४ || वीरं च रौरवं चेति मकुटं विमलं तथा | चन्द्रज्ञानञ्च बिम्बञ्च प्रोद्गीतं ललितं तथा || ९५ || सिद्धसन्तान शर्वोक्तं पारमेश्वरमेव च | किरणं वातुलं चैता अष्टाविंशति संज्ञिताः || ९६ || एवमन्यानि तन्त्राणि शिवेनोक्तान्यनेकशः | महामाया शम्बरं च योगिनी जाल शम्बरम् || ९७ || तत्व शम्बरकं चैव भैरवाष्टकमेव च | बहुरूपाष्टकं चैव यामलाष्टकमेव च || ९८ || चन्द्रज्ञानं वासुकं च महासंमोहनं तथा | महोछुष्मं महादेव वातुलं वातुलोत्तरम् || ९९ || हृद्भेदं मातृभेदं च गुह्यतन्त्रं च कामिकम् | कलापादं कलासारं तथान्यत्कुब्जिकामतम् || १०० || मायोत्तरं च वीणाख्यंत्रोतलं त्रोतलोत्तरम् | पञ्चामृतं रूपभेदं भूतोड्डामरमेव च || १०१ || कुलासारं कुलोड्डीशं कुलचूडामणिस्तथा | सर्वज्ञानोत्तमं चैव महाशिवमतं तथा || १०२ || प्. १३) महालक्ष्मी मतं चैव सिद्धयोगीश्वरीमतम् | कुरूपिकामतं चैव रूपिकामतमेव च || १०३ || सर्ववीरमतं चैव विमलामतमुत्तमम् | पूर्व पश्चिम दाक्षिण्य मुत्तरं च निरुत्तरम् || १०४ || तन्त्र वैशेषिकं ज्ञानं वीरयोगं तथा परम् | अरुणेशं मोहनेशं विशुद्धेश्वरमेव च || १०५ || एवमेतानि तन्त्राणि तथान्यान्यपि कोटिशः | सर्वासामपि विद्यानां वीरशैवं विशिष्यते || १०६ || || इति श्रीमद्विशिष्टाद्वैत सिद्धान्त रहस्यैकोत्तर शतस्थलाभिज्ञनीलकण्ठ कृते निगमागमसरभूते क्रियासारे उपोद्घातप्रकरणम् || प्रथमोपदेशः अथाभिधास्ये वीराणां शैवानां वेदमूलताम् | व्यासनिर्मित सूत्रार्थ तत्तात्पर्यानुसारतः || १ || विशब्देनोच्यते विद्या शिवजीवैक्य बोधिनी | तस्यां रमन्ते ये शैवा वीर शैवाः प्रकीर्तिताः || २ || वि शब्दो वा विकल्पार्थेरशब्दो रहितार्थकः | विकल्प रहितं शैवं वीर शैवं प्रचक्षते || ३ || विरोधार्थे विशब्दस्स्याद्रशब्दो रहितार्थकः | विरोधरहितं शैवं वीर शैवं विदुर्बुधाः || ४ || तत्रामृतस्य वाक्योक्त लिंगधारण वैभवे | प्. १४) लिङ्गाङ्ग सामरस्ये च फलं मोक्षं प्रचक्षते || ५ || पिण्डादि ज्ञान शून्यान्तमेकोत्तर शतस्थलम् | षट्स्थलं लिङ्गभेदञ्च जिज्ञासुः भक्ति पूर्वकम् || ६ || अधिकारी स विज्ञेयः त्यक्त सर्वेषणः स्वयम् | अष्टाङ्ग योगवान् ज्ञानी पञ्चाचारपरायणः || ७ || भक्त माहात्म्य शुश्रूषुश्चिकीर्षु मोक्षसाधनम् | गुरुशुश्रूषणरतः श्रुतवान् वीतकल्मषः || ८ || न गुरोः सदृशीमाता न गुरोः सदृशः पिता | सांसारादुद्धरेद्यो हि परमार्थोपदेशतः || ९ || गुरूपसदनादेव ब्रह्मविष्ण्वादयः सुराः | लिङ्गाङ्ग सामरस्यं च प्राप्नुयुर्विगत ज्वराः || १० || सनत्कुमार प्रमुख ज्ञाननिष्ठा यशस्विनः | धृतलिंगाङ्ग भावाश्च विराजन्तेऽनिशं मुदा || ११ || डुंडिनन्दि महाकाल प्रमुखा गणनायकाः | चतुर्दश सहस्रं हि कैलासावरणाधिपाः || १२ || मत प्रवर्तकाः सर्वे गुरुपीठाधिरोहिणः | महेश्वर समीपेते वर्तन्ते शूलपाणयः || १३ || अगस्त्यो जैमिनिश्चैव विश्वामित्रोथ काश्यपः | भरद्वाजोंङ्गिराह्यत्रिर्वसिष्ठो रोमहर्षणः || १४ || एते सर्वे महाभागा अतिवर्णाश्रमे रताः | प्. १५) वीरशैवाः समाख्याताः जीवन्मुक्ता न संशयः || १५ || एषां तु जन्म चरमं तेषामत्रमतिर्भवेत् | ते धन्यास्ते कुलीनाश्च शिवज्ञानप्रवर्तकाः || १६ || एतैः सर्वेषु लोकेषु सर्वे धर्माः प्रवर्तिताः | शिव एव हि सर्वेषां गुरुराद्यः परात्परः || १७ || कालेन चानवच्छेदात्स पूर्वेषां गुरुः शिवः | तन्मुखाङ्गलिता वेदाः कामिकाद्याश्च संज्ञिताः || १८ || अन्याश्च विविधा विद्यास्तत्तत्कर्म प्रदर्शकाः | तत्र दीक्षांगतो व्यासस्तत्व ज्ञानैक तत्परः || १९ || पशु पाशपतिज्ञानं लब्धवाञ्छिवभक्तितः | शिवज्ञानानि विद्यानि मोक्षैकफलदान्यपि || २० || शिवेनैवोपदिष्टानि तेन तानि धृतानि च | ततः कृतानि सूत्राणि तेन तत्वपराणि हि || २१ || तेषामर्थाश्चनस्पष्टाः सद्गुरोरप्यदर्शनात् | बहुधोल्लेखिता अर्थास्तर्कैः कर्कश भाषणैः || २२ || यदैक्यं ज्ञानशब्दार्थो जीवात्म परमात्मनोः | मिथ्यात्वं जगतो रज्जु सर्पभ्रान्ति वदिष्यते || २३ || अविद्यावद्विषयता शास्त्राणामिति केचन | ब्रह्म ज्ञानैक नाश्यं हि प्रारब्धं कर्मजं फलम् || २४ || इति केचिद्वर्णयन्ति केचिदन्यत्प्रचक्षते | प्. १६) जीवात्मा परमात्मा च द्वौ पदार्थौ व्यवस्थितौ || २५ || सत्यत्वं ब्रह्मणः साक्षादनित्यत्वं विकारजम् | प्रपञ्चस्य तथा सर्व साक्षित्वं परमेशितुः || २६ || प्रधानतो पासनस्य मुक्तिः सालोक्य नामिका | विद्यामङ्गलरूपञ्च परस्य ब्रह्मणोऽस्ति हि || २७ || एवं मतानि बहुशो भुविविस्तारितान्यपि | समुपेत्य तदा व्यासः प्रार्थयामास शङ्करम् || २८ || मतानि विविधान्येव समुत्पन्नानि शङ्कर | मत्कृतानां च सूत्राणामयथा नयनं कृतम् || २९ || एवमेवेति निश्चित्य कुर्वन्ति कलहं मिथः | त्वत्प्रसादैक लब्धस्य सूत्र जालस्य शङ्कर || ३० || यथा पूर्वं त्वया कार्यं मत्सूत्रार्थ विवेचनम् | इति तेन प्रार्थितः सन् दयालुः पार्वतीपतिः || ३१ || नीलकण्ठ शिवाचार्य नाम्ना भाष्यमचीकरत् | विशिष्टा द्वैत सिद्धान्त प्रतिपादनमुत्तमम् || ३२ || मयापि तस्य तात्पर्यं श्रोतॄणां सुख बुद्धये | कारिकारूपतः सर्वं क्रमेणैव निबध्यते || ३३ || लिंगोंग सामरस्यैक लभ्यं पाशविमोचनम् | शिव एव परं तत्वं शिव एव परं महः || ३४ || शिव एव परं ज्योतिः शिव एव परात्परः | प्. १७) व्यासोक्तं यत्परं ब्रह्म स्वसूत्रेषु शिवः स्वयम् || ३५ || शिव एव हि लिङ्गं च लिङ्ग रूपी शिवः स्वयम् | सर्व वेदान्त वाक्यानां प्रतिपाद्यः शिवः स्वयम् || ३६ || सर्व तत्वावलम्बश्च जगत्कारणमव्ययः | तत्त्वमस्यादि वाक्यार्थ स्वरूपी निष्कलः स्वयम् || ३७ || एकं ब्रह्मा द्वितीयञ्च सत्यं ज्ञानं सुखात्मकम् | निर्गुणं निर्मलं शुद्धं जनिमाख्यं निरञ्जनम् || ३८ || वेदानामादि भूतश्च रुद्रो विश्वाधिकः प्रभुः | सर्वज्ञः सर्वकर्ता च सर्वकारणमीश्वरः || ३९ || अनादि निधनं वस्तु परापर विहीनकम् | परमात्मस्वरूपं च परं ब्रह्म स्वरूपकम् || ४० || निष्ठाप्राप्यम् परं तत्वं अप्रमेयमनूपमम् | कथयन्तीति वेदान्ताः शिवं परमकारणम् || ४१ || महालिङ्ग स्वरूपोऽयं शङ्करः स सदाशिवः | इति जानन्ति ये भक्ताः गुरोः कारुण्यतः शिवम् || ४२ || शोकं तरन्ति ते सर्वे महादेव प्रसादतः | सर्ववेदान्तसारः हि चिदम्बर समन्वितम् || ४३ || पूजयेद्धृदयाकाशे स्वात्मनो हि तमा चरन् | प्रकारा बहवः सन्ति दहरोपासनादयः || ४४ || सा तु कार्या वीर शैवैः गर्भदीक्षादि संस्कृतैः | लिङ्गाङ्ग सामरस्येन शिवभाव समन्वितैः || ४५ || प्. १८) कालयो रागमार्थानुसारेणाति समाहितैः | स्फुटी भविष्यति स्थूल सूक्ष्म मध्यम भेदतः || त्रिविधा शिवपूजापि चोपदेशे चतुर्दश || ४६ || सापि पूजा हस्त पीठे मुख्यान्यत्रापि केचन | तन्मात्रेणैव सन्तुष्टः शम्भुर्निः श्रेयस प्रदः || ४७ || तस्यापि मूर्तयः सन्ति पंचविंशति संख्यया | ताश्च कुर्वन्ति लिङ्गस्य पूजनंभक्ति पूर्वकम् || ४८ || विष्ण्वादयः सुरगणाः यक्षरक्षोगणास्तथा | जन्म कर्म निवृत्त्यर्थं मुनयो धृतनिश्चयाः || ४९ || उपासते महालिङ्गं बहवो मोक्षणार्थिनः | नित्या परोक्षविज्ञानं चिद्घनानन्दरूपिणम् || ५० || लिङ्गं च काटं जनिम ऋतं ब्रह्मेडितं परम् | सत्यं ज्ञानं सुखं नीप्यं वार्धकं शरणं श्रुतम् || ५१ || एवमादीनि नामानि सन्ति लिङ्गस्य भूरिशः | तल्लिङ्गमेव सूत्रेषु व्यासेनापि विचारितम् || ५२ || नीलकण्ठ शिवाचार्यैस्तत्तात्पर्यं प्रकाशितम् | कालिकल्मष निर्धूत तत्व बुद्धिभिरन्यथा || ५३ || नीतं यथा यथं शास्त्रं सद्गुरोरप्यदर्शनात् | अमात्सर्यपरिप्राप्त मतिकौशल शालिभिः || ५४ || विभावनीय एवार्थः कथ्यतेऽथ यथा तथम् | प्. १९) अथाऽतो ब्रह्म जिज्ञासे त्यस्मिन् सूत्रे यदीरितम् || ५५ || तद्ब्रह्म केवलं लिङ्गं ज्ञातव्यं च मुमुक्षुभिः | समनन्तरे सूत्रेषु तद्गुणा एव वर्णिताः || ५६ || आनन्तर्येऽथ शब्दः स्यात्पूर्वकाण्डानुरोधतः | किमनन्तरमित्युक्ते वाच्यं धर्मविचरतः || ५७ || आनन्तर्यं विचारस्य ब्रह्मणो लिङ्ग रूपिणः | ओंकारश्चाथ शब्दश्च द्वावेतौ ब्रह्मणः पुरा || ५८ || कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ | इति प्रमाणतस्त्वत्र मङ्गलार्थो न युज्यते || ५९ || पूर्वकाण्ड विरोधेनाप्यङ्गाङ्गित्व निरूपणात् | ब्रह्मणो लिङ्गरूपित्वं न युक्तमिति येच्छ्रुणु || ६० || आत्माय नमञ्जारभ्य लिङ्गशब्दपरम्परा | प्रसिद्धतैत्तिरियोप निषद्येव प्रदृश्यते || ६१ || लिङ्गशब्दस्य नान्योर्थः कल्प्यः स्वरसतः श्रुतेः | आत्मत्वेन नमस्कारः स्तदुत्कृष्टनमस्कृतिः || ६२ || तत इत्यर्थसांगत्यं ब्रह्मणो लिङ्गरूपतः | अनन्तर नमस्कारः कथं सङ्गच्छतेऽन्यथा || ६३ || तस्माल्लिङ्ग पदस्यार्थो ब्रह्म नित्यं निरञ्जनम् | पूर्वकाण्ड प्रसिद्धस्तु धर्मोग्निष्टोम पूर्वकः || ६४ || वीर शैवादि नैवेति चानन्तर्यं कथं भवेत् | प्. २०) वेदोक्त भूतिरुद्राक्ष लिङ्ग धारण कर्मठैः || ६७ || विचार्यं ब्रह्म लिङ्गाख्यं नानन्तर्यं विरुध्यते | पूर्वकाण्ड विरुद्धोर्थः पूर्वकाण्डोक्त उच्यते || ६८ || पूर्व काण्डीय धर्मश्च यावद्यत्किंचिदेव वा | कृतोपनयनस्याशु वेदान्तेषु प्रवेशनात् || ६९ || यावतां कर्मणां केनाप्यनुष्ठातुं न शक्यते | अतो यत्किञ्चिदेवात्र विवक्षितमुदीर्यते || ७० || चतुर्णां साधनानां तु सम्पत्तेः समनन्तरम् | इति केचिद्वर्णयन्ति तन्नातीवोपयुज्यते || ७१ || इहामुत्रफले भोग विरागः शमशालिता | वेदान्तार्थ विचारैक लभ्यत्वादधिकारिताम् || ७२ || न सम्पादयतीत्यत्र धर्मानन्तर्यमुच्यते | चतुः साधनसम्पत्तिसमनन्तरमेव चेत् || ७३ || वृत्तत्वाच्छास्त्र लभ्यस्य जिज्ञासा न भवेत् क्वचित् | धर्मानन्तर्यमेवातो वाच्यं धर्मो द्विधामतः || ७४ || पशुधर्मः प्राथमिकः पति धर्मो द्वितीयकः | अनुतिष्ठन् पशोः धर्मान्पति धर्मान् स चार्हति || ७५ || यथा पिपीलिका वृक्षमूलमाघ्राय तत्फलम् | आरुह्य लभते तद्वत्पति धर्मैक तत्परः || ७६ || यथा विहंगः पक्षाभ्यां फलितं वृक्षमागतः | प्. २१) पश्यन् फलमवाप्नोति तद्वच्छीघ्रं तदर्हति || ७७ || यन्नित्यमपरोक्षं च ज्ञानं मोक्षैक साधनम् | पशुधर्म इति प्राहु काम्य फलप्रदः || ७८ || निष्कामेन स्वपाशस्य विछित्यै समतुष्टितः | यो धर्मस्तं तु शास्त्रेषु पति धर्मं प्रचक्षते || ७९ || दध्नेंद्रिय * * * * * * * * * * * * | * * * * * नुष्ठानात्पतिधर्मत्वमाप्यते || ८० || अत्रापि सर्वकर्मादौ अधिकार प्रदायकम् | भस्मधारण मुख्यं हि कालाग्न्युप निषन्मुखैः | बृहज्जा बालमुख्यैश्च विहितं तत्पदे पदे || ८१ || रुद्रा * * * * * * * * * * * * * * | पूजा च त्रिस्.उ कालेषु वा सदा * * * * * || विद्यासु श्रुति रुत्कृष्टा रुद्रैकादशिनी श्रुतौ | तत्र पञ्चाक्षरोमन्त्रः शिव इत्यक्षरद्वयम् || इति श्रुति शिरोरत्न शिरोरत्न मनोर्जपः | * * * * * * * * * * * * * * * | * * * * * णां तस्येत्याद्याः पाशविमोचकाः || पति धर्मा इमे ज्ञेयास्तदानन्तर्यमत्र च | अतः शब्दोऽत्र हेत्वर्थः सर्वेषां न विशिष्यते || विषयस्तु द्वयोरैक्यं जीवस्य ब्रह्म * * * | युष्मदस्मद्गोचरयोः कथमन्योन्यथा भवेत् | किञ्चिज्ज्ञत्वं च जीवत्वं सर्वज्ञत्वं तदन्यता || प्. २२) अनित्यत्वं च नित्यत्वं कथमेकत्र युज्यते | इति चेद्दीयतां दृष्टिस्तत्वेऽर्थे * * * * * || इदं त्वांशे न शुक्तित्वं रजतत्वमनन्तरम् | उभयं च यथात्रास्ते विरुद्धं च परस्परम् || शुक्तित्वे च प्रकारे तु रजतत्वं निवर्तते | तद्वदेवात्र सर्वज्ञे किञ्चिज्ज्ञत्वं विशे * * || * * * * ह्मणोरैक्यं शास्त्रस्य विषयं विदुः | मुक्तिः साधारणत्वेन प्रयोजनमुदीर्यते || न जीव ब्रह्मणोरैक्यं सूत्र स्वरसतः स्फुरेत् | इति व्याचक्षते शक्तिविशिष्टं विषयस्त्विति || यथा * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * || * * * * * * ष्टयं शक्तेरित्यवधार्यताम् | अग्निस्फुलिङ्गयोर्नास्ति यथाभेद स्वरूपतः || अग्नित्वेन करणत्वेन भेदोपि स्फुरति क्वचित् | यथा हि कुण्डलमिति भेदाभेदौ तथात्र च || तस्माच्छ * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * || * * * * * * प्यत्र मोक्षसाधनमुच्यते | लिङ्गमेव यतः शास्त्रे ब्रह्मेति सु*चार्यते || सर्वत्र लिङ्गसम्बन्धं कुर्वन्ति प्रतिपत्तये | प्. २३) सर्वं ब्रह्मेति वेदार्थमनुसन्धाय शाम्भवाः | ब्रह्मलिंगं जानिम च * * * * * * * * || || * * * * * * * * * * * * न्यतामयन् | गणाचार विरुद्धःस्यान्नास्मार्वमिति तन्मतम् || नीलकण्ठ शिवाचार्य भाष्यार्थमनु संदधन् | वीरशैवैरभिमतमभिधास्ये श्रुतेर्मतम् || तस्माद्धर्म विचार * * * * * * * * * | * * * * * * * * * * * * * * * * || * * * * * * * * * * * * * नैः सदा | अनेक जन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् || नराणां क्षीण पापानां शिवेभक्तिः प्रजायते | अग्निष्टोमादयो यज्ञाः अश्वमेधावसान || कृतपुण्या जनाः सर्वे भक्तिं प्राप्य महेश्वरे | प्राप्नुवन्ति परं धाम जीवन्मुक्ताश्च ते बुधाः || यथा चर्म वदाकाशं वेष्टयिष्यन्ति मानवाः | तदा शिव भवि * * * * * * * * * * || * * * * * * * * सच्चिदानन्द लक्षणम् | तदन्यं न परं किञ्चित्तदतो ध्येयमास्तिकैः || सर्वमन्यत्परित्यज्य शिवादन्यत्तु दैवतम् | शिव एव सदा पूज्यो मुमुक्षुभिरहर्निशम् || * * ल्लिङ्गं ब्रह्म शैवमुपास्यं च मुमुक्षुभिः | लिंगांगा सामरस्येन जीवब्रह्मैक्य लक्षणम् || प्. २४) कैवल्यमेव सर्वेषां जायते न पुनर्भवः | ततो ह्युपनिव * * * * * * * * * * || * * * * * रित्येतैः सुखं लिङ्गवतां परम् | आलस्यादि तथान्यत्र प्रतिपादितमित्यथ || नमो ब्रह्मण इत्याद्यैस्तदेव हि दृढी कृतम् | लिङ्गस्थापनमित्यादौ शतशः प्रति * * * || * * * * * * * * * * * * * * * * | * * * मानवा मूर्खास्तत्यजुर्लिङ्गधारणम् || आचारो विपरीतो हि युग धर्मानुसारतः | धनी ह्युदर रोगस्थो न भुङ्क्ते ह्यन्नमुत्तमम् || तद्वत्तात्विक शास्त्रार्थे मतिर्नो * * * * * | * * * * * * * * * * * * * * * * || * * * * * * * * * * * * * * नराः | धृतलिंडाङ्ग भावाश्च भविष्यन्ति गतज्वराः || अथाऽतो ब्रह्म जिज्ञासेत्यारभ्य व्याससूत्रके | अनावृत्तिरिति ह्येतदन्तं ब्रह्म विचारितम् || धार्यं निश्चित्य विद्वद्भिर्गुरु विश्वास तत्परैः | रहस्योपनिषद्वाक्यैर्वर्णितं ब्रह्म केवलम् || अपरिछिन्नविभव मवाङ्ममस गोचरम् | निष्कलं निर्मलं शुद्धं निर्विकल्पं निरञ्जनम् || ज्ञात्वा कथमुपास्यं हि निरस्त द्वैतलक्षणम् | लक्षणेन प्रमाणेन वस्तु सिद्धिसदाहृता || प्. २५) जन्मादि कारणत्वं हि जगतां ब्रह्मलक्षणम् | सर्ववेदान्त वाक्यानि प्रमाणानि न संशयः || एतैरापाततो ब्रह्म निश्चित्य श्रवणादिभिः | ब्रह्मैवसन् ब्रह्माप्येति य एवं वेद मानवः || द्वितीयसूत्रं व्यासेन ह्यस्मिन्नर्थे समर्थितम् | जन्माद्यस्य यतः सूत्र विष्णोराद्यस्य जन्मयत् || तच्छंभोर्ब्रह्मणः साक्षाज्जगत्कर्तृत्वमिष्यते | अथवाकार वाच्यस्य विष्णोर्जन्मादि यच्छिवात् || सर्व प्रपञ्च हेतुत्वं लक्षणं ब्रह्मणोदितः || यतो वेत्यादि वाक्यानां विषयत्वमुदाहृतम् | वाक्यस्वारस्य योगेन निश्चितं ब्रह्म धारणम् || यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्र पूर्वकम् | सह भूतेन्द्रियैः सर्वैः प्रथमं संप्रसूयते || एष देवो महादेवो विज्ञेयः स महेश्वरः | ना तस्य परमं किञ्चित्पदं समधिगम्यते || अनेन चित्रकृत्येन प्रथमं सृज्यते जगत् | अन्तकाले पुनश्चेदमस्मिन् प्रलयमेष्यति || कारणानां च यो धाता ध्याता परमकारणम् || न संप्रसूयते न्यस्मात्कुतश्च न कदाचन | स सर्वैश्वर्यं संपूर्णो नाम्ना सर्वेश्वरः स्वयम् || प्. २६) सर्वैर्मुमुक्षुभिर्ध्येयः शम्भुराकाश मध्यगः | अयमेव शिवः कर्ता पुरुषः कारणं परम् || विष्णुर्ब्रह्माशशीसूर्यः शक्रोदेवाश्च सान्वयाः | सृज्यते ग्रसते चैव तमोभूतमिदं जगत् || अप्रज्ञातं जगत्सर्वं तदाह्येको महेश्वरः | ब्रह्म विष्ण्वादिकान् सर्वान् सृष्ट्वादौ चन्द्रशेखरः || चकारदीक्षां तेषां च वीर शैव क्रमाच्छिवः | लिङ्गाङ्ग सामरस्येन कृतकृत्याश्चते बभुः || तदा प्रभृति विष्ण्वाद्याः शिवस्य परमात्मनः | आज्ञया शक्तिमन्तश्च लोकेषु ख्यातिमाप्नुयुः || यस्याज्ञया जगत्स्रष्टा विरिञ्चः पालको हरिः | संहर्ताकाल रुद्राख्यः शिवः साम्बः सनातनः || घृतरीति घनीभूत सच्चिदानन्द लक्षणः | अणोरणीयान् सर्वात्मा महीयान् महतः प्रभुः || कर्ता पाता च संहर्ता ब्रह्मविष्णु हर प्रभुः | अविनाभूत चिच्छक्तिर्विष्फुलिङ्गाग्निवत् स्मृतः || नात्यन्तं भेद भावो हि न चाभेदो न चोभयम् | भेदा भेदौ किन्तु जीव ब्रह्मणोर्मिश्रितौ पुरा || श्रुतिस्मृति पुराणानि कामिकाद्यास्तथा गमाः | उपासनाभिगम्यं हि भेदा भेदस्वरूपकम् || प्. २७) शिवमेव सदासाम्बं हृदि कृत्वा ब्रुवन्ति हि | एतज्जगत्कारणत्वे हेतुः शास्त्रं प्रधानतः || शास्त्रं योनिर्यस्य तस्य शास्त्र योनित्वमिष्यते | शास्त्राणामथवा योनिरिति तत्वविदां स्थितिः || ब्रह्मणः शास्त्रयोनित्वात्तत्रोपनिषदां गण्यः | विषयत्वेन निर्णीतो विषयो ब्रह्मधारणम् || एतेषां ब्रह्मवाक्यानामन्वयो ब्रह्मणि स्मृतः | समन्वयात्तद्ब्रह्मैव धार्यं पूज्यं मुमुक्षुभिः || वैषम्य द्योतनार्थाय तु शब्दोऽयं प्रकाशितः | तस्माद्विषय वाक्यानि बह्वर्थानि न संशयः || तत्रैकार्थमुदाहृत्य स्वस्वबुद्ध्यनुसारतः | लोकामुह्यन्ति सततं विवदन्तः परस्परम् || पुनः संसार चक्रेऽस्मिन् भ्रमन्ति परिमोहिताः | कण्वादि कृत शापाश्च परतन्त्राजनाभुवि || साधुमार्गं परित्यज्य मार्गान्तरमुपासते | ते सर्वे तप्तनरके पतन्ति सततं ध्रुवम् || किमस्ति बहुनोक्तेन मानुष्यं जन्मदुर्लभम् | तत्रापि दुर्लभं जन्म कुले शैवस्य कस्यचित् || वीरशैवान्वये जन्म परमं दुर्लभं स्मृतम् | तत्र जाता नराः सर्वे वीरशैवानरोत्तमाः || प्. २८) विष्ण्वादि देवसंधानां रक्षकत्वात्सदा शिवः | वीर शंभुः समाख्यातस्तल्लिंगं शिव उच्यते || वीरलिंगं समभ्यर्च्य तत्स्वरूपं प्रयान्तिते | ये वीर शैवा लोकानां नित्यं मोक्षाभिलाषिणः || त्रिपुंड्रावलिभिर्दीप्ता रुद्राक्षस्रगलं कृताः | शिवलिंगार्चनपराः शिवभक्त प्रपूजकाः || पञ्चाक्षररता नित्यं गुर्वाराधन तत्पराः | कीर्तनीयाश्च वन्द्याश्च दर्शनीयाः प्रयत्नतः || शिव लोकाच्च गलिताः ते शिवानात्र संशयः | लिङ्गङ्ग सामरस्येन जीवन्मुक्ताः समाहिताः || तस्मात्सर्व प्रयत्नेन लिङ्गं धार्यं मनीषिभिः | शिवस्वरूप लाभाय पशुपाश निवृत्तये || तल्लिंग धारणं मुक्त्वा मुक्तिमिच्छतियः पुमान् | विषपानेन नित्यत्वं कुरुते स्वात्मनो हि सः | यो लिङ्गधारणं मुक्त्वा पशुशास्त्ररतो भवेत् || करस्थं पायसं त्यक्त्वा कूर्परं लेढिचात्मनः | अथाऽतो ब्रह्मजिज्ञासा जन्मा यस्य यतः शिवात् || तस्मात्तच्छास्त्रयोनित्वात् भूयस्तत्तु समन्वयात् | वेदान्त प्रत्यय न्याय अंशांसित्वमधात्स्वयम् || प्. २९) अंशोनानेति न्यायेन तदेव परिकीर्त्यते | शिवांशा ब्रह्मविष्ण्वाद्याः अंशीदेवः शिवः स्मृतः || सर्वो पास्यो महादेवः सर्वेचोपासकाः स्मृताः | कथं तयोरभेदो हि जीवात्म परमात्मनोः || सर्वज्ञत्वा दयो धर्माः शिवस्य परमात्मनः | किञ्चिज्ज्ञत्वा दयो धर्मा जीवानामिति निश्चितम् | अभेदः कथमत्यन्तं भेदाभेदौ व्यवस्थितौ || ब्रह्मणः शास्त्रयोनित्वं कथं तन्नभवेन्निजम् | आम्ना यस्य क्रियार्थत्वाद क्रियात्वाच्छिवस्य तु || ब्रह्म क्रियायाः कर्त्रादि प्रकाशन मतो न च | इति चेत्तत्र वक्ष्यामः समन्वय निरूपणात् || वेदान्तैरवगम्यन्ते सर्वज्ञत्वादयो गुणाः | वेदान्तेषु च वाक्यानि समन्वय दृडानि हि || एतेन शास्त्रयोनित्वं ब्रह्मणो दृढमिष्यते | ईक्षतेर्नाशब्दमिति ह्येतदारभ्य केवलम् || प्रथमाध्याय पर्यन्तं समन्वय इहोच्यते | सदेवेत्यादि वाक्यानि श्रूयन्ते तत्र तत्र तु || सच्छब्देन च किं ब्रह्म प्रधानं वेति संशयः | किं तावत्प्राप्तमधुना प्रधानमिति कश्चन || अचेतनस्य जगत उपादानमचेतनम् | प्. ३०) तद् दृष्टान्तानुसाराच्च चेतनं ना विलक्षणम् | शच्छब्देन परं ब्रह्म गृह्यते ह्यात्मशब्दवत् || ईक्षतेर्ब्रह्मधर्मत्वात् न प्रधानस्य युज्यते | अशब्दं हि प्रधानं तत् न हि तद्वाचक श्रुतिः || उक्तो मृदादि दृष्टान्तो विषमो नैव युक्तिमान् | तत्तेज ऐक्षतेत्यादौ तेज इत्यौप चारिकम् || एवं गौणं प्रधानेपि चेक्षणं हि तदोच्यते | गौणश्चेन्नात्मशब्दादित्येतत्सूत्राद् दृढीकृतम् || अप्तेजसोरीक्षणं हि गौणं युक्तं न चेतरत् | इह सच्छब्द वाच्यस्य चेक्षितुर्मुख्यमीक्षणम् || आत्मशब्द परामर्शात्स आत्मेत्यादि वाक्यतः | अप्तेजसोरपि तथा मुख्यमेवेक्षणं भवेत् || तदीक्षणाभिधानं हि चेश्वरस्याभिमानिनः | यथा राज्ञो ह्यात्मशब्दो भृत्ये सर्वार्थकारिणि || तथा प्रधाने सच्छब्दो युज्यते वीक्षणं च तत् | तन्निष्ठस्य च मोक्षोत्र ह्युपदेशाद्विधीयते | तन्निष्ठा ब्रह्मनिष्ठा हि ते वै मोक्षाधिकारिणः || तस्मात्प्रधानमिति च यदुक्तं तन्मृषा भवत् | जगतः कारणं ब्रह्मचोपास्यं हि मुमुक्षुभिः || नायमात्मेति वाक्येन शिवस्य वरणं तनोः | प्. ३१) वरणं नाम तद्रूप धारणं विधिमार्गतः || लिंगाङ्गेत्यादि वाक्येन मोक्षमार्गैक तत्पराः | अमृतस्येति वाक्येन धारणं प्रतिपादितम् || तन्निष्ठा एवमनुजा अति वर्णाश्रमेरताः | त एव हि महात्मानो ब्रह्मनिष्ठा उदाहृताः || लिंगाङ्ग सामरस्येन ब्रह्म भावमुपाश्रिताः | सारूप्य रूपिणीं मुक्तिं सम्प्राप्य परदुर्लभाम् || कृत कृत्या भवन्त्येव शिवानन्द भुजोऽनिशम् | अथोमित्यादि वाक्येन निश्चितं लिङ्गधारणम् || तन्मोक्ष साधनं पुण्यं तद्धार्यं हृदयांबुजे | अतः सच्छब्दवाच्यं हि ब्रह्मैव तु न संशयः | तच्चिच्छक्त्यविनाभूतं जलशैत्यमिवोदितम् || माया प्रधानमित्येत् युक्ति युक्तं न चा भवत् | अजामन्त्रेणचिच्छक्ति युक्तस्य परमात्मनः || लीलया जगदुत्पत्ति स्तिरोधानं पुनः प्रभोः | कठ कैवल्यमाण्डूक्य प्रश्नाद्युप निषत्सु च || वेदान्तसार प्रणव वज्रसूच्यादिकासु च | प्रकाशितार्थाः सर्वे च विस्मृताः कैश्चिदप्यहो || अतदर्धा निश्चिताश्च मोक्षादन्याय तत्परैः | अनेन किं बहूक्तेन सूत्रार्थो ह्ययमेव हि || प्. ३२) अत्रायमवधेयोऽर्थः सूत्रस्वरसतस्ततः | ब्रह्म जिज्ञासितं लिङ्गं शिवतत्वं श्रुतीरितम् || समनन्तर सूत्राणां त्रयाणां सौत्र शब्दतः | तात्पर्यं वीरशैवोक्तं पदार्थेष्वेव दृश्यते || तथा हि जन्म लोकानां स्थेम संहार कर्मणी | यतो हि ब्रह्मणस्तस्य ब्रह्मत्वमिति लक्षणम् || यतो वेत्यादि विषय वाक्येन तदलंकृतम् | तत्र तावदियान् भेदः सूत्रीय पदभंजने || जन्माद्यस्य यतश्चेति पदद्वयमिदं ततः | पिंडादि ज्ञान शून्यान्त स्थलस्यैक शतस्य तु | यतः सकाशादित्येतद्ब्रह्म लक्षणमुच्यते || सृष्टिवाक्या विरोधोऽपि पूर्वमेव निराकृतः | यतश्यस्थल शब्देन प्रोच्यते स्थिति संहृती || स्थीयन्ते सर्व तत्वानि लीयन्ते यत्र तत्स्थलम् | स्थिति संहार सापेक्षं जन्मचेति त्रयं स्थलम् || यतोवेत्यादिविषय वाक्यार्थानु गुणो न हि | विस्तार्य स्थल शब्देन कामिकादौ विचार्यते || अथवा कारवाच्यस्य विष्णोर्जन्म यतः शिवात् | अथर्व शिष्टया चोपनिषदायः समर्थितः || शास्त्र शासन कर्तृत्वादयोनित्वात् ततः परम् || प्. ३३) अकार वाच्य विष्णो स्तद्योनित्वात्कारणात्मकम् | लिङ्गं नियामकं तत्वं सूत्र तात्पर्यतः श्रुतम् || शास्त्रं योनिर्यस्य तस्य शास्त्रयोनित्वमेव वा | शास्त्राणां योनिरित्येवमस्माकं तत्समञ्जसम् || सर्वार्थ साधनोपायाः सन्ति सर्वागमेषु च | तथापि विवशामर्त्या यच्च किञ्चिद्वदन्ति हि || एवारीतिः सर्वसूत्र सम्मता च व्यवस्थिता | अन्याश्च रीतयः सर्वा न सूत्रानुगुणाः कृताः || ब्रह्मण्यध्यास इति यज्जगतामिष्यते परैः | असूत्रितं तु तत्सर्वंमज्ञान परिकल्पितम् || मूढामुह्यन्ति सततं यं विना मार्गमुत्तमम् | ननुतर्ह्युच्यते ब्रह्म वेदेत्यादि विधानतः || एकं ब्रह्म च ब्रह्मैव स्वाविद्येत्यादि वाक्यतः | अभेद एव कथितो भेदा भेदः कथं भवेत् || इति चेन्न ब्रह्मवेद ब्रह्मैव भवतीति यत् | उपासनाङ्गं तदिति निर्णीतं श्रुति सूत्रयोः || तन्निष्ठस्यैव मोक्षोत्र ह्युपदेशाद्ध्रुवं परम् | ब्रह्मैव सच्छब्दवाच्यं तस्मादन्यं न चा भवत् || ज्ञेयत्वा वचनाच्चैव स्वाप्ययादपि नेतरत् | अप्ययो गतिसामान्याद्ब्रह्मणे वेति निश्चितः || प्. ३४) श्रुतत्वाच्च प्रधानादेर्न हेतुत्वं कदाचन | आनन्द मयशब्दः किमभ्यासात्तित्तिरीयके || आत्मानमथ जीवं वा गृह्णातीत्यत्र संशयः | प्रियाद्यवयवादीनां योगाज्जीवो न चेश्वरः || इति चेद्भृगु वल्यां च परमात्मैव निश्चितः | आनन्द मयो ब्रह्मैव ह्यभ्यासात् पक्षिरूपकम् || प्रियाद्यंगत्व योगो हि वास्तवो न विवक्षितः | आनन्द वल्यां तद्योगो बुद्धि दार्ढ्याय कल्पितः || विकारार्थे मयट् स्वार्थे प्राचुर्यार्थे यथापुनः | नायं मयड्विकारार्थे पूर्वोत्तर विरोधतः || तूष्णीं प्राणादि शब्देन उपक्रम इहोदितः | उपसंहार वाक्येषु मयडन्तः प्रकीर्तितः || तस्मात्स्वार्थे मयट् प्राये भृगुवल्यां च निश्चितः | विकारशब्दान्नेति चेन्न प्राचुर्याद्ब्रह्म केवलम् || अन्न प्राणादि शब्दैश्च प्राचुर्याद्वा न चेतरः | तस्मान्मात्सर्यमुत्सार्य विचार्यं लिंगधारणम् || इतश्च न विकारार्थे स्वार्थे एवेति निश्चितम् | सत्यज्ञानादिमन्त्रैश्च सूत्र ब्राह्मण वाक्यतः || मन्त्र ब्रह्मणयोरैक्यादन्यस्यानुपदेशतः | ब्रह्मैवानन्द शब्दस्य वाच्यं नान्यदिति ध्रुवम् || प्. ३५) मान्त्रवर्णिकमेवात्र गीयतै तैत्तिरीयके | तद्धेतु व्यपदेशाच्च मान्त्रवर्णिकमानतः || भवेदानंद मालीति तद्धेतोस्तत्कथं भवेत् | इतश्च परमेवात्र ब्रह्मानन्द मयः श्रुतः || अन्योन्तर आत्मानंदमय इति वाक्येन केवलम् | अन्यस्य चान्तरस्यात्र नोपदेशात् परं श्रुतम् || प्रात्यस्यान्यस्याश्रवणाच्छ्रुत हानिः श्रुतौ भवेत् | नेतरो नुपपत्तिश्च ह्येकत्व प्रतिपादनात् | परं ब्रह्मानन्दमयो जीवोनेति व्यवस्थितः || तद्भेद व्यपदेशाच्च ब्रह्मानन्द मयः परम् | तस्माद्वा इति वाक्येन विज्ञानाद्भिन्न ईश्वरः || अन्योऽन्तरादिवाक्येन ह्यानन्दमय इष्यते | कामाच्च नानुमानञ्च प्रधानं भवतीति यत् || तदपेक्षा नास्तिवाक्ये कामना श्रवणाज्जडे | तस्मिन्नस्य च तद्योगं शास्त्यानन्दमयः परः || न संसारी प्रधानं वा कुतोऽस्मिन्योगशासनात् | यदा ह्येवेष एतस्मिन्निति वाक्येन निश्चितम् | अभयं परमो मोक्षस्तज्ज्ञाने सावधानता || परं ब्रह्मानन्दमयः प्राप्यं धार्यं हृदम्बुजे | अन्तस्तद्धर्मोपदेशादितः पूर्वं विचारितम् || प्. ३६) जीवानामिति तत्सर्वं निश्चितं ब्रह्मधारणम् | इतः परन्तु देवानां विचार्यं ब्रह्मधारणम् || आदित्य मण्डले तिष्ठन् जगदीशः प्रचोदयात् | तयाक्षिण्यपि देवेशः उपाष्यो नेतरो भवत् || भेदव्यपदेशाश्चान्यः परमात्मेति निश्चितः | गमादित्येति वाक्येनाप्युपास्यः परमेश्वरः | तथाकाशस्त्तल्लिङ्गाच्च ह्याकाशो ब्रह्मकेवलम् || तथाऽत-एव प्राणश्च ब्रह्मैव भवति श्रुतम् | ज्योतिः चरणाभिधानाज्ज्योतिर्ब्रह्म न भौतिकम् || छन्दोऽभिधानान्नेति चेन्नेत्यादि सूत्रेण शाश्वतम् | गायत्र्याख्यं परं ब्रह्म धार्यं ध्येयं हृदंबुजे || तथा चेतोर्पण निगदाच्छ्रुतिर्दर्शयतीति हि | चेतोर्पणं धारणं च हृदयाम्बोज मध्यमे || बहुषु श्रुति जालेषु सम्यगेवोपपादितम् | स्थानानामुत्तमं स्थानं हृदब्जमिति निश्चितम् || एवं भूतादि पादेति सूत्रेण प्रतिपादितम् | उपदेशेति सूत्रेण ज्योतिः शब्दो निरूपितः || प्राणस्तथानुगमाद्धि नाना लिङ्गाच्च संशयः | परं ब्रह्म प्राण शब्दा मुख्य प्राणेन चा भवत् || वक्तुरात्मोपदेशाद्धि प्राणशब्दो न च स्मृतः | अध्यायेऽस्मिन्नीश्वरस्य बाहुल्यात्परमेश्वरः || अध्यात्म संबन्ध भूमा ह्यस्मिन्निति दृढीकृतम् | शास्त्र दृष्ट्यातूपदेशो वामदेववदस्ति च || स्वात्मनो भेद दृष्ट्या तु सोपदेशो निरूपितः | जीव मुख्य प्राणलिङ्गान्नेति चेदिति सूत्रतः | प्. ३७) उपक्रान्तार्थ जालो हि सुदृढं प्रतिपादितः | उपसंहारैकरूप्यं शास्त्र दृष्ट्या न संशयः || जीवमुख्य प्राणलिङ्गान्नेति चेद्धारणं तथा | इहाश्रितत्वात्तद्योगात्त्रिविधोपासना बवान् || हृदब्जे वा द्वादशान्ते भ्रूमध्ये वाथवा शिवम् | ध्यायेन्मुक्त्यै सदा देवं त्रिविधोपासनं स्मृतम् || अहं संज्ञादि निर्दिष्टं हृदब्जमति दुर्लभम् | तस्माद्धृदम्बुजेधार्यं ब्रह्म लिङ्गं परात्परम् || प्राणादप्यधिकं लिङ्गं यस्माच्छ्रेयः परं भवेत् | तत्प्राण लिङ्गं मोक्षार्थी विदध्याद्धृदयाम्बुजे || || प्रथमाध्याये द्वितीयः पादः || सर्वत्र प्रसिद्धोपदेशात् | अस्मिन्पादे शिवस्यैवो पस्मममिततेजसः | सदा सर्वैरूपास्यत्वं प्रधानादेर्न युज्यते | अत-एव ऋषीणाञ्च वाक्यानि प्रसरन्ति हि | किं कारणं ब्रह्मवाक्ये ह्युपास्यत्वं सुनिश्चितम् || किं कारणं कुतो जाता जिवामः केन वा वयम् | क्वचास्माकं संप्रतिष्ठा वर्धिताः केन वा वयम् | केन वर्तामहे शश्वत्सुखेष्वन्द्येषु वा निशम् || अविलांघ्या च विश्वस्य व्यवस्था केन वा कृता | कालः स्वभावो नियतिः यदृच्छा वा त्र विद्यते || भूतानि योनिः पुरुषो योगो वैषां परोथवा | अचेतनत्वात्कालादेः चेतनत्वेन चात्मनः || प्. ३८) सुखदुःखाभिभूतत्वादनीशत्वाद्विचार्यते | ते ध्यान योगानुगताः प्रापश्यन् शक्तिमैश्वरीम् || पाशविच्छेदिकां साक्षान्निगूढां स्वगुणैर्भृशम् | तथा विच्छिन्न पाशास्ते सर्वकारणकारणम् || शक्तिमन्तं महादेवमपश्यन् दिव्य चक्षुषा | यः कारणान्यशेषाणि कालात्म सहितान्यपि || अप्रमेयो नया शक्त्या साकमेकोधि तिष्ठति | निर्द्वन्द्वं निर्विकल्पञ्च तारकाकारमीश्वरम् || हृदयाकाश संशोभि लिङ्गमत्यन्त सुन्दरम् | प्राधान्येनोपासनं च ह्यस्मिन्नेव विचार्यते || यद्ब्रह्मगीयते वेदैस्तद्ब्रह्म परिकीर्त्यते | ब्रह्मोपासनमित्येव वदन्ति विबुधा अपि || लिङ्गोपासनमित्येवं वक्तुं त्रुट्यद्गला जनाः | ब्रह्माद्याः सर्वगीर्वाणा ऋषयश्च तपस्विनः || शिवलिङ्गं मुदा धृत्वा हृदयाब्जख मध्यमे | वेदान्तेषु च सर्वत्र शिवलिङ्गं निगद्यते || किञ्च स्वात्मानन्द इति प्रोच्यते लिङ्ग वैभवः | तथापि मानवा मूर्खा मुधान्यत्प्रत्यपीपदन् || प्रत्यक्ष मोक्ष लाभो हि सर्वेषां दुर्लभः स्मृतः | वेदान्तेषु च सर्वत्र प्रसिद्ध्या ह्युपदेशतः || तज्जत्वादि गुणोपेतः शान्तो पास्यः परात्परः | प्. ३९) अप्राणो ह्यमना वाक्यात्संबन्धो मन आदिभिः | सर्वं खल्विति वाक्ये * जीव एव परो न च || लक्ष्ये बुद्धे स्थितिः साक्षादुपासनमिहोच्यते | जीवमुख्येति सूत्रेण यत्पुरा प्रतिपादितम् | तद्ब्रह्मैव जगत्कर्ता मुमुक्षूपास्य मादरात् || तज्जत्वादपि तल्लत्वात्सर्वं ब्रह्मेत्युपासनम् | प्राणश्शारीरमस्येति सन्निधानार्थ वाधिना | इदं शब्दे नेश्वरस्य परामर्शात्परो ध्रुवम् || व्यत्या सान्वीयमानोपि सर्वैरंगीकृतः श्रुतौ | अर्थतोप्यसमर्थानामानन्तर्येप्यनादरः || इदं पूर्वमिदं पश्चात्पदं वाक्ये भवेदिति | नियमो नैव वेदेस्ति पदसाङ्गत्यमर्थतः || विवक्षित गुणादीनामुपपत्त्या च केवलम् | ब्रह्मो पास्यं परं नान्यदिति सम्यक्सुनिश्चितम् || इतश्चानुपपत्तेस्तु न शारीरः कदाचन | सत्य कामः सत्य इति गुणानाञ्च शिवः परः || कर्तृत्वेन च जीवस्य कर्मत्वेन परस्य च | उपदेशादेतमितः प्रेत्येत्यस्मिन्नुपासनम् || शारीर परयोर्भेदस्स्मृतेरप्यव गम्यते | मनोमयत्वादि धर्माः विशिष्टस्यैव केवलम् || प्. ४०) इतः शब्द विशेषाच्च तर्योर्भेदो वगम्यते | उपास्यं तद्वत्परं ब्रह्म न जीव इति निश्चितम् || परस्य यदुपास्यत्वमुक्तं तन्नोपपद्यते | अर्भकौकस्त्वादि धर्म व्यपदेशान्नचेश्वरः || इति चेन्न निचाप्यत्वा देवं सर्वगतः शिवः | अणीयस्त्वं हृदाकाशापेक्षया ह्युपपद्यते || यथा सर्वगताकाशः सूची पाशाद्यपेक्षया | पर एव तथोपास्यः हृदयाकाश मध्यमे || संभोग प्राप्तिरिति चेन्न वैरोष्याद्धृदंबुजे | तस्यापहत पाप्मत्वात्सुख दुःखादयो न हि || चराचरस्य ग्रहणादत्ता पर इहोच्यते | तस्मात्प्रकरणाच्चापि संग्राह्यः पर एव सः || गुहां प्रविष्टा वात्मानौ बुद्धि जीवौ हि यद्यपि | जीवात्म परमात्मानौ निश्चितौ श्रुति सूत्रयोः || विशेषणाच्चतौ ग्राह्यावृतमित्यादि वाक्यतः | तथान्तरोपपत्तेश्च छायात्मा नैव गृह्यते || परमेश्वर एवाक्षिण्यान्तरः पुरुषः स्मृतः | य एषोक्षीति वाक्येन संशयाद्वाम इत्यतः || अमृतत्वा दयोधर्माः न जीवस्येति निऽऽऽस्चिताः | स्थाना दिव्यपदेशाच्च प्रसिद्ध स्थानको विदुः || प्. ४१) सुख विशिष्टत्वाभिधानादत्तोपास्यः परः शिवः | प्राणो ब्रह्मकमित्यत्र खंकं शब्दौ पराश्रयौ || यच्छ्रुतोपनिषत्केति सूत्रेण परमेश्वरः | संश्रुताश्चोपनिषदो ब्रह्मविद्या च येन सः || निषीदन्त्युप शीर्यन्ते संसार ग्रन्थयस्तथा | तत्तद्गत्यभिधानाच्च ग्रन्थोप्युपनिषत्स्मृता || या गतिर्देव यानाख्या प्रसिद्धा सा हृदंबुजे | अथोत्तरेण तपसा ब्रह्मचर्येण वाक्यतः | तथा प्रसिद्ध्या ब्रह्म निर्देशो निश्चितः श्रुतौ || अक्षिस्थः पुरुषो जीव इति तन्नोपपद्यते | तत्रानवस्थिते ब्रह्मा संभवान्नेतरो विभोः || चक्षुष्यन्तरः पुरुषो ब्रह्मैवेति व्यवस्थितः | अन्तर्याम्यधिदैवादौ तद्धर्मव्यपदेशतः || नियन्तृत्वादयो धर्माः संभवन्ति परस्य हि | अन्तर्यामीपरस्तस्मात्सर्वशक्तित्व संभवात् || प्रधानमन्तर्यामीति यदुक्तं तन्न गृह्यते | न च स्मार्तं प्रधानं तदतद्धर्माभिलापतः | अद्रष्टृत्वादयो धर्माः प्रधाने सम्भवन्त्यपि || द्रष्टृत्वाद्ध्यान प्रधाने चेतने सम्भवन्ति च | उभयेऽपि हि भेदेन परमे मम धीयते || प्. ४२) न शारीरोऽन्तर्यामीति काण्वा माध्यन्दिना विदुः | अदृश्यत्वदि भुजको धर्मोक्तेः पर एव सः || न जीवो वा प्रधानं वा तद्धर्माणामभावतः | परमेश्वर लिङ्गस्य सर्वज्ञत्वस्य शासनात् || दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः | अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः || तद्विशेष भेदाभ्यां व्यपदेशाच्च नेतरौ | तथा रूपोपन्यासाच्च दृश्यत्वादियुजः परः || वैश्वानरः परं ब्रह्म तत्साधारण शब्दतः | विशेषाच्च परं ब्रह्म जाठराग्न्यादिकं न हि || स्मर्यमाणं चानुमानं स्यादितः परमेश्वरः | वैश्वानरश्च न परं शब्दादिभ्यस्तु जाठरः || तथा ह्यन्तः प्रतिष्ठानादिति चेन्न तथा परः | तत्र दृष्ट्युपदेशाच्चा संभवात्पुरुषः परः || अथाथ ते स एवोऽग्निरिति वा जसनेयिनः | उक्तेभ्य एव हेतुभ्यो न भूताग्निर्न देवता || वैश्वानरो त एवात्र पर एवेति निश्चितः | साक्षादप्यविरोधञ्च जैमिनिर्मन्यते परे || अभिव्यक्तेराश्मरथ्य इति प्राह परं शिवम् | अनुस्मृतेर्बादरिश्च सम्पत्तेरिति जैमिनिः || प्. ४३) तथा हि दर्शयन्त्येन परं वैश्वानरं शिवम् | आपनन्ति तथा चार्या एवमस्मिन्पुरातनम् || जाठराग्निर्विशिष्टञ्च वैश्वानरमुमापतिम् | सर्व वेदान्त वाक्येषु प्रायेणो पासनं परम् || ब्रह्मोपासनमित्येव निश्चितं श्रुतिसूत्रयोः | शिव लिङ्गादृते ब्रह्मशब्द वाच्यं न हि श्रुतम् || || प्रथमाध्याये तृतीयः पादः || द्युभ्वाद्यायतनं ब्रह्म प्रधानं वेति संशयः | किं तावत्प्राप्तमधुना प्रधानमिति कश्चन || सेतु श्रुतेः पारवत्वा दपारं ब्रह्म नो भवत् | स्व शब्दाद्धि परं ब्रह्म न प्रधानादिकं भवेत् || तस्य मुक्तोपसृप्यत्वं द्युभ्वाद्यायतनस्य हि | तत्प्रधानस्य केनापि तद्धर्मो नैव निश्चितः || नानु मानमतच्छब्दा द्युभ्वा द्यायतनं परः || तद्भेद व्यपदेशाच्च द्युभ्वाद्यायतनं परः | तथा प्रकरणाच्चापि द्युभ्वाद्यायतनं परः || तथा स्थित्यदनाभ्यां च द्युभ्वाद्यायतनं परः | तद्भूमासं प्रसादाद्धि उपदेशात्परो ध्रुवम् | भूमाधर्मोपपत्तेश्च सर्वज्ञत्वादिकः परः || अम्बरान्त धृतेर्ब्रह्म ह्यक्षरं परिगीयते | तस्याः प्रशासना भावात्सा चाम्बर धृतिर्न च || प्. ४४) तदन्यभाव व्यावृत्तेरक्षरं ब्रह्मकेवलम् | हृदंबुजे परो ध्येयो जन्मकर्म निवृत्तये || यत्तारकं परं ब्रह्म दहराकाश मध्यगम् | तल्लिङ्गं बहिरन्विष्य लिङ्गमूर्तौ निवेश्य च || तद्दिस्वाङ्गा विना भूतमुपास्यं शुद्धमनसैः | इदमेव हि वेदान्ते सर्वत्र प्रतिपादितम् || ओं तद्ब्रह्मेत्यादि वाक्यैर्निश्चितं ब्रह्मधारणम् | तदीक्षत्रे ब्रह्मणोश्च व्यपदेशात्परः शिवः || नेतरस्य हृदाकाशे समुपास्यत्वमिष्यते | सर्वसूत्रेषु तद्ब्रह्म श्रुतिस्वारस्य योगतः || दहरकमलमध्ये ब्रह्मधार्यं यदुक्तं सकलकालि निवृत्यै पाशविच्छित्तये च | विधि हरिमुखदेवाः सर्वदा तत्स्वरूपा पतिभजनः तृप्ताः पारमुत्तीर्य मुक्ताः || हृदम्बुजे तिष्ठति यस्य लिङ्गं विचार्यमस्यास्ति न शास्त्रमन्यत् | लिङ्गाङ्गयोरैक्यमवाप्य शुद्धः साक्षाच्छिवोऽसौ सकलैश्च वन्द्यः || अलं शङ्कर भक्तानामन्य शास्त्रा वलोकनैः | अगन्तव्या ग्रहारस्य पदवी श्रवणेन किम् || अक्षरं प्राणदं ब्रह्म हृदयाम्ब्जे विचार्यते | किं ध्येयं किं सदा पूज्यं प्रधानं जीव गव वा || इति सन्दिह्य सर्वत्र सिद्धान्ते ब्रह्म केवलम् | उपास्यमिति निर्णीतं पुनः संदिह्यतेऽथ यत् || प्. ४५) बुद्धि दार्ढ्याय तत्सर्वमन्वेष्टव्यं मनीषिभिः | दहर उत्तरेभ्यश्चेत्युपास्यः परमेश्वरः || तथा हि गतिशब्दाभ्यां लिङ्गं दृष्टं च यत्परे | ततोऽपि हृत्पुंडरीके समुपास्यः परः शिवः || उत्तरेभ्यश्च हेतुभ्यो यद्धृतिः प्रतिपाद्यते | सन्ध्या वन्दनवन्नित्या निश्चिता वेदशास्त्रयोः || धारणं दहराकाशे यावज्जीवं सुनिश्चितम् | उपलब्धेर्महिम्नोस्य धृतेरस्मिन् तदिष्यते || प्रसिद्धेश्च हृदाकाशे ब्रह्म धार्यं परात्परम् | इतरस्य परापर्शात्स एव इति चेन्न हि || असंभवात्परं ब्रह्मधार्यं ध्येयं हृदम्बुजे | आविर्भूत स्वरूपस्तु सोत्तराच्चेत्तथा हृदि || अन्यार्थश्च परामर्शः स एव हृदयाम्बुजे | अल्पश्रुतेरिति यदि तदुक्तं श्रुति सूत्रयोः || अनुकृतेस्तस्य चात्राप्यपि च स्मर्यते श्रुतौ | श्रुतिसूत्र न्याय भंग्या निश्चितं लिङ्गधारणम् || धृतेर्वा चनिको योऽर्थः सूत्रेषु प्रतिपादितः | वाच्यं लिंगं हृदाकाशे नित्यं तद्धारणं हि यत् || एभिः सूत्रैः सदा ब्रह्म धर्तव्यं हृदयाम्बुजे | तदेव हि परं स्थानं निर्णीतं श्रुति सूत्रयोः || प्. ४६) तच्छब्दात्प्रमितं ब्रह्म दहरे दिव्यमद्भुतम् | पूज्यं ध्येयं धार्यमेव जन्म कर्मनिवृत्तये || यन्मनुष्याधि कारत्वाच्छास्त्रस्य हृद्यपेक्षया | तत्तु ध्येयं हृदि सदा लिङ्गं विष्ण्वादि पूजितम् || यथा मनुष्यैर्धर्त्तव्यं लिङ्गं देवैस्तथैव हि | अधिकारं दैवतानां मनुते बादरायणः || तदुपर्यपि देवानां विष्ण्वादीनां च संभवात् | तेषां विग्रह वत्वाच्च ह्यधिकारोऽत्र निश्चितः || नानेक प्रतिपत्तेर्हि विरोधः कर्मणीति चेत् | दर्शनाद्देवतानाञ्च ह्यधिकारः सुनिश्चितः || विरोधो दुष्परिहरः शब्दस्य प्रचुरस्य च | इति चेन्नातः प्रभवाच्छ्रुत्या स्मृत्या च नैव तत् || अत-एव च नित्यत्वं वेद तद्धर्मयोर्ध्रुवम् | समान नामरूपत्वादुत्तरा सृष्टिरेव च || आवृत्तावीश्वराणामप्यविरोधोऽत्र निश्चितः | दर्शनाच्च स्मृतेश्चैव ह्यविरोधोत्र निश्चितः || एतत्सूत्रेषु दैवानां मनुष्याणां च निश्चितः | इतः परं तु शूद्राणामधिकारोऽस्ति वा न वा | इति सन्दिह्यते तेषां जैमिनिर्मन्यते मुनिः || प्. ४७) असम्भवान्नाधिकारं मध्वादिषु तथा भवत् | तत्र ज्योतिषि भावाच्च देवानां नाधिकारता || अचेतनं मण्डलं हि चेतनेन सुनिश्चितम् | बदरायण आचार्यो मन्यते देवतादिषु || अधिकारं तथैवेति शूद्रादीनां न चा भवत् | संस्कारैः संस्कृता ये च ते सर्वेप्यधिकारिणः || तदनादरपाठाच्च सूच्यते तेषु नादरः | क्षत्रियत्व गतेश्चापि लिङ्गाच्चैत्ररथेन हि || उत्तरत्र न तेषां तु संस्कारैर्वर्जनं यथा | क्षत्रियाणां च शूद्राणां त्रैवर्णिक निरूपणम् || तदभावाभिलापाच्च संस्कारस्याभिमर्शनान् | प्रवृत्तेस्तदभावस्य धारणे च तथेति चेत् || श्रवणा ध्ययनार्थस्य प्रतिषेधात्स्मृतेरपि | शूद्रादीनां नाधिकार इति सम्यक् सुनिश्चितः || कम्पनाच्च परं ब्रह्म ज्योतिर्ब्रह्मैव दर्शनात् | आकाशोऽर्थान्तरत्वादि व्यपदेशात्परः स्मृतः || सुषुप्त्युत्क्रान्त्योर्भेदेन पर एवा भिधीयते | अतः पत्यादि शब्देभ्यो ब्रह्म लिङ्ग सनातनम् || हृदंबुजे सदाधार्यं सदा पूज्यं मुमुक्षुभिः | शुद्धस्फटिकसंकाशं देवं निष्कलमव्ययम् || प् ४८) कारणं सर्वलोकानां सर्वलोकमयं परम् | अन्तर्बहिः स्थितं लिङ्गमणेरल्पं महत्परम् || भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् | ब्रह्मेन्द्र विष्णुरुद्राद्यैरपि देवैरगोचरम् | वेदसारं च विद्वद्भिरगोचरमिति श्रुतम् || आदि मध्यान्तरहितं भेषजं भवरोगिणाम् | शिवतत्वमितिख्यातं शिवार्थर्थं जगति स्थितम् || अव्यक्तं लिङ्गमाख्यातं सर्वतत्वैककारणम् | अनाद्यनन्तं विश्वस्य यदुपासनकारणम् || तदेव मूल प्रकृतिर्धार्मिकी गगनात्मिका | तत एव समुत्पन्नं जगदेतच्चराचरम् || अशुद्धं शुद्धवच्छुद्धं शुद्धा शुद्धं च यत्त्रिधा | ततः शिवो महेशश्च रुद्रो विष्णुः पितामहः || भूतानि चेन्द्रियैर्जाता लीयन्तेत्र शिवाज्ञया | अत-एव शिवोलिङ्गी लिङ्गमाज्ञापयेद्यतः || यत्तद्येन तदा ज्ञातं कार्याय प्रभवेत्स्वतः | ततो जातस्य विश्वस्य तत्रैव विलयो यतः || अनेन लिङ्गता तस्य भवेन्नान्येन केनचित् | लिंगं च शिवयोर्देहं ताभ्यां यस्मादधिष्ठितम् || अतस्तत्र शिवः सांबो नित्यमेव समर्च्यते | प्. ४९) लिङ्गवेदी महादेवी लिंगं साक्षान्महेश्वरः | तयोस्तु पूजनादेव स च सा च समर्चितौ || न तयोर्लिङ्ग देहत्वं विद्यते परमार्थतः | ओं मित्येकाक्षरं ब्रह्म ब्रह्मणः प्रतिपादकम् || तदप्य विदितं तावद्ब्रह्मणा विष्णुना तदा | रजसा तमसा चित्तं तयोर्यस्मात्तिरस्कृतम् || तदादि भक्तमभवच्चतुर्थैकं यदक्षरम् | अ उमेति त्रिमात्राभिः परस्ताच्चार्धमात्रया | तत्राकाराश्रिते भागे परलिङ्गस्य दक्षिणे || उकारश्चोत्तरे तच्च मकारस्तस्य मध्यतः | अर्धमात्रात्मको नादः श्रूयते लिङ्ग मूर्धनि || विभक्तेपि तथा तस्मिन् प्रणवे परमाक्षरे | विभागार्थं ततो देवौ न किञ्चिदथ जग्मतुः || वेदात्मना तथा व्यक्तः प्रणवो विकृतिं गतः | तत्राकारोत्रगभवत् उकारो यजुरव्ययः || मकारः सामसंजातो नादस्त्वाथर्वणी श्रुतिः | ऋगुपस्थापयामास समात्सास्वार्धमात्मनः || रजो गुणेषु ब्रह्माणं मूर्तिष्वाद्यं क्रियास्वपि | सृष्टिं लोकेषु पृथिवीं तत्वेष्वात्मानमव्ययम् || कलाध्वनि निवृत्तिं च सद्यं ब्रह्मसु पञ्चसु | लिङ्गभागेष्वधा भागं बीजाख्यं कारण त्रये || प्. ५०) चतुष्षष्टि गुणैखर्यं बौद्धं यदणिमादिषु | तदित्थमर्थैर्दशभिः व्याप्तं विश्वमृचा जगत् || अथोपस्थापयामास स्वार्थं दशविधं यजुः | सत्वं गुणेषु विष्णुं च मूर्तिष्वाद्यं क्रियास्वपि || स्थितिं लोकेष्वन्तरिक्षं विद्यां तत्त्वेषु च त्रिषु | कलाध्वनि प्रतिष्ठां च वामं ब्रह्मसु पञ्चसु || मध्यं च लिंगभागेषु योनिं च त्रिषु हेतुषु | प्राकृतं च तथैश्वर्यं तस्माद्विश्वं यजुर्मयम् || अथोपस्यापयामास सामार्थं दशधात्मनः | तमोगुणेष्वथोरुद्रं मूर्तिष्वाद्यं क्रियास्वपि || संहृतिं तु त्रिलोकेषु तत्वेषु शिवमुत्तमम् | विद्या कलामघोरं च घोरं ब्रह्मसुपञ्चसु || लिंगभागे पीठोर्ध्वं वा जिनं कारणत्रये | पौरुषं च तथैश्वर्यमित्थं साम्ना ततं जगत् || अथाथर्वाह नैर्गुण्य * * * * * मात्मनः | ततो महेश्वरं साक्षान्मूर्तिष्वपि सदाशिवम् || क्रियासु निष्क्रियस्यापि शिवस्य परमात्मनः | भूतानु ग्रहणं चैव मुच्यन्ते येन जन्तवः || लोकेष्वपि यतो वाचो निवृत्ता मनसा सह | तदूर्ध्वमुन्मना लोकात्सोम लोकमलौकिकम् || सोमः सहो मया तत्र नित्यं निवसतीश्वरः | प्. ५१) तदूर्ध्वमुन्मनालोकाद्यं प्राप्य न निवर्तते | शान्तिं च शान्त्यतीतं च व्यापिकां वै कला स्वपि || तत्पुरुषं च तथेशानं तत्र ब्रह्मसु पञ्चसु | मूर्धानमपि लिंगस्य भागं भागेष्वनुत्तरम् || तत्र लिङ्गेसमाराध्यः केल्वलो निष्कलः परः | तत्वेष्वपि तथा बिन्दोर्नादाच्छक्तेस्ततः परम् || तत्वादपि परं तत्वं अतत्वं परमार्थतः | कारणेषु त्रयातीतान्माया विक्षोभकारणात् || अनन्ताच्छुद्धविद्यायाः परस्ताच्च महेश्वरः | सर्वविद्येश्वराधीशात् तत्पराच्च सदाशिवात् || सर्वमन्त्र तनोर्वेदाच्छक्तित्रय समन्वितात् | पञ्चवक्त्राद्दशभुजात् साक्षात्सकल निष्कलात् || तस्मादपि पराद्बिन्दोरर्धेन्दोश्च ततः परात् | ततः परान्निरोधीशान्नादाख्याच्च ततः परात् || ततः परात्सुषुम्नेशात् ब्रह्मरन्ध्रेश्वरादपि | ततः परस्याः शक्तेश्च परस्ताच्छिव तत्वतः || परमं कारणं साक्षात् स्वयं निष्कारणं शिवम् | कारणानां च धाता च या तारं ध्येयमव्ययम् || हृदयाकाश * * *? परमात्मोपरिस्थितम् | * *? श्वर्येण संपूर्णं सर्वेश्वरमनीश्वरम् || प्. ५२) ऐश्वर्याच्चापि मायेयादशुद्धान्मानुषादिकात् | अपराच्चापराच्चाद्यादविशुद्धाध्व गोचरात् || तत्पराच्छुद्ध विद्याद्यात्समनंतात्परात्परात् | परमं परमैश्वर्यमुन्मनोर्ध्वमनादि च | अपारमपराधीन निरस्तातिशयं स्थिरम् || इत्थमर्थैर्दशविधैरिथमाथर्वणी श्रुतिः | यस्माद्गरीयसी तस्माद्विश्वं व्याप्तमथर्वणात् || ऋग्वेदः पुनराहेदं जगद्रूपं मयोच्यते | येनायमात्मा तत्वस्य नित्यमस्याभिधायकः || यजुर्वेदोऽवदत्तद्वत्स्वप्नावप्या मयोच्यते | भोग्यात्मना परिणता विद्या वेद्या यतो मयि || साम चाह सुषुप्त्याख्यं सर्वं सर्वं मयोच्यते | ममार्थेन शिवेनेदं तामसेनाभि भूयते || अथर्वाह तुरीयाख्यं तुरीयातीतमेव च | मयाभिभूयते तस्मादध्वातीतः परोस्म्यहम् || अध्वात्मकं तृतीयं तु शिवविद्यात्म संज्ञितम् | तत्त्रैगुण्यं त्रयीसाध्यं शोध्यं पतिपदैषिणाम् || अध्वातीतं तुरीयाख्यं निर्वाणं परमं पदम् | तदतीतं च नैर्गुण्यादध्वनोस्या विशोधकम् | द्वयोः प्रमापको नादो नादान्तश्च ममात्मकः || प्. ५३) तस्मान्ममार्थः स्वातन्त्र्यात्प्रधान परमेश्वरः | यदस्तिवस्तु तत्सर्वं गुणप्राधान्ययोगतः || समस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते | सदसदर्थवाचकं तस्माल्लिङ्गमेव तदक्षरम् || तेनोमिति जगत्कृत्स्नं कुरुते प्रथमं शिवः | शिवो वा प्रणवो ह्येष प्रणवो वा शिवः स्मृतः || वाच्यवाचकयोर्भेदो नात्यन्तं विद्यते यतः | चिन्तयारहितो रुद्रो वाच्योऽयं मनसा सह || अप्राप्य तन्निवर्तन्ते वाच्यस्त्वेकाक्षरेण सः | एकाक्षरादकाराख्यादाज्ञा ब्रह्माभिधीयते || एकाक्षरादुकाराख्याद्विद्याविष्णुरुदिर्यते | एकाक्षरान्मकाराख्याच्छिवोरुद्र उदाहृतः || दक्षिणाङ्गान्महेशस्य जातो ब्रह्मात्मसंज्ञितः | वामाङ्गादभवद्विष्णुस्ततो विद्येति संज्ञितः || हृदयादधिरुद्रो भूच्छिवस्य शिव संज्ञकः | स्थितेः प्रवर्तको ब्रह्मा स्थितेर्विष्णुर्विमोहकः || संहारस्य ततो रुद्रः तयोर्नित्यं नियामकः | तस्मात्त्रयस्ते कथ्यन्ते जगतः कारणत्रयम् || कारणत्रयहेतुश्च शिवः परमकारणम् | अर्थमेनमविज्ञाय रजसा बद्ध वैरयोः || प्. ५४) तयोर्मध्ये महालिङ्गं स्वयं तत्र समुत्थितम् | एवमोमोमिति प्राहुर्यदिहोक्तमथर्वणा || ऋचो यजूंषि सामानि शाखाश्चान्याः सहस्रशः | वेदेष्वेवं स्वयं वक्त्रे व्यक्तमर्थं वदत्स्वपि || स्वप्नानुभूतमिव तत्ताभ्या मध्यवसीयते | तत्व प्रकाशकं लिङ्गं स्वयं तत्वं समुत्थितम् || ततो लिङ्गस्य लिङ्गत्वं लिङ्गिनोपि च लिङ्गिता | ततो विश्वस्य जगतो विशेषात्स्वात्मनोपि च || उत्पत्ति विलयं चैव यायार्थ्यं च षडध्वनाम् | निसत्तरतरं ब्रह्म निष्कलं लिङ्गमैश्वरम् || पशुपाशमयस्यास्य प्रपञ्चस्य सदा पतिम् | अकुतोभयमत्यन्तमवृद्धि क्षयमव्ययम् || बाह्यमाभ्यन्तरं बाह्य बाह्याभ्यन्तर वर्जितम् | निरस्तानिशयं शश्वद्विश्वलोक विलक्षणम् || अलक्षणमनिर्देश्यमवाङ्मनस गोचरम् | प्रकाशैक रसं शान्तं प्रसन्नं सततोदितम् || सर्वकल्याण निलयं शक्त्या तादृशयान्वितम् | एवं लिङ्गस्य महिमा वेदान्तेषु प्रकाशितः || तज्ज्ञात्वा हृदये धार्यं सामरस्य विधानतः | यो दत्ते लिङ्गमव्यक्तं स एव परमेश्वरः || प्. ५५) इति सूत्रेषु बहुषु तद्धारणमुदाहृतम् || || प्रथामाध्याये चतुर्थः पादः || प्रतिज्ञाय च जिज्ञासां लक्षणं ब्रह्मणः कृतम् | तल्लक्षणं प्रधानेपि गतमित्यनुशंकितम् || अशब्दत्वेन तत्पूर्वं निराकृतमिदं पुनः | आशंक्य शब्दवध्वं हि निराकर्तुं प्रवर्तते || आनुमानिकमित्यादि सूत्रं तस्यार्थ निर्णयः | अनुमानेन निर्णीतं सांख्यादिभिरिहोदितम् || अव्यक्तं हि प्रधानं तदित्येकेषां श्रुतौ पुनः | सांख्य प्रसिद्धमेवात्र पठ्यते महदित्यपि || इति चेन्न शरीरस्य गहणात्तत्पदेन हि | रथरूपक विन्यस्तमव्यक्ते नैव गृह्यते || शरीरमेवा व्यक्तं हि न प्रधानादिकं भवेत् | तत्सूक्ष्मकृत दर्भत्वात् स्थूलं यद्यपि ना भवत् | तथापि सूक्ष्मं तदिति निर्णीतं श्रुति सूत्रयोः || अर्थवत्तदधीनत्वात्परत्वं तस्य गृह्यते | ज्ञेयत्वा वचनाच्चैव न प्रधानमिवा भवत् || वदतीति श्रुतिरपि प्रधानस्येति चेन्न हि | तथा प्रकरणात्प्राज्ञो न प्रधानं तथा भवत् | अग्निजीवेश्वराणाञ्च त्रयाणां प्रश्न इत्यपि || प्. ५६) एवमेव ह्युपन्यासो महद्वच्च तथैव च | न सांख्याभि मतं किन्तु शारीरमिति निश्चितम् || अविशेषाच्चमसवन्न प्रधानमिहोच्यते | उपक्रमात्तु यज्योति तु शब्दोह्यवधारणे || तेजोवन्न प्रकृतिरप्यजा शब्देन गृह्यते | तथा ह्येके धीयतेऽत्र प्रकृतिः शक्तिरेव च || तत्कल्पनोपदेशाच्च मध्वादिवदि होच्यते | अविरोधो ह्यजाशब्दात्प्रकृतिः शक्तिरिष्यते || नाना भावातिरेकाच्च तन्नसांख्योपसंग्रहात् | तस्मान्न सांख्य वादस्य श्रुतिमत्वमिहेष्यते || प्राणादयो वाक्य शेषात्संख्या पूरणमिष्यते | तथा हि ज्योतिषैकेषामसत्यं नेति सूत्रतः || प्राणादिनैव तत्रापि संख्या सम्पत्ति संभवात् | यथा काशादिषु पुनः कारणत्वेन चा भवत् || तत्रैव व्यपदिष्टोक्तेरात्मैव परिगृह्यते | समाकर्षाच्च ब्रह्मैव वेदितव्यं न चेतरत् || तस्माज्जगद्वाचित्वाच्च वाचित्वाद्ब्रह्मकेवलम् | तदुक्तं जीव मुख्येति सूत्रेणापि दृढं स्मृतम् | तथा प्रश्न व्याख्या नाभ्यामन्यार्थं जैमिनिर्मुनिः || मन्यतेऽस्मिन् प्रकरणे प्राण प्रग्रहणं तथा | वाक्यान्वयात्परं ब्रह्म चल्लिंगं हृदयाम्बुजे || उपास्यं तत्परं ब्रह्मवेदितव्यं मनीषिभिः | लिङ्ग प्रतिज्ञा सिद्धेश्च हृदब्जे धार्यमव्ययम् || प्. ५७) आश्मरथ्यो मुनिस्तत्र मन्यते पुनरादरात् | एवं भावादौडुलोमिरित्येव ह्युत्क्रमिष्यते || अवस्थितेः काश कृत्स्न इति तद्ब्रह्म जीवयोः | न भेदोपि न चा भेदः सामरस्यात्तयोर्ध्रुवम् || भेदाभेदाभ्युप गमाद्विष्फुलिङ्गाग्निवत्तदा | जीवोह्युपासकः साक्षादुपास्यं ब्रह्म केवलम् | लिङ्गाङ्गसामरस्येन भेदा भेदौ व्यवस्थितौ || उपादानं हि प्रकृतिर्निर्मितं ब्रह्मकेवलम् | दृष्टान्तानुपरोधाच्च मृदादि वदिहेष्यते || तथा विधोपदेशाच्च प्रकृतित्वं विचार्यते | प्रकृतित्वञ्च कर्तृत्वं च ब्रह्मणो वाक्य गौरवात् || साक्षादप्युभयाम्नानात् प्रकृतिः कर्तृ च श्रुतम् | योनिश्च हीति सूत्रेण ब्रह्मणो निश्चिते पुनः || कर्तृत्व प्रकृतित्वे च योनि शब्देन तत्तया | परिणामादात्मकृतेरात्मानं स्वयमित्यतः || प्रकृतित्वं च कर्तृत्वं सिद्धं तस्मात्परस्य हि | एतेन सर्वे व्याख्याता व्याख्याता इति सूत्रतः || एतैश्च हेतुभिस्सर्वे वेदान्ता ब्रह्म तत्पराः | तद्ब्रह्म हृदयेधार्यं प्रतिसूत्रं व्यवस्थितम् | एतदैश्वर्यं विभवं लिङ्गं ब्रह्म हृदम्बुजे || सामरस्य विधानेन धार्यं पूज्यं मुमुक्षुभिः | प्. ५८) तस्मात्सर्व प्रयत्नेन सर्वकर्माणि मानवः | परिवृत्य यथाकालं करपीठे तु पूजयेत् || यतः पा * * * * * भक्तिर्नौरिव निर्मिता | तस्माद्भक्त्युपपन्नस्य रजसातमसा च किम् || अन्त्यजो वा धमोवापि मूर्खो वा पतितोपि वा | शिवभाव प्रपपन्नाश्चेत्पूज्यः सर्वसुरा सुरैः || तस्मात्सर्व प्रयत्नेन हृदये धारयेच्छिवम् | अभक्तानां क्वचिदपि फलं नास्ति यतस्ततः || वैदैश्शास्त्रैर्वेदविद्भिर्विचार्याथ सुनिश्चितम् | ब्रह्मघ्नो वा सुरापो वास्तेयी वा गुरुतल्पगः | मातृहापितृहावापि वीरहाब्रूणहापि वा || सम्पूज्यामन्त्रकं भक्त्या शिवलिङ्गं परात्परम् | तस्तैः पापैः प्रमुच्यते सामरस्य मना यदि || तस्मात्सर्व प्रयत्नेन पतितोपि यजेच्छिवम् | भक्तश्चेन्नापरः कश्चित् भिक्षाहारो जितेन्द्रियः || कृत्वापि सु महत्पापं भक्त्या पञ्चाक्षरेण तु | पूजयेद्यदि तल्लिङ्गं तस्मात्पापात्प्रमुच्यते || अभक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः | तेषामेतैर्व्रतैर्नास्ति शिवलोक समागमः || भक्त्या पञ्चाक्षरेणैव यो लिङ्गं सकृदर्चयेत् | सोपि गच्छेच्छिवस्थानं शिव लिङ्गस्य धारणात् || तस्मात्तपांसि यज्ञाश्च सर्वे सर्वस्वदक्षिणाः || प् ५९) शिवलिङ्गार्चनस्यैते कोट्यंशेनापिनो सामाः | अरुद्रो वाथ रुद्रो वा शिवलिङ्गं समर्चयेत् || यः सकृत्पतितो वापि मूढो वा मुह्यते नरः | षडक्षरेण वा नित्यं तथा पञ्चाक्षरेण वा || एककालं द्विकालं वा त्रिकालं सर्वदाथवा | येर्चयन्ति महादेवं विज्ञेयास्ते गणेश्वराः || जातेनात्मद्रुहा येन नार्चितं लिङ्गमैश्वरम् | सुचिरं सञ्चरत्यासीन् संसारे दुःखसागरे || दुर्लाभं प्राप्य मानुष्यं तल्लिङ्गं यो न धारयेत् | निष्फलं तस्य तज्जन्म मोक्षाय न भवेद्यतः || दृत्प्रदेशे सदाधार्यं शिवलिङ्गं मनीषिभिः | दुर्लभं प्राप्य मानुष्यं यो लिङ्गं हृदि धारयेत् || तस्यैव सफलं जन्म कृतार्थः स नरोत्तमः | लिङ्गङ्ग संभवा ये च शिवलिङ्गैक तत्पराः || शिवलिङ्गार्चन पराः न ते दुःखस्य भागिनः | ये वाञ्छन्ति महाभोगान् राज्यं च त्रिदशालये | तेऽर्च यन्ति सदाकालं हृदिस्थं लिङ्गमद्भुतम् || सौभाग्यं कान्तिमद्रूपं सत्यं प्रभावता | शौर्यं च जगति ख्यातिः लिङ्गमर्चयतो भवेत् || तस्मात्सर्वं परित्यज्य शिवैकाहित मानसः || प्. ६०) सामरस्य विधिं कुर्यात् यदीच्छेच्छिवमात्मनः | संग्रहेण प्रमाणानि पुराणेष्वागमेषु च || अन्विष्यलिखितन्येतान्येकस्मिन् विषये पुनः | पौनरुत्थमनादृत्य बुद्धिदार्ढ्याय सादरम् || वदिकत्वं दर्शयता सूत्र तात्पर्य वर्णनम् | कर्तव्यं वचनैरव्यैः किं साध्यमिति चेच्छृणु || वाक्यानि संग्रहेणैव व्याससूत्रैक रूपताम् | वीरशैवागमाख्यात पदार्थानां परस्परम् || आगमेषु पदार्था ये त एव व्यास सूत्रके | शब्दभेदेन वक्ष्यन्ते संज्ञा भङ्ग्यन्तरेण च || शास्त्र योनित्व सूत्रेण शास्त्राणां योनिता श्रुता | जिह्वाग्रे गुरुलिंगं स्याज्जगुरागमिका इति || उपदेष्टा शिवः साक्षात् विद्यानां जगतां यतः | ज्योतिश्चरण सूत्रेण य एषोऽक्षिणि पूरुषः || परं ब्रह्मेति कथितस्तमेवागमिका जगुः | दृगंगे शिवलिंगं यादिति लिङ्गस्वरूपताम् || अत-एव प्राण इति प्राणानां ब्रह्मता श्रुता | आगमेषु समाख्यातं प्राणलिङ्गं तथान्तरे || दहराख्येधिकरणे यद्ब्रह्म समुदीरितम् | तदेवागम शास्त्रेषु महालिंगं ह्युदीरितम् || प्. ६१) आनन्दाख्येऽधिकरणे यच्च ब्रह्म समीरितम् | भावलिङ्गं तदेवाहु रागमार्थ विशारदाः || भावार्पणादि भेदेन यदुक्तं त्रिविधार्पगम् | चेतोर्पगाधिकरणे स एवार्थो विचार्यते || छन्दो विशेष परतामाशंक्याथ विचारितम् | धा प्रेरकत्वादित्यादि सर्वभाष्येषु वार्तिके || स्थानादि व्यपदेशाच्च सूत्रे योऽर्थः स एव हि | स्थल शब्देनागमेषु सर्वत्र समुदीर्यते | प्रतिसूत्रं चैवमेव वक्तुं शक्या सरूपता || ग्रन्थ विस्तरभीत्याहं प्रकृतार्थमुपक्रमे | भेदाभेद इति प्रोक्तस्तत्रैवमवधार्यताम् | कैश्चित्व सूत्रितो ध्यासः शास्त्रस्यादौ समर्थितः || आदि सूत्रे सूचितव्यो विषयः च प्रयोजनम् | जीव ब्रह्म स्वरूपैक्य लक्षणो विषयश्चयः || तज्ज्ञानं चाभ्यास तन्त्रमिति सूत्रार्थ एव चेत् | जीव ब्रह्म स्वरूपैक्यस्यैवा भावेन तस्य च | विषयत्वं न युज्यते तत्व दृष्ट्याऽवधार्यताम् || जीवब्रह्म स्वरूपैक्यं न क्वचित् सूत्रितं पुनः | अंशोनानेति सूत्रे तु जीवस्य ब्रह्मणोंशता || भिन्ना भिन्नत्वमग्नेस्तु विस्फुलिङ्गवदीरितम् | प्. ६२) न ह्यग्निर्विष्फुलिङ्गय स्वरूपैक्यं प्रदृश्यते | जीवस्य ब्रह्मणोयेन स्वरूपैक्यं पुनर्भवेत् || न भेदाभेदयोर्युक्तमेकस्मिन्नेव वर्तनम् | परस्पर विरोधादित्यतो वाच्या विचक्षणैः || अविद्या लक्षणोपाधिकृता मिथ्याभिदा इति | उभय व्यपदेशादित्यहि कुण्डलवत्तथा || प्रकाशाश्रयवद्वाच ते नस्त्वात्पूर्ववत्तथा | अनुज्ञा परिहारौ च देहसम्बन्धतस्तथा || ज्योतिरादि वदित्येवं तत्संभाव्यातस्तथा | उपपत्तेः प्रदीपवदादेशस्तदनन्तरम् || तथा हि दर्शयतीति च भेदा भिदयोः पुनः | प्रमाणतोपि सिद्धत्वाद् दृष्टान्तेषु च दर्शनात् || विजानीयात्तदन्योन्यमविरोध व्यवस्थितिम् | तथा च वक्ष्यते तैश्च तथा भोक्त्रादि सूत्रके || अविरोधं संप्रदृश्य व्याख्यातं सूत्रमप्यथ | ब्रह्म कारणवादश्च यदि चेदन्यथा पुनः || सम्यक्तर्क बले नैवाक्षिप्यते यद्यपि श्रुतिः | प्रमाणं स्वस्य विषये स्वयं भवितु मर्हति || तथापि स्वस्य विषये प्रमाणान्तरतो हृते | स्वयमन्या परैषस्यात्कृष्णल श्रवणे यथा || प्. ६३) यथा मन्त्रार्थवादौ च तर्कोपिस्वस्य गोचरात् | अप्रतिष्ठित एवस्या दन्यत्रैवं किल स्थितिः | धर्माधर्मस्थलेदृष्टा तर्क दुर्बलता पुनः || प्रमाणान्तर सिद्धार्थ बोधनं यच्छ्रुतेः पुनः | अयुक्तं तदिदं विंद्याद्यद्येवं सम्मतं तव || प्रमाणान्तर सिद्धोर्थः श्रुत्याकोवात्र बोध्यते | भोक्तृ भोज्य विभागो हि प्रसिद्धो जगति ह्ययम् | शारीरश्चेतनो भोक्ता भोग्याश्शब्दादयस्त्विमे || यथा भोक्ता देवदत्तो भोग्यास्ते चोदनादयः | भोक्तृ भोग्यविभागस्याभावः सर्वस्थले भवेत् || यदि भोक्ता भोग्यभावं भोग्यं भोक्तृत्वमेव वा | तयोरन्योन्यतापत्तिः ब्रह्मणः परकारणात् | अनन्यत्वात्प्रसज्येत न युक्तं यदि बाधनम् || प्रसिद्धस्य विभागस्य न युक्तमत एव हि | ब्रह्मकारणतायाश्च निश्चयोनेति यो वदेत् || स्याल्लोकवदिति ब्रूयात्तं मूर्खं पुरुषं प्रति | उपपद्यत एवेदमस्मत्पक्षे विभाजनम् || एवं लोके च दृष्टत्वात् समुद्रादुदकात्मनः | अनन्यत्वेपि वीच्यादेर्विभाग उपपद्यते | न चोदकात्मनो नार्धेरनन्यत्वेपि वै पुनः || प्. ६४) फेनादीनामनेकेषामितरेतरता मता | न वीचीतरङ्गादेरन्योन्यत्वे त्वसंभवे | उदात्मनः सरिद्भर्तुरनन्यत्वं न सिध्यति || इहाप्येवं भोक्तृभोग्य विभागोपि समर्थितः | सदात्मकाद्ब्रह्मणो नाप्य न न्यत्वं न सिध्यति || नन्वेतद विरोधस्य वादमात्रं समर्थनम् | तदनन्यत्वमारम्भण शब्दादिभ्य सूत्रके || वाचारम्भणमित्यादि श्रुत्या सर्वस्य सर्वथा | न च भेद प्रपञ्चस्य बाधितत्व समर्थनात् || न चा नेन हि सूत्रेण श्रुत्या वाचादि रूपया | कृत्स्नस्यापि प्रपञ्चस्य बाधितत्वं समर्थ्यते || न प्रत्यक्ष प्रमाणेन सिद्धोभेद प्रपञ्चकः | शक्यते बाधितुं श्रुत्या किन्तु न्यायय इतीर्यते || श्रुतेरेवान्यपरता प्रत्यक्षादि विरोधतः | यथा हि पूर्व तन्त्रे च कृष्णलं श्रपयेद्विधेः || प्रत्यक्षेण स्वर्णमाषे विकॢत्तौ बाधिते सति | उष्णीकरणमात्रार्थ लक्षणापरता वृता || यत्सोमेन यजेतेति विधौयागेन भावयेत् | इत्यर्थ स्वीकृतौ सोमेन यागेनेति चोभयोः | सामानाधिकरण्येन ह्यन्वये सोमयागयोः || प्. ६५) प्रत्यक्षाभेद बाधेन भेदो लक्षणया यथा | अपि चेद्यदि कृत्स्नस्य प्रपञ्चस्य च बाधनम् || तर्हि श्रुति स्वरूपस्य परार्थ स्मरणस्य च | तथा वाक्यार्थ ज्ञानस्य प्रपञ्चान्तर्गतत्वतः || बाधे तेषामपि सति प्रपञ्चो बाध्यतां कथम् | कथं मज्जनीवन्ध्या मम जिह्वा न चेति च || न च प्रपञ्च बाधेपि तिष्ठत्येव स्वरूपकम् | तस्मात्कार्यं चोपपन्नंमिति वक्तुं हि शक्यते || प्रतियोग्य निवेधे सत्यभावो वादमात्रतः | न च श्रुत्या प्रपञ्चस्य स्वरूपं न हि बाध्यते || येन वा स्याद्धि व्याघातः सत्यत्वं तस्य किं त्विति | स्वरूप बाधा भावेया बाध्याता रूपसत्यता || प्रपञ्चेभ्युपगन्तव्या न स्यात्सत्यत्व बाधनम् | तस्मान्नानेन सूत्रेण श्रुत्याबाधः समर्थ्यते || किन्त्व भिन्नत्वमेवेति न भेदाभिदयोः पुनः | विरोध इति मन्तव्यं तथान्यत्रापि दृश्यते || इतरव्यपदेशाच्च स्वहिता करणादितः | दोष प्रसक्तिरित्याद्यैस्तथा तत्वमसीति च || जीवस्य ब्रह्मणः सम्यगभेद व्यपदेशतः | किं जीवकर्तृका सृष्टिः किंवा ब्रह्मैक कर्तृका || प्. ६६) सृजेज्जीवः स्वस्यहितं नाहितं नरकादिकम् | इत्याद्या शङ्क्याधिकन्तु भेद निर्देशसूत्रतः || कर्ता जीवो न किं त्व त्व कर्तृ ब्रह्मैव चाधिकम् | तज्जीवष्याहितमपि सृजत्येवेत्युदीर्य च || कथं वा भेद कथने हीनताधिकता उभे | कथं सर्वेश्वरः साक्षात् सर्वज्ञत्वेन सर्वतः | जीवान् स्वात्म तया पश्यन् तेषु शोकादिकं सृजेत् || स्व निष्ठत्वेन शोकादेः अनुभूति प्रसंजनात् | इत्याशङ्क्याश्मादि वच्च तदसंगतिरीरिता || अनेन चाश्मनां सूर्यकान्त वैडूर्य भेदिनाम् | पाषाणत्वेन सामान्यात्मना भेदे समीहिते || व्यक्तिभेदाद्धीन रूप मध्यमोत्तम भावतः | स्वरूपाणाञ्च वैचित्र्यं काय वैचित्र्यमेव च || एवञ्च जीवपरयोरपि व्यक्ति भिदा कृता | हीनताधिकता कार्य वैचित्र्यं चोपपद्यते || न पाषाणत्व सामान्यमभिन्नं व्यक्तयः पुनः | भिन्ना एवेति नैकत्र भेदाभेदा वुभे इति || पाषाणत्वादि सामान्या दवच्छिन्न प्रतियोगिकः | योभेदस्तदभाव स्वरूप भेदस्य चाप्यथ | वैडूर्यत्वाद्यवच्छिन्न प्रतियोगिवती च या || ६७) भिदा व्यक्तिषु तस्याश्चो भयस्य प्रतिपादनात् | न चैवं शंकितुं शक्यं वज्र वैडूर्ययोर्द्वयोः || सामानाधि करण्यादि व्यवहार प्रसंजनम् | इष्टत्वात् तस्य सामान्या भेदोल्लेखिन अत्र च || विशेषाभेद विरहादत एवेश्वरोपि च | आत्मत्वे नैव जीवाभेद दृष्टिः सूत्रिता पुनः || आत्मेति तूपगच्छन्ति व्याख्यानावसरे मया | आशंक्य परिहारोपि विस्तरेण प्रदर्श्यते || भेदाभेदाविमौ सिद्धौ तस्मादित्युपरम्यते || || इति श्रीमद्विशिष्टाद्वैत सिद्धान्त रहस्यैकोत्तरशतस्थलाभिज्ञ नीलकण्ठ क्र्ते निगमागमसार संग्रहे क्रियासारे प्रथमोपदेशः || || अथ द्वितीयोपदेशः || द्वि. अ. द्वि. पा. तत्रादिमोपदेशेऽस्मिन् सर्वज्ञे सर्वशक्तिके | उपादाने प्रपञ्चस्य निमित्ते ब्रह्मणि क्रमात् || सर्व वेदान्त वाक्यानां निर्देशस्तु समन्वयः | स्मृत्यादिभिर्विरोधेन बाधाभावो द्वितीयकः || उपदेशो युक्तिभिस्तु बहुभिः संप्रदर्श्यते | तत्र वेदान्त वाक्यानि जगतां ब्रह्म कारणम् || उपादानमिति प्राहुः प्रधानमिति सांख्यकाः | ततो विरोधाद्वक्तव्यो बाधस्त्वन्यतरस्य हि || तत्र श्रुतेरनुष्ठेय धर्मादौ सावकाशतः || प्. ६८) तत्र श्रुतेरनुष्ठेय धर्मादौ सावकाशतः | स्मृतेरनव काशत्वा बाधो युक्तस्तथा श्रुतेः || आर्ष प्रत्यक्षतः पश्यन् प्रधानं दृश्य कारणम् | प्रणिनाय स्मृतिं चर्षिस्ततः प्रत्यक्ष मूलता || स्मृते स्ततश्च बाधस्तु युक्त एव तया श्रुतेः | नैवं स्मृत्या श्रुतेर्बाधो न्यस्मृत्यनवकाशतः || दोष प्रसङ्गान्नाना स्मृत्यनुरोधेन चेत्पुनः | नाना कारणता वक्तुं शक्यं नैवेति वै पुनः || वस्तुनि स्वेच्छया नाना विकल्पानुपपत्तितः | अतश्शैवीयधर्माणां प्रमाणैस्तु श्रुतीरितैः || निषेधे च क्वचिद् दृष्टे चामृतस्यादि वाक्यतः | तेषां बाधनमेव स्यान्नैव तैः श्रुति बाधनम् || ननु शैवीय धर्माणां प्रामाण्येऽङ्गी कृते सति | पूर्वकाण्ड प्रसिद्धानां अग्निष्टोमादि कर्मणाम् || वैरशैवीय धर्माणां परस्पर विरोधतः | अग्निष्टोमादि मन्त्राणामेवं तदुप योगिनाम् || सर्वेषां वेद भागानां वीर शैवीय कर्मणि | केषाञ्चिदुप युक्तानाममृतस्यादि रूपिणाम् || परस्परं विरोधेन बहुवेदानुसारतः | वीरशैवोपयुक्तानां मन्त्राणामेव वै पुनः || अर्थान्तरपरत्वं तु वक्तव्यमिति चेच्छ्रुणु | प्. ६९) पूर्वकाण्डोक्त धर्माणामनुष्टान् विधौ ततः | सर्वमन्यत्परित्यज्येत्याद्यैः श्रुतिभिरन्यथा || उपात्तत्वाद्भवद्भिर्वा कथमन्त्रोपपाद्यते | कर्मकाण्डोक्त धर्मभ्यो वाच्यं प्राबल्यमेव हि || ब्रह्मकाण्डस्य काचाश्म रत्नयोरिव यत्तयोः | अङ्गाङ्गित्वस्य चोक्तत्वाज्ज्ञानप्राबल्यवादतः || न कर्मणा न प्रजया धनेनेत्यादि वाक्यतः | ज्ञानैक नाश्यता पाशस्येत्येवं च व्यवस्थितेः | न कर्मकाण्ड वैयर्थ्यात्तद् दृष्टान्त पुरस्सरम् || श्रुतिमात्रस्य वैयर्थ्यानुमितौ वेदमूलता | न वक्तव्येति प्रक्रान्त क्रमभङ्गः समापतेत् || न क्वचिद्वेद भागस्य चिदामात्रा प्रमाणताम् | किन्तु वच्मः कर्मकाण्डाज्ज्ञान काण्डस्य मुख्यताम् || तत्रापि वीरशैवानां तत्र दृष्टान्तमुच्यते | रत्नापणे निविष्टानां विविधानां क्रमेण हि || काच मुक्ता मरकत प्रभृतीनां यथा पुनः | क्रेयाधिकारानुगुणं दर्शयेत्तदपि क्रयी || ग्रहीतारः स्वसामर्थ्यानुगुणेनैव केवलम् | गृह्णन्ति नैव चान्यस्य दूषणायैव कल्पते || एवं सामान्यतो वेद प्रामाण्ये सति तत्पुनः | स्वाधिकारानुसारेण वैदिकेषु प्रवर्तते || प्. ७०) क्रमसोपान मार्गेषु त्रयाणामथवा द्वयोः | अति क्रमेण चारूढे सोपानोत्पाटनं न हि || कुर्वन्ति तद्वदे वात्र सर्वेषाञ्च प्रमाणता | तर्हि शैवः क्वचिद्वापि सर्वकर्माणि यत्नतः || अनुतिष्ठेत्प्रमाणं चेदित्येवं ना पलाप्यताम् | राजा धनी वा लोकेषु सत्सु रत्नेषु भूरिशः || अल्पं क्रयां मणिं धत्ते तावता तन्न दुष्यति | एवं प्रमाणं वेदाश्चेत्यास्तां किं विस्तरेण तु || अत्र सैद्धान्तकीयं मे सरणिर्दर्शयिष्यते | सर्ववेदान्त वाक्यानां सर्वज्ञे सर्वशक्तिके || लिङ्गे जगदुपादाने निमित्ते परमेश्वरे | आद्योपदेशे कथितं वाच्यवाचकयोर्बलात् || समन्वयेदर्शितेऽत्र लिङ्गाङ्गैक्यस्य दर्शनात् | तस्य स्मृति विरोधेन सावकाशत्व दोषतः || तद्बाध परिहाराय द्वितीयोऽध्यय इष्यते | परं जगदुपादानंमिति वेदावदन्ति हि || स्मृतिं प्रधानं वदतीत्येतदन्यतरत्तदा | बाधितव्यं विरोधेन तयोः कस्येति संशयः || तत्रानुष्ठेय धर्मादौ सावकाशाश्रुतिः स्मृता | स्मृतिर्निरवकाशा स्यात्तत्रैव प्रतिपादिका || तस्मात्स्मृत्या श्रुतेर्बाधो युक्त इत्यब्रवीन्मुनिः || प्. ७१) आर्ष प्रत्यक्ष योगेन जगत्कारणमेव तत् | इति निश्चित्य तदनु स्मृतिमाशुचकार सः || ततः प्रत्यक्ष मूलत्वात्स्मृतेः प्राबल्यमत्रहि | इति चेन्न प्रधानस्य कारणत्वं न युज्यते || नाना स्मृत्यनुरोधेन नाना हेतुत्व कल्पनात् | विकल्पानुपपत्तेश्च वस्तुनिश्रुत दोषतः || महर्षित्वादि शेषाच्च परस्पर विरोधतः | पौरुषेयतया तासामप्रामाण्यं च न श्रुतेः || प्रत्यक्षमानमूलत्वं प्रधानोक्तेस्तदोच्यते | इतरेषाञ्चानुपलब्धेरित्येवानु शासनात् || आर्ष दर्शन सम्पन्नैः कणाद प्रमुखैः किमु | तन्नोपलभ्यते तस्मात्प्रधानांशस्मृतेर्नहि || शिवलिङ्गस्य भावस्य विश्वमेतच्चराचरम् | तदेतन्न विजानन्ति पशवः पाश गौरवात् || तमेक मेव बहुधा वदन्ति ब्रह्म शाश्वतम् | अजानन्तः परं भावमविकल्पं महर्षयः || अपरं ब्रह्मरूपञ्च परब्रह्मात्मकं तथा | केचिदाहुर्महादेवमनादि निधनं प्रभुम् || भूतेन्द्रियान्तः करण प्रधान विषयात्मकम् | अपरं ब्रह्म निर्दिष्टं परं ब्रह्म चिदात्मकम् || प्. ७२) बृहत्वाद्ब्रह्मणत्वाच्च ब्रह्मणीति परा वरे | अनेन ब्रह्मरूपेण ब्रह्मणोधिपतेः प्रभोः || विद्याविद्या स्वरूपीति कैश्चिदीशोनिगद्यते | विद्येति चेतनां प्राहुः तथा विद्यामचेतनाम् || विद्या विद्यात्मकं चैतद्विश्वं विश्व गुरोर्विभोः | रूप भेदे न सन्देहो विश्वं तस्य वशे यतः || भ्रान्तिर्विद्या परञ्चेति शार्वं रूपं परे विदुः | अथवा बुद्धिरर्थेषु बहुधा भ्रान्तिरुच्यते || यद्यात्माकार सम्पत्तिर्विद्येति परिकीर्त्यते | विकल्प रहितं तत्वं परमित्यभिधीयते || तत्रेयं शाङ्करं रूपं तदाज्ञाधिष्ठितं यतः | सद सद्रूप इत्याहुः सदसस्पतिरित्यपि || सत्ये साधौ च सच्छब्दः सद्भिरेव प्रयुज्यते | विपरीते त्वसच्छब्दः कथ्यते वेदवादिभिः || सच्चासच्च जगद्विश्वं शरीरं परमेष्ठिनः | यदिदं सदिति प्रोक्तं यच्चासदिति कथ्यते || तयोः पतित्वात्तु शिवः सदसंस्पतिरुच्यते | क्षरा क्षरात्मकं प्राहुः क्षराक्षर परम्परे || क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते | उभेते परमेशस्य रूपं तस्य वशे यतः || प्. ७३) तयोः शिवः परः शान्तः क्षराक्षर परः स्मृतः | समष्टि व्यष्टिरूपञ्च समष्टि व्यष्टि कारणम् || वदन्ति मुनयः केचिच्छिवं परम कारणम् | समष्टिं विदुरव्यक्तं व्यष्टिं व्यक्तं तथैव च || ते रूपे परमेशस्य तदिच्छामनु वर्तनात् | तयोः कारण भावेन शिवलिङ्गं परात्परम् || कारणार्थ विदः प्राहुः समष्टि व्यष्टि कारणम् | जाति व्यक्ति स्वरूपीति कथ्यते कैश्चिदीश्वरः || यत्पिण्डेष्वनु वर्तेत सा जातिरिति कथ्यते | व्यक्ति व्यावृत्तरूपं तत्पिण्डं जातेः समाश्रयः || व्यक्तयो जातयश्चैव तदाज्ञा परिपालिताः | यतस्ततो महादेवो जाति व्यक्ति वपुः स्मृतः || प्रधान पुरुष व्यक्त कालात्मा कथ्यते शिवः | प्रधानं प्रकृतिं प्राहुः क्षेत्रज्ञं पुरुषं तथा || त्रयोविंशति तत्वानि व्यक्तमाहुर्मनीषिणः | कालः कार्यं प्रपञ्चस्य परिणामैक कारणम् || एषामीशः शिवोधाता प्रवर्तक निवर्तकः | प्राहुर्भाव तिरोभाव हेतुरेकः स्वराडजः || तस्मात्प्रधानपुरुष व्यक्तकाल स्वरूपवान् | हेतुर्नोधिपतेस्तेषां धाता भोक्ता महेश्वरः || प्. ७४) विराड्ढिरण्य गर्भात्मा कैश्चिदीशो निगद्यते | हिरण्य गर्भो लोकानां हेतुर्विश्वेश्वरो विराट् || अन्तर्यामी परश्चेति कथ्यते कविभिः शिवः | प्राज्ञ तैजस विश्वात्मेत्यपरे सम्प्रचक्षते | माता मानञ्च मेयञ्च मतिमाहुरथापरे || कर्ताक्रिया च कार्यञ्च कारणं कारणं परे | जाग्रत्स्वप्नसुषुप्त्यात्मेत्यपरे संप्रचक्षते || तुरीयमपरेप्राहु स्तुरीयातीत मित्यपि || केचित् संसारिणं प्राहु तमसंसारिणं परे | स्वतन्त्रमपरे प्राहुरस्वतन्त्रं परे विदुः || घोरमित्यपरे प्राहुः सौम्यमित्यपरे विदुः | तमाहुर्निर्गुणं केचिद्गुणवन्तं परे विदुः || रागवन्तं परे प्राहुर्वीतरागं तथा परे | निष्क्रियं तं परे प्राहुस्सक्रियं तं परे जनाः || निरिन्द्रियं परे प्राहुस्सेन्द्रियञ्च तथा परे | ध्रुवमित्यपरे प्राहुस्तम ध्रुवमथापरे || अरूपं केचिदाहुर्वै रूपवन्तं परे विदुः | दृश्यमित्यपरे प्राहुस्तमदृश्यमिती तरे || वाच्यमित्यपरे प्राहुस्तमवाच्यमिती तरे | शब्दात्मकं परे प्राहुः शब्दातीतमथापरे || प्. ७५) केचिच्चिन्तमयं प्राहुश्चिन्तया रहितं परे | ज्ञानात्मकं परे प्राहुर्विज्ञानमिति चापरे || केचिज्ज्ञेयमिति प्राहुरज्ञेयमिति केचन | केचिदेकं तमेवाहुरनेकमिति चापरे || एवं विकल्प्यमानेषु याथार्थ्यं परमेशितुः | नाध्य वस्यन्ति मुनयो नाना प्रत्यय कारणात् || ये पुनः स्र्वभावेन प्रपन्नाः परमेश्वरम् | ते विजानन्त्ययत्नेन शिवं परमकारणम् || यावत्पश्यो नैव पश्यत्यनीशं कविं पुराणं भुवनस्येशितारम् | तावद्दुःखे वर्तते बद्धपाशः संसारेऽस्मिन् चक्रनेमि क्रमेण || यदा पश्यं पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् | तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति || न शिवस्याणवो बन्ध कार्मो मायेय एव च | प्राकृतोवाथ बौद्धो वाप्यहंकारात्मकस्तथा || नैवास्य मानसो बन्धो न चैत्तो नेन्द्रियात्मकः | न च तन्मात्र बन्धोऽस्य भूतबन्धो न कश्चन || न च कालः कला चैव न विद्या नियतिस्तथा | न रागो न च विद्वेषः शम्भोरमित तेजसः | न चाप्यभि निवेशोऽस्य कुशला कुशलान्यपि || प्. ७६) कर्माणि तद्विपाकश्च सुखदुःखेन तत्फले | आशया नास्य संबन्धः संस्कारैः कर्मणामपि || भोगैश्च भोगसंस्कारैः कालत्रितय गोचरैः | न तस्य करणं कर्ता नादिरन्तस्तथान्तरम् || न कर्म करणं वापि नाकार्यं कार्यमेव च || नास्य बन्धुरबन्धुर्वा नियन्ता प्रेरकोऽपिवा | न पतिर्नगुरुस्त्राता नाधिको न समस्तथा || न जन्ममरणे तस्य ना कांक्षितमकांक्षितम् | न विधिर्न निवेधश्च न मुक्तिर्न च बन्धनम् || नास्ति यद्यद कल्याणं तत्तदस्य कदाचन | कल्याणं सकलं चास्ति परमात्मा शिवो यतः || स शिवः सर्वमेवेदमधिष्ठाय स्वशक्तिभिः | अप्रच्युतः स्वतो भावात्स्थितः स्थाणुरतः स्मृतः || शिवेनाधिष्ठितं यस्माज्जगदेतच्चराचरम् | सर्वरूप स्थितः शर्वः तथा ज्ञात्वा न मुह्यति || सर्वो रुद्रो नमस्तस्मै पुरुषः परमोमहान् | हिरण्य बाहुर्भगवान् हिरण्यपतिरीश्वरः || अबिका पतिरीशानः पिनाकी वृषवाहनः | एकोरुद्रः परं ब्रह्म पुरुषः कृष्ण पिङ्गलः || वालाग्र मात्रो हृन्मध्ये ध्येयोऽयं दहरान्तरे | प्. ७७) हिरण्यकेशः पद्माक्षो ह्यरुणस्ताम्र एव च | यो वसर्पत्यसौ देवो नील ग्रीवो हिरण्मयः || सौम्यो घारस्तथा मिश्रश्चाक्षरश्चामृतो व्ययः | स पुंविशेषः परमो भङ्गवानन्तकान्तकः || चेतना चेतनान्मुक्तः प्रपञ्चाच्च परात्परः | लोके साति शयत्वेन ज्ञानैश्वर्ये विलोकिते || शिवेनाति शयत्वेन स्थितिं प्राहुर्मनीषिणः | प्रतिसर्गं प्रसूतानां ब्रह्मणां शास्त्र विस्तरम् || उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम् | काला वच्छेदयुक्तानां गुरूणामप्यसौ गुरुः || सर्वेषामेव सर्वेशः कालावच्छेद वर्जितः | शुद्धास्वाभाविकी तस्य शक्तिः सर्वाति शायिनी || ज्ञानमप्रतिघं नित्यं वपुरत्यन्त निर्मलम् | ऐश्वर्यमप्रतिद्वन्द्व सुखमात्यन्तिकं बलम् || तेजः प्रभावो वीर्यञ्च क्षमाकारुण्यमेव च | परिपूर्णस्य सर्गाद्यैर्नात्मनोऽस्ति प्रयोजनम् || परानुग्रह एवास्य फलं स्वर्गस्य कर्मणः | प्रणवो वाचकस्तस्य शिवस्य परमात्मनः || शिवरुद्रादि शब्दानां प्रणवोऽति परः स्मृतः | शम्भोः प्रणव वाच्यस्य भावना तज्जपादपि || प्. ७८) या सिद्धिः सा परा प्राप्या भवत्येव न संशयः | तस्मादेकाक्षरं लिङ्गं प्राहुरागम पारगाः || वाच्य वाचकयोरैक्यं मन्यमाना यशस्विनः | अस्य मात्राः समाख्याताश्चतस्रो वेदमूर्धनि || अकारश्चाप्युकारश्च मकारो नाद एव च | अकारं बहृचं प्राहुरुकारो यजु रुच्यते || मकारः सामनादस्तु श्रुतिराथर्वणी श्रुता | अकारस्तु महद्बीजं रजः स्रष्टा चतुर्मुखः || उकारः प्रकृतिर्योनिः तत्वं पालयिता हरिः | मकारः पुरुषो बीजीतमः संहारको हरः || नादः परः पुमानीशो निर्गुणो निष्क्रियः शिवः | एवं तिसृभिरेताभिः मात्राभिः अखिलं त्रिधा || अभिधाय शिवात्मानं बोधयत्यर्धमात्रया | यस्मात्परं ना परमस्ति किञ्चिद्यस्मान्नाणी यो न ज्यायोस्ति कश्चित् | वृक्षश्वस्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वन् || शक्तिः स्वाभाविकी तस्य वेद्या विश्व विलक्षणा | एकानेक स्वरूपेण भाति भानोरिव प्रभा || अनन्ता शक्तयस्तस्य चेच्छा ज्ञान क्रियादयः | माद्याद्यश्च भवेद्वह्नेर्विष्फुलिङ्गा यथा तथा || सदा शिवेश्वराद्याश्च विद्याविद्येश्वरादयः | अभवन्पुरुषाश्चान्या प्रकृतिश्च परात्परा || प्. ७९) महदादि विशेषान्तास्त्वजाद्याश्चापि मूर्तयः | यश्चान्यदपि तत्सर्वं अस्याः कार्यमितीरितम् || सा शक्तिः सर्वगा सूक्ष्मा प्रबोधानन्दरूपिणी | शक्तिमानुच्यते देवः शिवः शीतांशुभूषणः || वेद्यः शिवः शिवा विद्या प्रज्ञा चैव श्रुति स्मृतिः | धृतिरेषा स्थितिर्निष्ठा ज्ञानेच्छा कर्मशक्तयः || आज्ञा चैवं परं ब्रह्म द्वे विद्ये च परात्परे | शुद्ध विद्या शुद्ध कला सर्वं शक्ति कृतं यतः || न माया प्रकृतिर्जीवो विकारो विकृतिस्तथा | न सन्नासच्च यत्किञ्चित्तया सर्वमिदं ततम् || सा देवी मायया सर्वं ब्रह्माद्यं स चराचरम् | मोहचत्य प्रयत्नेन मोचयत्यपि लीलया || अनया सह सर्वेशः सप्तविंश प्रकारया | विश्वं व्याप्य स्थितस्तस्मान्मुक्तिरत्र प्रवर्तते || श्रुति स्मृतिषु सर्वत्र पुराणेष्वागमेषु च | बहुधोल्लेखिताः पक्षास्तर्केण वचसा श्रुतेः || तस्मात् सिद्धान्त पन्थानमाश्रित्य ब्रह्मवादिनः | सूत्राणां वेद शिरसा मैकार्ययं प्राप्यमादरात् || लिङ्गाङ्ग सामरस्येर्थे प्रवृत्ते वेद मूर्धनि | लिङ्गे ब्रह्मणि सर्वत्र ह्यन्वयो निश्चितो ध्रुवम् || प्. ८०) अप्रामाण्ये तु साङ्ख्यस्य स्मृतेर्योग स्मृतेः परम् | प्रामाण्यमुररी कार्यं व्यो तव्येति विधानतः || तां योगमिति वाक्येन वेदचिह्नस्य दर्शनात् | योग स्मृत्या प्रधानस्य कारणत्वस्य निश्चयात् || ब्रह्मकारणता वादी लिङ्गांगैक्यान्वयः परे | इति चेत्पौरुषे यत्वाद्भान्ति दोष कलंकतः || अपौरुषेययाश्रुत्या बाधोयुक्तः स्मृतेर्ध्रुवम् | ध्यानाद्यंशे स्मृतेस्तस्याः प्रामाण्यं न्याय गौरवात् || श्रवणं मननं ध्यानं श्रुति स्मृत्या गमेषु च | ऐक कण्ठ्येन सर्वत्र योगोऽयं प्रतिपादितः || योगो नाम हि सम्बन्धो जीवात्म परमात्मनोः | ध्यान योगेति वाक्येन योगनिष्ठा उदाहृताः || अङ्गं जीवः परं लिङ्गं सामरस्यं तयोः शुभम् | योग इत्युच्यते सद्भिः शिव तत्वार्थ वेदिभिः || वालाग्रमात्रं विश्वेशं जात वेदस्वरूपकम् | हृत्पद्म कर्णिकामध्ये ध्यात्वाधार्यं मुमुक्षुभिः || सर्वज्ञं सर्वकर्तारं समस्ताधारमद्भुतम् | प्रणवेनावृतं लिङ्गं प्रणवार्थं परात्परम् || सर्वस्य जगतः साक्षात्सृष्टि स्थित्यन्त कारणम् | उमा सहायं कल्याणं नीलकण्ठं त्रिलोचनम् || प्रशान्तं प्रभुमीशानं धारयेद्धृदयाम्बुजे || प्. ८१) ब्रह्म यत्सच्चिदानन्दं परिपूर्णं च सर्वतः | सर्वत्र दृश्यते नैव करणागोचरत्वतः || दृश्यते तच्छरीरेऽस्मिन् तस्माद्ब्रह्मपुरं च तत् | तस्मिंस्तु कमलाभं यत् दहरं हृदयाम्बुजम् || दहरं पुण्डरीकाख्यं वेश्म प्रोक्तं मनीषिभिः | तस्मिन्नव स्थितं ब्रह्म तेन वेश्मेति कीर्तितम् || तद्वेश्म वर्तते देहे तेन देहः पुराभिधः | यदस्मिन् वर्तते लिङ्गं पुण्डरीकाख्य वेश्मनि || वियत्प्रमाणरूपत्वादाकाशाख्यं च तद्भवेत् | कल्याण गुणरत्नानां निधिमव्ययमद्भुतम् || आत्मा तु देहे सर्वत्र वर्तमानोपि शङ्करः | अतीव हृदये तस्य प्रकाशो नेतरे तथा || अहं शब्दाभिधो ह्यात्मा न विवादोऽत्र कस्यचित् | अहं शब्दं प्रयुञ्जानो लोकः सर्वोपि दृश्यते || हृदयं निर्विशत्येव ह्यहं तत्र स्थितस्ततः | यतोऽस्य हृदये नित्यं प्रकाशोऽतीव विद्यते || न तथान्यत्र तस्माच्च हृदयं हि विशिष्यते | तस्माद्धृदम्बुजेधार्यं लिङ्गमाद्यं पुरातनम् || अतिवर्णाश्रमीसोऽयं साक्षान्मोक्षैक भाजनम् | लिङ्गमाद्यं पुरातनम् | अतिवर्णा श्रमीसोयं साक्षान्मोक्षैक भाजनम् || अथमेव हि योगोत्र सर्वशास्त्रार्थ सम्मतः | योग स्मृतेस्तदंशे तु प्रामाण्यं नेतरत्र च || प्. ८२) यत्तु साङ्ख्योक्ततर्केण विरोधोह्युप पादितः | यद्यद्विलक्षणं सर्वं न तत्प्रकृतिकं विदुः || रुचकाद्या यथा सर्वे न मृत्प्रकृतिका भवन् | विमतञ्च जगत्सर्वं ब्रह्मोपादानकं न हि || श्रुतिरैति ह्यमात्रत्वाद्दुर्बलात्तर्कता भवेत् | तस्मात्तर्काच्छ्रुतेर्बाधात् जगन्न ब्रह्महेतुकम् || जगतो चेतनत्वं तु विज्ञानं चेति वाक्यतः | ब्रह्मणश्चेतनत्वं तु यः सर्वज्ञेति वाक्यतः | जगद्वि लक्षणं ब्रह्म कथं ननु न हेतुकम् || आपो ब्रुवन्नतो वाक्याच्चेतनत्वस्य निश्चयात् | भोक्तॄणामपि भोज्याना वैलक्षण्यं विलोकितम् || श्वभ्य इत्यादि वाक्यानामधिष्ठान परत्वतः | बाधो दृढी कृतस्तस्माज्जगन्न ब्रह्महेतुकम् || इति प्राप्ते दृश्यते तु यदुक्तं तन्मृषा भवेत् | अचेतनाच्चेतनानामुत्पत्तिः श्रूयते श्रुतौ || चेतनाद्वाऽचेतनानामिष्यते श्रुति सूत्रयोः | यथा केशा वृश्चिकाद्याः पुरुषाद्गोमयात्तथा || सर्वात्मना प्रागसत्वे ह्यसत्कार्यं तदा भवेत् | कार्यात्मना निषेधो हि न तावत्कारणात्मना || सत्वान्नासत्कार्यवादस्ततोत्रा कारणात्मना | परपक्षेऽपि दोषोऽयं तुल्यश्चायं भविष्यति || प्. ८३) शब्दहीनात्प्रधानाद्धि शब्दवत्कार्य निश्चयात् | न तु दृष्टान्त भावाच्च यथा वृक्षादयः श्रुताः || तथा स्वपक्ष दोषाच्च न साङ्ख्यस्यावकाशता | यश्चोभयोः समोदोषः परिहारो वापि वा समः || नैकः पर्यनुयोक्तव्यस्तादृगर्थ विचारणे | तर्केण प्रत्यवस्थानां श्रुत्युक्तेर्थे न रोचते || तर्काणाम प्रतिष्ठानां शुष्काणामन्यथा भवेत् | अभियुक्तैः कैश्चिदत्र कैश्चिदन्यैर्निरूपितः || अभियुक्त तरैरन्यैराभासी क्रियते तराम् | यत्तेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः || अभियुक्ततरैरन्यैरयथैवोपपाद्यते | तर्का प्रतिष्ठितत्वं हि तर्केणैव निवार्यते || केचित्तर्काः प्रतिष्ठाप्याः केचित्तर्काः प्रतिष्ठिताः | सर्व तर्का प्रतिष्ठाने दोषलेशो न चाभवत् || इदं तर्का प्रतिष्ठत्वं न सिध्येत्तर्क निर्णये | भोजनादौ यथा तर्कमूलत्वमिति चेन्न हि || अनिर्मोक्ष प्रसङ्गेन लौकिकस्तर्क संग्रहः | युक्तोपि कारणे युक्ता पूर्वदोषो हि दृश्यते || शिष्टाः परिग्रहास्सर्वे व्याख्यातास्तेन कारणे | भोक्त्रा पत्तेरप्यविभागश्चेत्स्याल्लोक व ध्रुवम् || प्. ८४) ब्रह्मात्मना भोक्तृभोग्य भोगानां लोकवद्यथा | अभेदेपि स्वरूपेण विभागो निश्चितः परः || अभेदः कारणात्तस्मात्कार्य स्याप्यवसीयते | तदारम्भण शब्दादि दिभ्योक्त्या तन्निश्चयः सदा || स भावे चोप लब्धश्च स सत्वाच्चावरस्य च | असद्व्यपदेशान्नेति चेन्न वाक्यशेषात्स निश्चितः || धर्मान्तरे तद्वाक्यञ्च तदर्थे पर्यवस्यति | युक्तेः शब्दान्तराच्चात्र वपावच्च तथा भवत् || इतर व्यपदेशाद्धि सूत्रेणापि स निश्चितः | अधिकं भेद निर्देशाद्ब्रह्म स्रष्ट्ट तु नेतरत् || अस्मादिवच्च तदनुपपत्तिर्दृश्यते यतः | उपसंहार सूत्रेण ब्रह्मणः परिणामता || अङ्गीकृता प्रपञ्चस्य क्षीरवद्धीति निश्चयः | कृत्स्न प्रसक्ति सूत्रेण स एव प्रतिपादितः || तथा हि परिणामः किं कार्त्स्न्येतांशेन वा भवेत् | कार्त्स्न्येन परिणामश्चेत् ब्रह्माभावः प्रसज्यते || अंशेन परिणामश्चेत् ब्रह्मसावयवं भवेत् | तदर्थक श्रुतिः कुप्येन्निष्क्रियं निष्कलं त्विति || पूर्व रूप परित्यागेनान्यरूप समुद्भवेः | तथा सति जडं ब्रह्म स्यान्नस्यादजडं पुनः || प्. ८५) श्रुतेस्तु शब्दमूलत्वाद्ब्रह्मणो जगदात्मना | परिणामेऽजडं ब्रह्म पृथगेवेति गीयते || उक्त्वा तेजोऽबन्न सृष्टि तत्सेयं देवतैक्षत | हन्ताहमिति वाक्येन तेजोवन्नत्रयं विना || उक्तत्वादीक्षितृत्वेन देवतायाश्च शब्दतः | अङ्गीकार्यं यथा शब्दं देवताव स्थितिः पृथक् || प्रयोजनं न तर्केण श्रुत्या यत्र विधीयते | श्रुतेस्तु शब्दमूलत्वाद्देवादिवदपीष्यते || आत्मनि चैवं हि सूत्रेण परिणामोऽत्रनिश्चितः | एवं स्वपक्ष दोषाच्च स एव सुदृढीकृतः || देवानां परिणामोऽत्र शक्तियोगान्न तु श्रुतौ | न ब्रह्मणस्ततः सूत्रं सर्वोपेतेति दर्शितम् || नन्वेवमपि देवानां स्रष्ट्टत्वं करणैर्यतः | ब्रह्मणो करणत्वेन नेति चेदुक्तमेव तत् || विकरणत्वान्नेति चेत्तदत्रैवानुपदं यतः | न प्रयोजन वत्वत्तद्ब्रह्मणो न तथेति चेत् || लोकवत्वादि सूत्रेण यथा राज्ञां तथा भवत् | वैषम्यं निर्घृणत्वं च ब्रह्मणो नैव युज्यते || तस्मात् कथं ब्रह्मणस्तदिति चेदुत्तरत्र च | वैषम्येति च सूत्रेण परिहारः प्रदर्श्यते || प्. ८६) ततः सन्दिग्ध दोषेपि न ब्रह्मेति च सूत्रतः | उपपद्यत इत्यादि सूत्रेणापि समर्थितम् || सर्वधर्मोपपत्तेश्च साक्षित्वं ब्रह्मणो भवत् | तस्माच्छक्ति विशिष्टं तद्ब्रह्मैकं शाश्वतं परम् || उपादानं निमित्तं च ब्रह्मैवेति प्रदर्शितम् | आत्म लिङ्गेत्यादि वाक्यैर्यन्निर्णीतं मनीषिभिः || विचारितं तदेवात्र श्रुतिस्मृत्युप बर्हणैः | आस्माकीनार्थ सिद्धान्त सरणिः संप्रदर्श्यते || यदुक्तं परिणामांशे तदग्रे विस्तरान्मया | ब्रह्मकारणता वादिसाङ्ख्याद्यैर्दूषणं च यत् || पुरस्तात्तत्परिहृतमधुना तेषु दूषणम् | क्रियते तत्र प्रेक्षावत्प्रवृत्तिर्न भवेदिति || एवं हि साङ्ख्या मन्यन्ते ये विकारा यदन्विताः | दृष्टास्ते तत्प्रकृतिका यद्घटाद्या मृदन्विताः || यथा ते मृत्प्रकृतिका एवमेवा खिलं जगत् | सुखदुःखाद्यन्वितञ्च तादृक्प्रकृतिकं भवेत् || यद्यत्सुखादि सामान्यात्मकं तत्त्रिगुणं भवेत् | ये वै परिमिता भावास्तेवै संसर्गपूर्वकाः || यथाङ्कुरादयस्तद्वदेतत् परिमितं जगत् | सत्वं रजस्तमश्चैतत्त्रय संसर्गपूर्वकम् || प्. ८७) कार्यकारणभावेन प्रधान मनुमीयते | न जगत्कारणं ब्रह्म चैतन्यानन्वयाज्जडे || न प्रधानं जगद्धेतू रचनानुपपत्तितः | प्रासाद शयया रचना प्रज्ञावच्छिल्पि कर्तृका || नाचेतनैस्तु पाषाणै रचनीयमिदं जगत् | नाना कर्मोपभोगानां स्थानं बाह्यं च विग्रहः || संभावितैः शिल्पिभिर्वा मनसा चिन्त्य भेदवत् | अचिन्त्य शक्तिविभव सर्वज्ञेश्वर निर्मितम् || नाचेतन प्रधानेन तथा तु क्वाप्यदर्शनात् | समुच्चिनोति वै शब्द अन्वयानुपपत्तिकाम् || कल्पनाया अथ न हि भावास्ते च घटादयः | सुखदुःखान्विता दृष्टाः सुखादेरान्तरत्वतः || बाह्यत्वाच्च घटादीनां सुख हेतुत्व दर्शनात् | संसर्गपूर्वकत्वानुमानं परिमितत्वतः || तदनैकान्तिकं सत्वादीनां परिमितादपि | संसर्ग पूर्वकत्वस्याभावाच्चापि प्रवृत्तितः || प्रधानस्या चेतनस्य चेतनाधिष्ठितस्य च | प्रवृत्तिर्नोपपन्ना हि तथा लोकेष्व दर्शनात् || चेतनाधिष्ठितरथ प्रवृत्तिर्दृश्यते नैव केवले | औदासीन्याभ्युपगमात्पुरुषो न प्रवर्तकः || प्. ८८) अचेतनमपि क्षीरं वत्सवृद्ध्यै प्रवर्तते | स्वयं लोकोपकारायस्यन्दते चेन्नदी जलम् || नैवं तत्राप्यपेक्षायाः सत्वाच्छ्रुत्यादि दर्शिता | योऽप्सु तिष्ठन्निति ततो व्यतिरेका नवस्थितेः || प्रधानं नाम साङ्ख्यानां सत्वादीनां समानता | नैव तद्व्यतिरेकेण प्रधानस्य प्रवर्तकम् || निवर्तकं वा यत्किञ्चिदुदासीनस्तु पूरुषः | नैव प्रवर्तको नापि निवर्तक असौ पुनः || ततस्तदनपेक्षत्वात्सर्गः स्यात्सर्वदा पुनः | प्रलयो न कदाचित् स्यान्न प्रधान मतो भवेत् || उपयुक्तं तृणजलं स्वयमेव पयो यथा | स्वयमेव प्रधानं च महादाद्याकृतिं व्रजेत् || नैवं तृणादि न मते स्वयं क्षीरात्मना पुनः | अन्यत्र तु तथा भावाल्लोकेऽनडुहादिभिः || उपयुक्त तृणादीनि क्षीरतां यान्ति किं पुनः | किन्तु धेन्वैवोपभुक्तं प्रवृत्तिरथवा भवेत् || न तथा पीह युज्येत यतो नास्ति प्रयोजनम् | प्रवृत्तेरभ्युपगमेप्यन्तरेण प्रयोजनम् || प्रवृत्तिः पुरुषार्थाय प्रतिज्ञा भङ्ग सम्भवात् | अतः प्रयोजनं वाच्यं न प्रधानस्य युज्यते || अचेतनत्वात्तस्याथ पुरुषस्य भवेद्यदि | प्. ८९) भोगोवाप्यप वर्गो वा चोभयं वेति संशयः | नाना धेयातिशये शये पुरुषे भोगसम्भवः || अनिर्मोक्ष प्रसङ्गश्च नापवर्गोपि वै पुनः | अपवर्गस्य सिद्धत्वान्नित्य मुक्तो हि पूरुषः || नो भयार्थाविरोधान्न पर्यायेणो भयार्थता | भोक्तव्यार्थस्य चानन्त्याद्भोगापरि समाप्तितः || अपवर्गसिद्धिरेवं न चौत्सुक्य निवृत्तये | प्रवृत्तिर्हि तदौत्सुक्य धर्मो यच्चेतनस्य तत् || न प्रधाने संभवति न प्रवृत्तिरथो भवेत् | काश्चिद् दृक्छक्ति सम्पन्नः प्रवृत्तौ शक्तिवर्जितः || पङ्गुं दृक्छक्ति हीनं तु प्रवृत्तौ शक्ति वन्नरम् | प्रवर्तयत्यधिष्ठाय तथाकान्तोमणिः स्वयम् || प्रवृत्तिरहितोपि स्यादयसस्तु प्रवर्तकः | एवं दृक्छक्तिसम्पन्नः पुरुषस्तु प्रवर्तयेत् || प्रवृत्ति शक्तिसम्पन्नं प्रधानमिति चेन्न च | दोषान्निर्मोक्षविरहादभ्युपेत विरोधतः || प्रधानस्य स्वतन्त्रस्य प्रवृत्तिरूप वर्ण्यते | प्रवर्तकत्वा भावेन पुरुषस्य कथं पुनः || यदनाधेयातिशय पुरुषः स्यात्प्रवर्तकः | वाग्व्यापारेण चेदन्धं स्वयं पङ्गुः प्रवर्तते || प्. ९०) न पुरुषेऽस्ति व्यापारः कान्तश्चेत्सन्निधानतः | परिमार्जनतो वा स्यादयसस्तु प्रवर्तकः || नैव सान्निध्य मात्रेण पुरुषः स्यात्प्रवर्तकः | सन्निधेरत्र नित्यत्वात्प्रवृत्तेः सङ्गसम्भवः || पुरुषाश्मादिवदिति न वक्तुं शक्यते ततः | अङ्गित्वानुपपत्तेश्च प्रवृत्तिर्न प्रधानके || साम्येनैवा व स्थितानां सत्वादीनां परे लये | वैषम्य हेत्वभावेन नाङ्गित्वं हि परस्परम् || वैषम्यं यदि वर्ण्येत तदानीं कारणं विना | प्रवृत्तिः सर्वदैव स्यान्नैवं वक्तुं हि दृश्यते || अनन्तरोक्तदोषः स्यान्न तथा चानुमीमहे | अनपेक्ष स्वभावास्ते कूटस्थाश्च गुणा यदि || स्वभावश्च तथा तेषां यथा कार्योपपत्रिकः | गुणवृत्तं चलमिति ततो वैषम्य संभवात् || प्रवृत्तिरुपपद्येतेत्येवं चेदुप वर्ण्यते | प्रधानस्याज्ञया शक्त्यो योगेन स्वरसेन तु || न च नानुपपत्त्याद्या दोषास्ते तदवस्थिताः | ज्ञ शक्तिं च मिमानस्तु वादित्वात्स निवर्तते || ब्रह्मवाद प्रसङ्गाच्च नैतद्युक्तिसहं भवेत् | गुणवैषम्ययोग्योऽस्तु निमित्ता भवतो लये || प्. ९१) वैषम्यं न भजे तैवं निमित्ता भावतः पुनः | कदाचिदपि वैषम्यं न भजेरन् गुणास्तु ते || अभावेन निमित्तानां विशेषादेव चेत्ततः | अङ्गित्वानुपपत्तिस्तु तदवस्थितमेव तत् || परस्पर विरोधश्च साङ्याभ्युपगमस्त्वयम् | क्वचित्सप्तेन्द्रियाण्येवोत्क्रामन्त्येकादश क्वचित् || क्वचिद्वदन्ति महतः पञ्चतन्मात्रसम्भवम् | तथा क्वचिदहङ्कारा स्त्रीण्यन्तः करणानि च || क्वचिदेकमिति प्राहुरित्येवं बहुधा पुनः | श्रुत्याकरण वाचिन्या स्मृत्या चापि परस्परम् || विरोधात्कापिलं चैत तन्मतं तदसमञ्जसम् | तथा चैवं प्रधानस्य कारणत्वं निराकृतम् || इदानीं परमाणूनां कारणत्वं निरस्यते | परमाणुश्चतुर्धादौ निऽस्चलः प्रलये परे || पारिमाण्डिल्य संज्ञावत् परिमाणेन योगिनः | यथा स्वस्पर्शवन्तश्च तिष्ठन्ति परमाणवः || पश्चात्तस्मिन् सृष्टि काले परमेश सिसृक्षया | सादृष्ट सात्माकाशीय संयोगाच्च परस्परम् || अणुष्वाद्यं भवेत्कर्म कर्मणा तेन चाप्यणुः | परमाण्वन्तर युतो द्वाभ्यां द्वाभ्यां ततः परम् || प्. ९२) संयुक्ताभ्यामणुभ्यां स्यादेकैकं द्व्यणुकं ततः | नत्वेकस्मात्संयुतं स्यात् तन्तूनां दर्शनेन तु || पटारम्भकतायास्तु तथामूलेपि कारणे | तत्र द्वौ परमाणू तु कारणं समवायि च || तत्संयोगः कारणं स्यात्संज्ञया समवायि तु | अदृष्टादि निमित्तं स्यात्परमाणुगतास्तु ते || स्पर्शादयो गुणास्तेभ्यो द्व्यणुके तुल्य जातयः | स्पर्शादयोगुणाजाताः कारणस्य गुणा यतः || कार्ये गुणानारभन्त इति न्यायात्तथा त्रिभिः | द्व्यणुकैर्योगसचिवैरेकैकं द्व्यणुकं ततः || महदारभ्यत इति द्व्यणुकस्थाः पुनर्गुणाः | त्र्यणुके स्पर्शमुख्यानां स्मृता आरम्भका इति || महत्तरञ्च त्र्यणुकैर्महत्तममिति क्रमात् | महान् वायुर्महत्तेजो महापो महती मही || उत्पद्यन्ते ब्रह्मणो न जगदुत्पत्तिरुच्यते | चैतन्यस्य गुणस्यास्य चैतन्यान्तर हेतुता || तत्र वैशेषिकैर्ब्रह्म कारणत्वे यदुच्यते | स दोषोऽनेन सूत्रेण सम्यगेव विचार्यते || महत्ययं न नियमः साधुस्सर्वत्र संमतः | यत्कारण गुणाः कार्ये सजातीयं गुणान्तरम् || प्. ९३) आरभन्ते वश्यमिति यतश्च परमाणुषु | पारिमाण्डल्य संज्ञस्य द्व्यणुके तादृशस्य तु || आरम्भानभ्युपगमात् तस्याणुत्वादि दर्शनात् | यथा कारण निष्ठेयेऽणुता ह्रस्वते उभे || द्व्यणुकेऽणुत्व ह्रस्वत्वे सजातीयेन कारणे | महत्त्वं चैव दीर्घत्वं द्व्यणुके दृश्यते यतः || तथा च कारणस्थानां गुणानां चैव कार्यके | सजातीय गुणारम्भकत्वमिति वै स्थितिः || एवं ब्रह्म गुणस्यापि चैतन्यस्य तु कायके | चैतन्यान्तर हेतुत्वं सहसानोपपद्यते || ब्रह्म प्रपञ्चहेतुत्वे नैव काचिदसंगतिः | न विशेष गुणानां तु सजाति गुणहेतुता || परिमाणादि सामान्य गुणानां नोच्यतामिति | सामान्यत्वं विशेषत्वं गुणानां वादमात्रतः || इदानीं परमाणूनां कारणत्वं निवार्यते | प्रलये निश्चलेष्वेषु चायुक्त परमाणुषु || संयोगोत्पत्तये चाद्यं कर्म तत्र निमित्तकम् | किञ्चिदस्ति नवानैवं निमित्ताभावतस्तदा || कर्मभावस्तथान्त्ये किं निमित्तं दृष्टमेव वा | अभिघात प्रयत्नादि किमुता दृष्टमुच्यते || प्. ९४) नाद्यः शरीरा भावेन प्रलया देरसंभवात् | अदृष्टस्या चेतनत्वान्न कर्मोत्पादकं स्वतः || पुरुषो जात चैतन्यो जडप्रायो भवेद्यतः | ईशज्ञानस्य नित्यत्वात्कर्मोत्पत्तिः सदा भवेत् || तथा दृष्टवदात्मात्र संयोगस्यापि संभवात् | आगन्तुक निमित्तस्याप्यभावाद्यस्य कस्यचित् || अणुष्वाद्यं न कर्मस्यात्संयोगो तन्निबन्धनः | न स्यात्संयोगाभावेन द्व्यणुकत्व निबन्धनम् || तस्मान्नोपपन्न मणोः कारण वादतः | परमाणोर्हेतुवादे कार्यं यद् द्व्यणुकादिकम् || अणुभ्यामिति भिन्नं हि समवायाभिधेन च | सम्बन्धेन ह्यणुभ्यान्तु सम्बन्धं वर्णयन्ति || तद्वर्णनं नोपपन्नं साम्यादप्यनव स्थितेः | यथा हि कार्यमत्यन्त भिन्नत्वात्समवायिनाम् || सम्बन्धेन तु सम्बन्धं वर्णयन्ति विपश्चितः | एवञ्च समवायस्य समवायित्वतस्तथा || तस्मादत्यन्त भिन्नत्वाद्भाव्यमन्येन केनचित् | सम्बन्धेन तथा तस्य तस्यापीत्यनवस्थितेः || न स्वयं समवायस्य सम्बन्धैक स्वरूपिणः | अनपेक्ष्यान्यसंबन्धं सम्बध्यत इति भ्रमः || प्. ९५) तथाप्यत्यन्त भेदेस्मिन् सम्बन्धस्याप्यपेक्षणात् | संयोगस्या न्यथात्वं स्यात्समवायानपेक्षणात् || न च तस्य गुणत्वेन संयोगाद्यनपेक्षणात् | गुणद्रव्य व्यवस्थायाः परिभाषण मात्रतः || ते प्रवृत्ति स्वभावाः किं किं निवृत्ति स्वभावकाः | अथो भय स्वभावानो भये परमाणवः || नाद्यः क्षोदक्षमः पक्षः प्रवृत्तेर्नित्यता वशात् | आपतेत्प्रलयाभावो न द्वितीये निवृत्तितः || सर्गाभाव प्रसङ्गाच्च न तृतीयोऽपि युज्यते | द्वयोः स्वभावयोस्तत्र विरोधादप्यसंभवः || न च पक्षस्तुरीयोपि विदुषां हृदि रोचते | यन्नोभय स्वभावत्वे प्रवृत्तिस्तु निमित्ततः || अदृष्टादेर्निमित्तस्य सन्निधानेन सर्वदा | नित्यं प्रवृत्तिः सज्येत नाणु कारणता ततः || विभज्यमानं यद्द्रव्यं तच्च सावयवं पुनः | यतः परं विभागाय नार्हेयुः परमाणवः || चतुर्विधारूपवन्तश्चतुर्भेदस्य रूपिणः | भूत भौतिक जालस्य नित्या आरम्भका इति || वैशेषिकानां सिद्धान्त आपातरमणीयकः | रूपादिमत्पराणूनामणुत्वं नित्यता द्वयम् || प्. ९६) विपर्येत तथा लोके दृष्टत्वाद्यद्धिरूपवत् | स्वकारणापेक्षया तदनित्यंब स्थूलमेव च || यथा पटादि तद्वच्च रूपिणः परमाणवः | स्थूला अनित्यास्ते च स्युर्ननु द्रव्य विनाशने || हेतोरंशादि नाशस्य तद्विभागस्य चात्र तु | अभावात्परमाणूनां विनाश इति मा वदः || गुणद्रव्य व्यवस्थायाः परिभाषणमात्रतः | यथावयव नाशादि विरहेपि पराणुषु || रूपादीनां सङ्गतानां वह्निसंयोग नाश्यता | सम्भवेत्परमाणूनां नाशस्तस्मादनित्यता || गन्धरूपरस स्पर्श गुण स्थूलामही तथा | रसरूप स्पर्शगुण सूक्ष्मा आपः समीरिताः || रूप स्पर्श गुणं सूक्ष्मतरं तेजः प्रदृश्यते | स्पर्श सूक्ष्म तमो वायुर्भूतान्ये तानि वै पुनः || गुणै रूपचितैश्चापि तथैवापचितैर्गुणैः | युतानि स्थूल सूक्ष्म तारतम्यान्वितानि च || तद्वत्पराणवोप्यत्र गुणैरपचितैस्तथा | युक्तागुणैरपचितैः कल्प्येरन्निति तार्किकाः || न वा चोभयथा दोषः परिहार्यः स युक्तिभिः | तावत्कल्प्या उपचिता गुणा अपचिताश्च चेत् || मुक्ते रूप चयश्लाप चयश्चापि प्रसज्यते | प्. ९७) मूर्तेरूपचयं चापि तथैवापचयं विना | न गुणानामुप चयस्तथैवा पचयो न हि || तथा कायेषु दृष्टत्वा लोके विद्वज्जनैः सदा | मूर्तेरूपचये वापि तथैवापचये सति || भवेदपरमाणुत्व प्रसङ्गस्तदतो न च | अकल्प्यमानेऽपचये तथैवोपचये गुणे || तदा चतुर्गुणाः सर्वे जले गन्धोपलम्भनम् | तेजस्येवं गन्धरसौ गन्धरूपरसास्तथा || वायौ सर्वे यदि पुनरेकैक गुण शालिनः | तदा तेजसि न स्पर्शो जले रूप रसौ न हि || पृथ्व्यां रूप रस स्पर्शाः न स्युर्नैव हि दृश्यते | तदतः परमाणूनां हेतु वादो न युज्यते || अत्यन्तमनपेक्षा च मन्दादेरपरिग्रहात् || साङ्ख्य न्यायमते चोभं निरस्ते बहुयुक्तिभिः | गुणाचार विरोधोपि यथा न प्रसरीसरेत् || गुरुलिङ्गादि विषयं न श्राव्यं दूषणं यदि | श्रुतवान् शिक्षयामीति गणाचारः स उच्यते || साङ्ख्यैर्न तार्किकेणापि दूषणत्वेन कल्पितम् | यद्यत्तत्स्मरणं वापि मनसा न कृतं मया || किन्तु तेषामभिमतं निरस्तं युक्तिभिर्मया || प्. ९८) तथैव दृश्यते धर्म सङ्गते धर्म दूषके | तद्दूषणमशृण्वन्तः स्थानात्तंतु प्रवासयेत् || तण्डुलान् सिकतैर्मिश्रान् पृथक्कृत्य यथा हरेत् | बौद्धाद्यभिमतार्थेषु न्यरस्यन् दुर्वचः शिलाः || विज्ञानं रत्नं गृह्णामि तत्र क्षणिकतां त्यजन् | युक्तिभिर्दोषघातज्ञः शाणोल्लीढं मणिं यथा || निरस्यतेऽथ बौद्धानां इदानीं त्रिविधं मतम् | सर्वास्तित्वं वदन्त्येके केचिद्विज्ञानमात्रकम् || शून्यवादिन एवैके सर्वास्तित्वं निरस्यते | तत्र तेषां प्रक्रियैषा पृथ्व्यादीनां चतुष्टये || स्वर स्नेहोष्णेरिण स्वभावास्ते परमाणवः | संहन्यन्ते पृथिव्यादि भावेनेति ततस्तथा || वेदना रूप विज्ञान संज्ञा संस्कार भेदतः | पञ्चस्कन्धास्तथा ध्यात्मं सर्वरूपेण वै पुनः || व्यवहारास्पदतया संहन्यन्तेथे तत्र च | रूपस्कन्धः सविषयाणीन्द्रियाणीति बभ्रमुः || विज्ञान स्कन्ध नामा सा वहमाकार एव च | रूपादि विषयश्चासाविन्द्रियादि समुद्भवः || दण्डायमानो वेदनाख्य स्कन्धः स तु समीरितः | सुखस्यानुभवश्चापि दुःखस्यानुभवस्तथा || प्. ९९) संज्ञा स्कन्धः स विज्ञेयो विशिष्टोल्लेख वानयम् | सविकल्प प्रत्ययस्तु संस्कार स्कन्ध उच्यते || क्लेशा रागादयश्चैवमदमानादयस्तथा | उपक्लेशास्तथा धर्माधर्मौ च परिकीर्तिताः || पञ्चस्कन्धीतत्समूहः तत्रादविदमुच्यते | द्विप्रकारः समुदयो योयं चोभय हेतुकः || स च भौतिक संघातोणु हेतु स्कन्ध हेतुकः | स्कन्धा रूपस्ततस्तस्मिन् उभयस्मिन्नपि क्रमात् || स्यादभिप्रेयमाणे तदप्राप्तिः किल सा भवेत् | समुद्रा या प्राप्तिरिति तस्या सङ्गति रुच्यते || स्वतः संघात विरहो जडत्वात्समुदायिनः | समूह सिध्यधीनत्वाच्चित्ताभि ज्वलनस्य च || अन्यस्य चेतनस्यात्र संहन्तुर्विरहात् ततः | सर्वस्य क्षणिकत्वस्य त्वया च प्रतिपादनात् || संहन्ता चेतनः कश्चित् स्थिरोनाभ्युपगम्यते | तथाप्य विद्या मुख्यानां कारणत्वात्परस्परम् || सङ्गच्छते लोक यात्रा ते चाविद्यादयः पुनः | प्. १००) अविद्या चैव संस्कारो विज्ञानं नामरूपकम् | स्यात् षडायनं स्पर्शो वेदना च ततः परम् || तृष्णां विद्यादुपादानं भवेज्जातिस्तथैव च | स्याज्जरामरणं शोकः तथैव परिवेदना || ततो दुःखं दुर्मनस्तेत्येवं जातीयका इमे | अन्योन्य हेतुकास्तेषां समयेऽङ्गीकृताः पुनः || अविद्या भ्रान्तिरित्युक्ताः संसारोरागपूर्वकाः | विज्ञानं वस्तु विषयज्ञानमित्युपवर्णितम् || चत्वारः स्युरूपादान स्कन्धानाम पदाभिधाः | स्कन्धै सैरभिनिर्वर्त्य देहस्य कललादिकम् || अवस्था बुद्बुदाद्याया सारूप्यमिति वर्णितम् | तत्षडायतनं प्राहुरिन्द्रियाणि तु तानिषट् || नामरूपेन्द्रियाणां संघातः * स्पर्श उच्यते | वेदना सुखदुःखादिर्मया संग्राह्यमित्यदः || तृष्णात्वध्यवसायः स्यादुपादानं ततो विदुः | वाक्काय चेष्टा सम्भूतौ धर्माधर्माविति स्फुटम् || प्रादुर्भावो जातिरिति परिपाको जरेति च | स्कन्धानां चैव जातानां तन्नाशं मरणं विदुः || शोकस्तु म्रियमाणस्य य अन्तर्दाह ईरितः | प्रलापनं तदुत्थन्तु कीर्तिता परिवेदना || पञ्च विज्ञान कार्यं यद साद्ध्यानुभवः स्मृतः | तद्दुःखं मानसं दुःखं दुर्मनस्तेतिगीयते || प्. १०१) यथा बीजादंकुरः स्यादङ्कुरात्पत्रमेव च | पत्रात्काण्डं ततो नालो नालाद्गर्भं ततः परम् || गर्भाच्छूकस्ततः पुष्पं पुष्पात्फलमिति क्रमात् | एषा अचेतनत्वेपि बीजादीनामसत्यपि || अधिष्ठातरि चान्यस्मिन् यथा वान्योन्यमत्र तु | कार्यकारण भावो हि दृश्यते तदिहापि च || जन्मादि हेतवो ज्ञेया अविद्यादय ईरिताः | जन्मादयश्च विज्ञेया अविद्या हेतुका इति || आवर्तमाना दृश्यन्ते घटीयन्त्रवदत्र च | अर्थाक्षिप्तस्तदेतैः स संघात इति चेन्न च || तेषामुत्पत्तिमात्रत्वात् संघात्स्तर्हि युज्यते | निमित्तमव गम्येत संघातस्य यदि त्वया || परस्पर प्रत्ययत्वेप्यविद्यादेस्तदा पुनः | पूर्व पूर्व निमित्तं स्यादुत्तरोत्तर संभवे || संघाता पत्ति हेतुत्वं नैव क्वाप्युपपद्यते | अर्थादाक्षिप्यते संघ अविद्या पूर्वकैरिति || यथा विघादयः संघमन्तरेणात्म सम्भवम् | अलब्ध्वा पञ्च सङ्घातमपेक्षन्त इतीर्यते || संघातस्य ततस्तस्य निमित्तं किञ्चिदुच्यताम् | न ह्यपेक्षामात्रतस्ते निमित्तं सिध्यति स्वतः || संघातस्य त्वविद्याया निमित्तमिति चेन्न हि | प्. १०२) कथं तमेवाश्रित्य लब्ध्वात्मानं पुनः स्वयम् | तस्यैव स्युर्निमित्तञ्च संसारेऽनादिके त्वथ || सातत्येनैव सङ्घात उत्पद्यन्त इतीर्यते | तथापि तस्मात्संघातात्संघातान्तर सम्भवः || सदृशो नियमेनैव भवेदनियमेन वा | विरुद्धं सदृशं वेति तत्राधे शृणु वक्ष्यते || न कदापि मनुष्यस्य वेदाद्याप्तिः कदाचन | द्वितीये तु क्षणे हस्ती भूत्वा देवो भवेन्नरः || नियामकस्या भावादभावात्स्थायि कर्मणः || अङ्गीकृत्यत्व विद्यादे रुत्पत्रौ च निमित्तताम् | सङ्घात सिद्धिर्नेत्युक्तं वाच्याप्युत्पत्ति हेतुता || इदानीं नेतिवक्ष्याम एवं हि क्षण वादिनः | पूर्व क्षणो निरुध्येत चोदयत्युत्तर क्षणे || पूर्वोत्तरस्य क्षणयोरेवमभ्युप गच्छता | वाच्यो हेतु फलाभावो न वक्तुं शक्यते क्वचित् || पूर्व क्षणस्य रुद्धस्य रुध्यमानस्य वा पुनः | तथा भावग्रस्त तया नोत्तरक्षण हेतुता || कार्यान्नितानां मृत्त्वर्णादीनां दृष्टा हि हेतुता | ग्रस्तस्य नैवा भावेन दृश्यते कार्य हेतुता | क्षणभङ्गाख्य वादे तु हेतुः पूर्वक्षणो न हि || निरोधेन ग्रस्ततया चोत्तरस्येति कीर्तितम् || प्. १०३) अथ हेता वसत्येव फलोत्पत्तिं वदेद्यदि | तत्प्रतिज्ञोपरोघः स्याच्चतुर्हेतून् प्रतीत्य च || चित्ताच्चैतोत्पत्तिरिति प्रतिज्ञा हानिरापतेत् | चित्तं विज्ञानमाख्यातं चैत्तास्ते च सुखादयः || नीलावभास ज्ञानस्य नीलालम्ब प्रतीतितः | भवेन्नीला कारताद्या ततस्तु समनन्तरात् || प्रत्ययात्पूर्व विज्ञानान्मनसो बोधरूपता | दृशः पति प्रत्ययाच्च रूपग्रह उदाहृतः || सहकारि प्रत्ययाच्च लोकात्स्पष्टार्थता पुनः | कारणानि तु चत्वारि चैत्तानामिति या पुनः || प्रतिज्ञा कारणाभावे चोपरुध्येत केवलम् | अथोत्तर क्षणोत्पत्ति पर्यन्तमव तिष्ठते || पूर्व क्षणश्चेत्तद्यौग पद्यं हेतोः फलस्य च | तथा च क्षणिकास्सर्वे प्रतिज्ञेति न संभवेत् || वैनाशिकाः कल्पयन्ति नाना भेदेन वै पुनः | बुद्धिर्बोध्यं तथा बोधाः त्रयादन्यत्तु संस्तुतम् || क्षणिकं चेति तदपि त्रयञ्च क्रमशो विदुः | प्रतिसंख्या तन्निरोधावाकाशश्चेति भेदतः || अवस्त्वभाव मात्रं तन्निरूपास्यमिति श्रुतम् | प्रतिसंख्या तु भावानां नाशः स्याद्बुद्धि पूर्वकः || विपरीतो निरोधः स्यात्प्रतिसङ्ख्या निरोधकः | प्. १०४) तथैवा वरणाभाव मात्रमाकाशमुच्यते | प्रत्याचष्टेदानीं तन्निरोध द्वयमप्यथ || प्रतिसङ्ख्या तन्निरोध द्वयाप्राप्ति रसं भवः | अवच्छेदात्तदतौ हि स्यातां सन्तान गोचरौ || किं भाव गोचरावेतौ नैव सन्तान गोचरौ | सन्तानेष्वपि सर्वेषु किल सन्तानिनां पुनः || तद्धेतु फलभावेन सन्तानस्य तथैव हि | विच्छेद विरहान्नापि स्यातां तौ भावगोचरौ || निरन्वयो हि भावानां निरुपाख्यो विना * कः | अवस्थास्वपि सर्वासु प्रत्यभिज्ञा बलेन तु || अन्वयच्छेद भावेन तस्मात्तत्पर कल्पितम् | नोपपन्नं विरोधस्य द्वयमित्यवधार्यताम् || यश्च विद्यानिरोधःस्यात्प्रतिसङ्ख्या निरोधके | अन्तः पातीसमीचीन ज्ञा * त्परि करैः सह || स्वयमेवाथ वा चाद्ये हानिर्निर्हेतुकादिके | ज्ञानोपदेशानर्थक्यं मंत्ये थोभयथापि च || दोषादेतद्दर्शनं तु सर्वं तदसमञ्जसम् | आकाशे चा विशेषाच्च निरुपाख्यत्वमेव न | अविशेषात् तत्प्रच्छतीतेस्तावद्वेद प्रमाणतः || आकाशवत्सर्वगतश्च नित्य इति वाक्यतः | व्योम्नि वस्तु प्रसिद्धिं विप्रतिपन्नान् जनान् प्रति || प्. १०५) शब्दानुमेयता वाच्या गन्धादीनां तथा पुनः | पृथ्व्याद्याश्रयतायाश्च सर्वत्रापि च दर्शनात् || अपि चावरणाभावमात्रमाकाशमिच्छतः | तार्क्ष्ये पतति चैकस्मिन् सत्वा दावरणस्य तु || पिपत्सतो न तार्क्ष्यस्य पतिष्यति च तत्र चेत् | येन वा वरणा भावो विशेष्येत ततोऽप्यथ || आकाशं वस्तु भूतं स्यान्नैव चा भावमात्रकम् || अनुस्मृतेश्च युक्तं न वैनाशिक मतं ततः | वैनाशिकाः क्षणिकतां वदेयुः सर्व वस्तुनः || अभ्युपेयात्क्षणिकतामुपलब्धुरपि स्वयम् | अनुस्मृतेर्न चैवं स्यादित्यस्यार्थो विचार्यते || अनुभूति मनुत्पन्नं स्मरणं स्यादनु स्मृतिः | स च सम्भवतीत्थं चेदनुभूत्येक कर्तृका || नैव मन्यानु भूतेऽर्थे स्मृतिरन्यस्य संभवेत् | अप्येवं दर्शन स्मृत्योरेकस्मिन् कर्तरि स्फुटम् || प्रत्यक्ष प्रत्यभिज्ञानं प्रसिद्धं सर्वलोकतः | अहमद्राक्षमेवं तं भिन्नः कर्ता तयोर्यदि || भवेत्तदा सा वद्राक्षीन्नैवं प्रत्येति कश्चन | नैव सतो ह्यदृष्टत्वा द्वैनाशिकमिदं मतम् || अनङ्गी कुर्वतां भावकार्ये च स्थिर कारणम् | भावोत्पत्तिरभावाच्च तत्कार्यं दर्शयत्यपि || प्. १०६) भावोत्पत्तिमभावाच्चानुपमृद्य भवेन्न हि | प्रादुर्भावस्तथा नष्टाद्बीजात्स च किलाङ्कुरः || घटो विनष्टान्मृत्पिण्डात्कूटस्थादविशेषतः | यदि चेत्सर्वतः सर्वमुत्पद्येतेति ते विदुः || तत्रेद मुच्यते नस्यादभावाद्भाव सम्भवः | भावोत्पत्तिर्यथा भावात्तदा भावा विशेषतः || तत्कारण विशेषस्य कल्पना व्यर्थतामियात् | बीजादीनां विनष्टानां विनष्टानां मृदां तथा || शशशृङ्गादिकानां च विशेषोनास्त्य भावतः | बीजादेवाङ्कुरोत्पत्तिः शशशृङ्गात्कुतो न हि || नीलादिरुत्पलादीनामिवाभावो विशिष्यते | विशेषवत्वा देवा भावस्य भावत्व मुच्यते || उत्पलादिव देवं चेदभावाद्भाव संभवे | अभावान्वितमेव स्यात्कार्यमेव मृदन्विताः || शरावाद्या हि दृश्यन्ते यत्त्वयोक्तं न दृश्यते | यच्च नानुपमृद्यात्र प्रादुर्भावादितीरितम् || तद्दुरुक्तं सुवर्णे च स्वानामेव तथा पुनः | प्रत्यभिज्ञाय मानानां सुवर्णानां हि दृश्यते || स चकादौ कारणत्वं अपि चैवाङ्कुरादिषु | उपादानं न बीजाद्या अनुस्यूतांशकाः पुनः || प्. १०७) तस्मादनुपपन्नोऽयं अभावाद्भाव सम्भवः || भावोत्पत्तिमभावाच्च दभ्युपगम्येत यद्यपि | एवञ्चानीह मानान्तमौदासीन्येन वै नृणाम् || सुलभत्वादभावस्य सिद्ध्येदभिमतं फलम् | क्षेत्रकर्माण्य यत्नस्य कृषिकस्य सदा भवेत् || समृद्धा सस्य सम्पत्तिर्न समीहेत कश्चन | स्वर्गापवर्गयोस्तस्मान्न युक्तं तावकं मतम् || विज्ञानवादी बौद्धश्चेदानीं प्रत्यव तिष्ठते | केषाञ्चिच्च विचेयानामर्थानां बाह्यं वस्तुनि || आलक्ष्यान्तिनिवेशं तदनुरोधेन केवलम् | बाह्यार्थ प्रक्रियेयं तु रचिता तेन वै पुनः || नाभि प्रेताहि सुगतैर्विज्ञान स्कन्ध वादिभिः | तस्मिन्विज्ञान वादे च बुद्ध्या रूढेन केवलम् | रूपेणान्तस्य एवात्र प्रमाणं फलमित्यपि || प्रमेयं चेति सर्वोपि व्यवहारो हि युज्यते | तथा सत्यपि बाह्येर्थे बुद्ध्यारोहणमन्तरा || मानादि व्यवहारस्या संभवादिति तत्कथम् | अन्तस्थो व्यवहारस्तु न बाह्योर्थ इतीरितम् || अर्थोपगम्यमानस्तु बाह्यः किं परमाणवः | स्तम्भाद्यास्तत्समूहा वा न तावत्परमाणवः || प्. १०८) ते स्तम्भादि प्रकृतः परिच्छेद्या भवन्ति हि | परमाण्ववभासाभि ज्ञानानुदयतस्तथा || न तत्समूहा स्तम्भाद्या परमाणुभ्य एव तु | अन्यता * * ताभ्याञ्च दुनिरूपतया तथा || प्रत्या च क्षीत आत्मादीन् तथानुभवमात्रतः | साधारणात्म ज्ञानस्य विषये विषये च यः || पक्षपात इदं स्तम्भ ज्ञानं कुड्यमिदं त्विति | घट ज्ञानं पट ज्ञानं इत्येवं रूपतो बहु || न विशेषो ज्ञानगतमन्तरेणोपपद्यते | एवं विषयसारूप्यं वाच्यं ज्ञानस्य वै पुनः || तस्मिन्नं शकृते चापि ज्ञानेन विषया कृतेः | अपार्थिवावरुद्धत्वाद् बहिरर्थाति कल्पना || स्वप्नादिवत्तद्द्रष्टव्यं यथा स्वप्ने जनस्य तु | माया मरीचि सलिल गन्धर्व नगरादयः || वाक्यार्थमन्तरेणैव ग्राह्यग्राहकतां यथा | एवं जाग्रत् प्रत्ययाश्च प्रत्ययत्वा विशेषतः || कथं वा सति बाह्येऽर्थे प्रत्ययानां विचित्रता | वासनायाश्च वैचित्र्यादित्याह स च वै पुनः || अनादावत्र संसारे बीजाङ्कुर निदर्शनात् | ज्ञानानां वासनानाञ्च परस्पर निमित्ततः || वैचित्र्यान्न विरुद्ध्येत बाह्यार्थाभाव एव तत् || प्. १०९) इति प्राप्तेश्चनाभाव उपलब्धेरितीरितम् | न खल्वभावो बाह्यस्य कुतश्चेदुप लब्धितः || प्रत्यये प्रत्यये चैव बाह्योऽर्थ उपलभ्यते | न चोपलभ्यमानस्य विरहः शक्यते खलु || यथा हि कश्चिद्भुञ्जानस्तृप्तिं चानुभवञ्जनः | ब्रूयान्नाहं तु भुञ्जानो न तृप्यामीति वा स्वयम् || तद्वदिन्द्रिय सम्बन्धैर्लब्ध बाह्यस्तु पूरुषः | न च सोऽस्तीति वा ब्रूयादहं नोपलभेऽथवा || ब्रूयाच्चैतस्य वचनमुपादेयं कथं भवेत् | नाऽहमेवं ब्रवीम्यर्थमहं नोपलभेऽत्र हि || किन्तु लब्ध्याति रिक्तार्थमहं नोपलभेत्विति | न लब्धि व्यतिरेकोपि बलात्स्वीकार्य एव हि || नैव कश्चिल्लब्धिमेव स्तम्भं वा कुड्यमेव वा | इत्येवं नोप लभते स्तम्भ कुड्यादिकान् पुनः | विषयत्वे नैव लब्धे लभन्ते सर्वजन्तवः || इतश्चैवं हि वक्तव्यमन्य एवोप लभ्यते | उपलब्ध्यति रिक्तोऽर्थ इति चैवं किलस्थितिः || एवं व्याचक्षते ते च बाह्यमर्थं प्रयत्नतः | यदन्तर्ज्ञेयरूपं तद्बहिर्वदव भासते || इति ते सर्वलोकेषु प्रसिद्धां संविदं बहिः || प्. ११०) भासमानां लब्धवन्तः प्रतिचिख्यासवः पुनः | बहिर्वदन्ति बाह्यार्थे वच्छब्दं च प्रयुञ्जते || अन्यथा ते कथं ब्रूयुर्बहिर्वदिति निर्भयाः | न हि वन्ध्या पुत्रवदवभासत इत्ययम् || तस्माद्यथा स्वानुभवं बहिरर्थेव भासते | ननु बाह्यस्य चार्थस्य प्रोक्तस्तैरप्य संभवः || नायमध्यवसायस्तु साधुरित्युररी कृतम् | सम्भवा सम्भवौ योभौ प्रमाणस्य यतः पुनः || प्रवृत्तिं चा प्रवृत्तिञ्च पुरस्कृत्यैव तावुभौ | न संभवा सम्भवौ च पुरस्कृत्यैव केवलम् || प्रवृत्तिरप्रवृत्तिर्वा न प्रमाणस्य युज्यते | प्रत्यक्षादिष्वन्यतम प्रमाणे नोपलभ्यते || सम्भवत्येव तद्यत्तु प्रमाणेन न केन वा | उपलभ्येत तन्नैव तत्र संभवती ह तु || लभ्यमानो हि बाह्योऽर्थः सर्वैरेव प्रमाणकैः | विकल्पैर्व्यतिरेकाद्यैः कथं नेत्येव वर्णयेत् || नैवं विषयसारूप्याल्लब्धेर्विषय नाशनम् | अस्वीकृते च विषये पुनर्विषयरूपिताम् | सारूप्यं नोप लभ्येत बहिर्विषय लब्धितः || स्वप्नप्रत्यय वज्जाग्रदवस्था प्रत्यया अपि | विनैव बाह्यं युज्येरन् एतत् प्रत्युच्यते मया || प्. १११) स्वाप्न प्रत्ययवज्जाग्रदवस्था प्रत्यया अपि | विनैव बाह्यं युज्येरन् एतत्प्रत्युच्यते मया || स्वाप्न प्रत्यय वज्जाग्रत् प्रत्यया न भवन्ति हि | वैधर्म्यात्तच्च वैधर्म्यं बाधा बाधा वितीरितौ || बाध्यते स्वप्न लब्धोऽर्थ प्रतिबुधोवदेदिति | मिथ्यामयोपलब्धोहि महाजनसमागमः || निद्राग्लानं मम मनः तेनैषाभ्रान्तिरित्यथ | एवं यथा यथं बाधो मायादिष्वपि दृश्यते | नैवं जाग्रल्लब्धवस्तु स्यादवस्थासु बाधितम् || अबाधित्वमास्थेयं तज्जाग्रत्प्रत्ययस्य तु | तेन स्वप्न प्रत्ययः स्यान्मिथ्याबाधित इत्यसौ || अथ जाग्रत्प्रत्ययस्य बाध्यत्वे बाधको न हि | स्वाप्नानां प्रत्ययानां स्यान्न बाध्यं बाधनं यतः | न स्वप्न प्रत्ययो मिथ्या ततः स्वप्नवदित्यसौ || दृष्टान्तः साध्य विकलः तद्बाधा बाधलक्षणम् | वैधर्म्यं न स्वप्नवच्च जाग्रतः प्रत्ययस्य तु || भवेन्निर्विषयत्वाध्यवसानमिति निश्चयः | यदप्युक्तं विनाप्यर्थं ज्ञान वैचित्र्यमद्भुतम् || वासनानां च वैचित्र्यादिति प्रत्युच्यते मया | वासनानां न भावोपि त्वत्पक्षेऽनुपलब्धितः || प्. ११२) अपि चार्थोपलब्ध्यर्थं बाह्यार्थानां भवन्तिताः | नामरूपावसानाख्याः प्रत्यर्थं भाषितास्त्वया || अर्थेष्व लभ्यमानेषु किन्निमित्तास्तु तद्वद् || अनादित्वेप्यन्ध परम्परा न्यायेन दुर्वहा | वासनानामसंस्कार विशेषास्तावदाश्रयम् || अन्तरेणावकल्पन्त एवं लोकेषु दर्शनात् | न साधनाश्रयः कश्चित्तव चास्ति प्रमाणतः || अतो नानुपलब्धेश्च क्षणिकत्वाच्च नैव तत् | यदप्यालय विज्ञानं परेण परिकल्पितम् | यद्वासना श्रयत्वेन क्षणिकत्व परिग्रहात् || अनवस्थितरूपं तत् प्रवृत्तिज्ञानवत्स्वयम् | न वासनाधिकरणं तावद्भवितु मर्हति || न कालत्रय संबन्धिन्येकस्मिन्न सति स्फुटम् | देशकाल निमित्तादि सापेक्षा वासना तु या || तदधीन स्मृतेस्तस्याः प्रतिसन्धान पूर्वकाः | व्यवहारः संभवति हि स्थिरत्वे चालयस्य तु || क्षण भङ्ग प्रतिज्ञाया हानिरापतति ध्रुवम् | अपि विज्ञान वादेऽपि क्षणिकत्वमपि ग्रहात् || यश्च बाह्यार्थवादेषु क्षणिकत्व निबन्धनम् | दूषणं भावितं तच्चेदुत्तरोत्पादनेऽपि च || प्. ११३) पूर्वक्षण निरोधादित्येवमादिकमत्र च | अनुसन्धेयमेतस्मादेतौ पक्षौ निराकृतौ || बाह्यार्थवादो विज्ञानवादि पक्षश्च तावुभौ | सर्वथानुपपत्तेश्च तन्नैकस्मिन्न संभवात् || इदानीं तु क्षपणकमतं दूरे निरस्यति | सप्ततेषां पदार्थास्ते जीवा जीवाक्षवास्त्रयः || संवरो निर्भरो मोक्ष सङ्क्षेपाद्द्वौ पदार्थकौ | जीवा जीवौ तयोरन्तर्भावात् तेषामितीर्यते || तयोः प्रपञ्चमपरमिममाचक्षते च ते | पञ्चास्ति कायास्तेष्वाद्यः प्रोक्तो जीवास्तिकायकः || तत्पुद्गलास्थि कायश्च ततो धर्मास्ति कायकः | अथा धर्मास्ति कायश्च तथाकाशास्तिकायकः | एषवान्तरभेदेन बहुशः परिकल्पितान् || जगुर्बोधात्मको जीवो जडवर्गस्त्व जीवकः | इन्द्रियाणां प्रवृत्तिः स्यादास्रवः संवरस्त्वयम् || शमादिरूपायावास्या प्रवृत्तिस्त्वथ निर्भरः | तप्ताश्मारोहणादिस्या बन्धोऽष्टविध कर्म तत् || चतुर्विधं घातिकर्माद्यं ज्ञाना वरणीयकम् | दर्शनावरणीयश्च मोहनीयं तृतीयकम् | आन्तराधिकमेवं स्यादथाघाति चतुर्विधम् || प्. ११४) वेदनीयं नाम किञ्च गोत्रीयायुष्कमित्युभे | तत्र सम्यग् ज्ञानं स्यान्न मोक्ष इति पर्ययः || तज्ज्ञानावरणीयं स्यात्कर्मचार्हत दर्शनात् | अभ्यासान्न भवेन्मोक्षो दर्शनावरणीयकम् || तृतीयं मोहनीयन्तु विशेषा नवधारणम् | बहुशः प्रतिषिद्धेषु मोक्षमार्गेष्वितीरितम् || मोक्षमार्ग प्रवृत्तानामन्तरायकरं विदुः | विज्ञानं यत्तुरीयं तदांतराधिक संज्ञितम् || श्रेयो हन्तृतयैतानि घाति कर्माण्यरीरटन् | तथा चाघाति कर्माणि वेदनीयामथोच्यते || शुक्ल पुद्गल पाकेषु हेतु बन्धोपि नैव हि | श्रेयो विरोधि यस्मात्तत्तत्वाज्ञाना विघातकम् | यच्छुक्ल पुद्गलारम्भ वेदनीयानुरोधि तत् || नामिकं कर्मचाख्यत तत्कर्मारभते पुनः | तच्छुक्ल पुद्गलस्याद्यावस्थां कललबुद्बुदम् || अव्याकृतं ततोऽप्याद्यं शक्तिरूपेण संस्थितम् | गोत्रीयमथ चायुष्कमायुष्कायति वै नृणाम् || सम्यगुत्पादन द्वारा सतां तथ यतीति तत् | अथाति कर्माणि शुक्लपुद्गलाश्रायता ततः | बध्नाति पुरुषं चेति बन्धकर्माष्टकं च तत् || प्. ११५) गत सर्वक्लेशजात वासनस्यैव चात्मनः | सम्यक्सुखैकतानस्य चोपदिष्टादवस्थितिः || मोक्ष इत्येवमपरे तूर्ध्वं गमनशालिनः | जीवस्य बन्धविरहाद्यदूर्ध्वं गच्छतीति सः || अस्तीति कायते यस्माज्जीव एवास्ति कायकः | एवमन्यत्र जीवास्ति कायस्तु त्रिविधः स्मृतः || बुद्धो मुक्तो नित्यसिद्ध आर्हतस्तु तृतीयकः | अन्यौ प्रसिद्धौ विज्ञेयौ पूर्यते गलतीति च || पुद्गलं वस्तूपचितं तथैवापचितं च यत् | स्यात्पुद्गलास्ति कायश्च षोढा भेद समन्वितः || पृथिव्यादीनि चत्वारि स्थावरं जङ्गमं त्विति | धर्मास्तिकायो विज्ञेयः प्रकृतेरानु कूल्यवान् | स्यादधर्मास्तिकायस्तु स्थिति हेतुरितीरितः || द्विधाकाशास्तिकाटाश्च लोकाकाशस्तथादिमः | अन्यस्त्वलोकाकाशः स्यादुपर्युपरि वर्तिनाम् || अन्तर्वर्तीतु लोकानां लोकाकाश इतीर्यते | मोक्षस्थानं तदुपरि त्वालोकाकाश उच्यते || सर्वत्र सप्तभङ्गीनं न्यायं तमवतारयन् | निपातोनेकान्तभासीतिङन्त प्रतिरूपकः | यदि वस्त्वस्त्येव चेत्येकान्ततः सर्वथा सदा || प्. ११६) सर्वत्र सर्वात्मनास्त्येवेति चेदसङ्गतम् | तस्य चेष्टा जिहासाभ्यां कानिचित्क्वचिदेव च || सत्वे प्रेक्षावतां ज्ञानोपादाने कल्पिते इति | तमेतं सप्तभङ्गीनं नयं दूषयति स्वयम् || असम्भवाच्च नैकस्मिन्निति सूत्रेण सूत्रकृत् | सत्वासत्वादि धर्माणामन्योन्या भावरूपिणाम् || एकस्मिन् धर्मिणि समावेशः शीतोष्णवन्न हि | एवं चात्माका कार्त्स्न्यमिति न देह परिमाणता || पर्यायेण विरोधोपि विकारादिभ्य एव न | अन्त्यमोक्षावस्थितस्य परिमाणस्य नित्यता || आद्यस्य मध्यमस्यापि परिमाणस्य नित्यता | शरीर परिमाणस्य वक्तव्या चेक रूपता || अविशेषात्प्रसज्येत तस्मादेवं न शक्यते | अथवान्त्यस्य मोक्षे च परिमाणस्य तु स्थिते || अवस्थयोः पूर्वयोस्तु जीवः स्यात् तत्प्रमाणकः | ततो विशेषतोऽणुर्वा महान् वा जीव भावतः || न देह परिमाणस्य तस्मान्मतमसङ्गतम् | असामञ्जस्य तुः पत्युरधिष्ठातेश्वरस्त्विति || निमित्तमात्र वादस्तदसौ तत्वान्निषिध्यते | अश्रौतेश्वरवादश्च नानारूपेण कल्पितः || प्. ११७) पुरुषस्य प्रधानस्याप्यधिष्ठाता च केवलम् | निमित्तकारणं योगसांङ्ख्याद्या जगुरीश्वरम् || महेश्वरास्तु मन्यन्ते पदार्थान् पञ्चते पुनः | कार्यञ्च कारणं योगो विधिर्दुःखान्त इत्यपि || पशुपाशविमोक्षाय पत्यादिष्टा इमे इति | ईश्यरस्स्यात् पशुपतिः निमित्तं कारणं त्विति || माहेश्वरास्तु चत्वारः शैवाः पाशुपतास्तथा | कारु सिद्धान्तिनः केचित्तथा कापालिकाः परे || महेश्वर प्रणीतागमानुसारितया च ते | नाम्ना माहेश्वराः प्रोक्ता तत्र कारणमीश्वरः | कार्यं प्रधानं योगस्तु महदादि प्रकीर्तितम् || ओंकार ज्ञान धृत्यादि विधिस्त्रिषवणं पुनः | गूढचर्यावसानञ्च दुःखान्तो मोक्ष इत्यपि || आत्मनः पशवस्तेषां पाशो बन्धः प्रकीर्तितः | दुःखान्तस्तद्विमोक्षः स्यादिति वैशेषिकाः पुनः | स्व प्रक्रियानुसारेण निमित्तं त्वीश्वरास्त्विति || अधिष्ठातुः कुलालादेर्निमित्तत्वं घटादिषु | उपादानत्वमपि न तद्वत्कार्यं प्रतीश्वरः || तत्रेदं प्रतिभातीत्थं किं केवल निमित्तता | श्रुतेरुतानुमानादेर्नाद्यस्तूभय वर्णनात् | निमित्तोपादानतेति चोपादानत्वमित्यपि || प्. ११८) वेदेष्वसकृदुक्तत्वादनुमानमपीह न | अनुमानात्कल्पमान ईशोदृष्टानुसारतः || कल्पनीयस्ततश्चात्र कुलालवदपीशितुः | रागादिदोषः सज्येत वैषम्यं निर्घृणादिकम् || सार्थवत्वादनीशत्व प्रसक्तेश्चेश्वरस्य च | स्यात्पूरुष विशेषत्वोपगमात्पुरुषस्य च || औदासीन्याभ्युपगमादसामञ्जस्यमापतेत् | अधिष्ठाना संगते चैवं * करणवद्यदि | न भोगादेः प्रसक्तत्वादन्तवत्वं प्रसज्यते || स्याद सर्वज्ञतावापि परिच्छेदो न वा तथा | उत्पत्त्य संभवात् पाञ्चरात्रं मतमसंगतम् || भगवान् वासुदेवः स्याज्ज्ञान रूपो निरञ्जनः | परमार्थञ्च तत्तत्व स चतुर्धा विभज्यते || आत्मानं प्रतितिष्ठं वासुदेव व्यूहरूपतः | सङ्कर्षणव्यूहरूपः प्रद्युम्नव्यूहरूपतः || अनिरुद्ध व्यूहरूपी वासुदेवः परात्मवान् | सङ्कर्षणो जीवनाम प्रद्युम्नो मन उच्यते || अहङ्कारोऽनिरुद्धः स्यात्तेषां प्रकृतिरुच्यते | वासुदेवस्तदितरे कार्यमित्यभिधीयते || प्. ११९) सङ्कर्षणो वासुदेवाद्युमन्ः संषकर्षणात्मनः | प्रद्युम्नादनिरुद्धश्च जात इत्यभिधाय च || भगवन्तमिहामात्मानमिज्याभिगमेन च | स्वाध्याय योगैरिष्ट्वातं क्षीणक्लेशस्तु योजनः || भगवन्तं प्रपद्येतेत्यादि तत्रोच्यते मया | उत्पत्त्य संभवाद्दोष अनित्यत्वादि संभवः || अथ विप्रतिषेधाच्च क्वचिद्गुण गणत्वकम् | ज्ञानैश्वर्यादि च गुणाः क्वचिदात्मान एव ते || सङ्कर्षणादयोजीवाः वासुदेवः क्वचित्तथा | वेदनिन्दा दर्शनाच्च पाञ्चरात्रमसङ्गतम् || साङ्ख्यादि पाञ्चरात्रान्ता निरस्ताबहुयुक्तिभिः | यावत्परमतं नैव निराकुर्यात्स्व युक्तिभिः | तावदधिष्ठितमेवस्यादिति न्यायात्स्वकं मतम् || तस्माद्धृदय देशे तु लिङ्गं धार्यं मुमुक्षुभिः | इति सिद्धं प्रमाणैश्च तथैव बहुयुक्तिभिः || उक्ता विप्रतिषेधेन परपक्षानपेक्षता | स्यात्तन्माभूदिति परः प्रपञ्चः प्रसरत्यसौ || आकाशस्य समुत्पत्तिरस्ति वा नेति संशये | वियन्नोत्पद्यते कस्माच्छान्दोग्ये तु तदश्रुतेः | तैत्तिरीयोपनिषदि वियदुत्पत्तिरस्तु तु || प्. १२०) श्रुतिर्वियत्समुत्पत्तेर्गौणी चोत्पत्यसंभवत् | यस्य च प्रागभावोऽस्ति तस्योत्पत्तिर्यथा घटे || न चाकाश प्रागभावस्तस्माद्गौणीकिल श्रुतिः | तस्माच्चामृतमित्यादि श्रवणान्नित्यमेव हि || आकाशवत्सर्वगतो नित्य इत्याद्यसङ्गतेः | स्याच्चैकस्य ब्रह्मशब्दवन्मुख्यत्वं च गौणता || न प्रतिज्ञा हानिरत्र तथैवाव्यतिरेकतः | शब्देभ्यो घटसत्ताया मृत्सत्ता व्यतिरेकतः || मृज्ज्ञानेन घटज्ञानं तद्ब्रह्मा व्यतिरेकतः | ब्रह्मसत्ता व्यतीरेकात्सत्ताया वियतस्तथा || ब्रह्मज्ञानाद्वियज्ज्ञानं सुखेनैवोपपद्यते | अथ यावद्विकारं तु विभागो लोकवत्तथा || एतेन मातरिश्वापि व्याख्यात प्राय एव हि | वायुश्चान्तरिक्षमिती ह्यमृतत्वं विधीयते || वियतः प्रागभावस्या भावात्तत्रसङ्गतम् | वायोस्तु प्रागभावस्य सत्वात्तन्नित्यता कथम् || तदुत्पत्ति श्रुतिर्गौणीत्यत्रैवं प्रतिपाद्यते | वायोः प्रागेव सत्वावधारणेनामृत श्रुतेः || उत्पच्यसं भवात्तस्याः श्रुतेर्गौणत्वमेव हि | वायोरग्निरिति श्रुत्या तेजः स्यान्मातरिश्वनः || प्. १२१) तेजस्सकाशादापस्तु स्यादद्भ्यः पृथिवीस्वयम् | अधिकारात्तया कृष्णरूपाच्छब्दान्तरान्मही || इति प्राप्तेः स एवेशः कारणं जगतां स्वयम् | न वायवादिस्तु तदभिध्याना देव स ईश्वरः || तल्लिङ्गात् सोऽकामयत बहुस्यामिति कामनात् | अप्तेजसोर्जडत्वेन चेक्षणं जगदीशितुः || विपर्ययेण चोत्पत्ति क्रमोतदुपपद्यते | तथा क्षरात्संभवतीह विश्वंमिति वर्णयन् || तेन क्रमेण जायन्त इत्याहाथर्वणीश्रुतिः | तपसा चीयते ब्रह्म ततोऽन्नमभि जायते || अन्नात्प्राणो मनः सत्यं लोकाः कर्म सुचामृतम् | यः सर्वज्ञः सर्वमयो यस्य ज्ञानमयं तपः || तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते | पृथ्वीं जलं च भरणे विज्ञान मनसी क्रमात् || अन्नात् प्राणो मनः सत्यं इति तल्लिङ्गतश्च चेत् | उक्तरीतिर्नाविशेषादन्नानन्तर्यमत्र च || पौर्वापर्यं श्रुतं चैव ह्यन्नात्प्राणस्ततो मनः | मनसस्सत्यतायास्तु श्रावणादिति वै स्थितिः | न चोत्पत्ति स्वरूपेण विज्ञान मनसोस्तयोः || अनादिताया वाच्यत्वात्तच्चराचर रूपिणः | प्. १२२) देहस्यान्न विकारत्वादन्नानन्तर्य वर्णानात् | तथा चराचरोत्पत्ति व्यपाश्रय उदीरितः || विज्ञान मनसोर्जन्म भाक्तस्तद्भाव भावनात् | सत्यां देह समुत्पत्तौ विज्ञान मनसोर्जनेः | व्यपदेशात्ततश्चात्र स्वरूपेण तयोर्जनेः || विरहान्न च भूतानामुत्पत्ति क्रम भञ्जनात् | किं जीवस्य समुत्पत्तिरुतनास्तीति संशयः || यथाग्नेर्विष्फुलिंगाः व्युच्चरन्तीत्युपक्रमे | सर्व एते किनात्मानो व्युच्चन्तीति सश्रुतेः | उत्पद्यत इति प्राप्ते न जीवस्य समुद्भवः || यथा वाग्नेर्विष्फुलिङ्गाः निर्गच्छन्ति तथैव च | जीवानां निर्गमस्तस्मान्न विरोधोऽस्ति कश्चन || जीव स्वरूपः किं वा अत्माज्ञाता किं वेति संशयः | विज्ञानघन इत्याद्यैः प्राप्ता ज्ञान स्वरूपता || जातै वै ह्यधियोवेदेद जिघ्राणीति वाक्यतः | द्रष्टा श्रोता तथा मन्ता बोद्धेत्यादि श्रुतीरणात् || गुणस्य गुणिनो भेदाभिप्रायोदाहृताच्छ्रुतिः | किं जीवोणु परिमाणो मध्यमो वा महान् किमु || मध्यमं तु परीमाणं निरस्तं चार्हत क्रमे | उत्क्रान्तिगत्यागतीनां श्रवणादणुरेव सः || उत्क्रान्तिश्चावयवतो न विभोरूपपद्यते | लोकान्तरा ये गमनं पुनरागमनं तथा || गत्यागती स्वात्मनैव न भूतैः करणैर्वृतः || प्. १२३) स वा एव महान् वाक्यान्नाणुरात्मेति चेच्छृणु | परमात्माधिकारात्तच्छ्रुतेर्जीवोऽणुरेव हि || एषोऽणुरात्मा वाक्येन तथोन्मानेन चाप्यणुः | वालाग्रशतभागस्य शतधा कल्पितस्य च || भागो जीवः स विज्ञेयः सचानन्त्याय कल्पते || आराग्रमात्रो ह्यवरोपि दृष्ट इति वर्णनात् | नन्वणुत्वे तु जीवस्य सर्वदेहवतां कथम् || वेदनामुप लभ्येत तत्रेदं हठितं खलु | अविरोधश्चन्दनवच्चैतन्य गुण योगतः || अवस्थितेर्हि वैशेष्यादिति चेन्न तथा भवेत् | हृदये ह्यभ्युपगमात् न विरोधोऽस्तिकश्चन || गुणाद्वालोकवच्चात्र चैतन्यगुण योगतः | मणिप्रदीपादिकानां प्रभाव्याप्त्या यथाखिलम् || चैतन्य व्याप्तितः कृत्स्न देह व्यापित्व सङ्गतिः | कथं गुणस्तु गुणिनमन्तरा वर्तते यथा | न पट व्यतिरेकेण शुक्लो वर्तेत वै गुणः || प्रभादीप गुणोनेयं तेजोऽन्यद्विरलाङ्कम् | व्यतिरेको गन्धवत्तु चाप्राप्त कुसुमादिषु || चैतन्यस्य गुणस्यात्र व्यतिरेकस्तथाप्यणोः | ननु गन्धस्या श्रयेण सह विश्लेष एव चेत् || १२४) अपक्षयः प्रसज्येत तदा तु कुसुमादिसु | हीयते च गुरुत्वाद्यैस्तन्नैव परिदृश्यते || न चाल्पत्वाद्विशिष्टानां विशेषोनोप लभ्यते | स्फुटगन्धोपलब्धिस्स्यात्तर्हिलोके प्रतीयताम् || गन्धद्रव्यं मयाघ्रातमिति गन्धोमयेति च | तथा भावाद्यथा ज्ञानं गुणानां व्यतिरेकता || तथा च दर्शयत्येवमालोमभ्य इति श्रुतिः | चैतन्यस्य गुणत्वं न तस्यैवात्म स्वरूपता || चैतन्यस्यात्र व्याप्तित्वे जीव व्याप्तित्वमत्र चेत् | पृथक्तयोपदेशाच्च प्रज्ञयेत्यादि वाक्यतः || ननु ज्ञानगुणत्वेस्य विज्ञानमिति वाक्यतः | विज्ञान शब्द वाच्यत्वमिति तद्गुणसारतः | विज्ञान व्यपदेशः स्यात्प्राज्ञवल्लवणाब्धिवत् || तद्यावदात्मभावित्वाच्चादोषस्तस्य दर्शनात् | गोत्व वाचक गोशब्दात्तद्वद्गो व्यक्तिवर्णनात् || ज्ञानाभावात्सुषुप्त्यादौ यावदात्मत्वमत्र न | सतः पुंस्त्वादिवत्वस्याभि व्यक्तिरुपपद्यते || विद्यमानं यथा पुंस्त्वं बाल्यादौ कारणात्मना | यौवने चाविर्भवत्तत्सुषुप्तौ कारणात्मना | जाग्रदादावभिव्यक्तमतो दोषो न कश्चन || ज्ञातृत्वञ्च तथाणुत्वं सम्यगेव प्रसादितम् | विपत्ते ज्ञप्तिरूपत्वे विभुत्वे बाध उच्यते || प्. १२५) नित्योपलब्धिरथवारथवानुपलब्धिः प्रसज्यते | नियमोन्यतरस्याथ प्रसज्येतान्यथा पुनः || जीवः कर्ताथवा नेति संशये च समागते | साङ्ख्यास्तावद्वर्णयन्ति जीवः कर्ता न चेतिते || तस्याना धेयातिशयतया विरहतः कृतेः | असङ्गो ह्ययमित्याद्यैरसङ्गत्वोपवर्णनात् || तस्मिन्निमित्त संयोगा भावाच्चेति समीरितम् | बुद्धेरेव तु कर्तृत्वमिति प्राप्तेथ चोच्यते || शास्त्रार्थवत्वात्कर्ता स यजेत जुहुयादिति | शास्त्रै जीवस्य कर्तृत्वं सम्यगेव प्रतीयते || अन्यथा नर्थकं शास्त्रं स्यादेवं प्रतिपादिते | न चानाधेयातिशयतया भावः कृतेरिति || सुखाद्यतिशयेनात्र प्रत्यक्षेणोपलम्भनात् | अनाधेयातिशयत्वस्या सिद्धेरितीरितम् || नैवं निमित्त संयोग विरहः पठ्यतां त्वया | आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः || सम्यङ्निमित्त संयोग श्रुत्येति प्रतिपादितः | असङ्गत श्रुतिः सेयमस्य जीवस्य जाग्रति || स्वप्नदृष्टेन सम्बन्धाभाव दर्शनतः स्वयम् | नित्य संयोग विरहाभिप्रायेण समीरिता || तद्विहारोपदेशाच्च करणोपरतौ तथा | उपादानाच्च कर्तृत्वं क्रियायां व्यपदेशतः || विज्ञानं यज्ञमित्याद्यैर्न नु विज्ञान शब्दतः | बुद्धिः समीहिता तेन कथं जीवस्य कर्तृता || सूच्यतेति च नेत्युक्तं निर्देशो जीवरूपिणः | ननु बुद्धेर्जीव निर्देश स्यान्निर्देश विपर्ययः || विज्ञाने नेत्येवमेव निरदेक्षत्तदा श्रुतिः | क्रियाया अप्यनियमः प्रसज्येतोपलब्धिवत् || यदि बुद्धिर्हि कर्त्री स्यात्तदा शक्ति विपर्ययः | आप्नुयात्कर्तृ शक्तिञ्च त्यजेत्कारण शक्तिकाम् || आत्मनः कर्तृता भावे समाधिर्विरहो भवेत् | प्रकृतेः पुरुषस्यापि विवेक ज्ञानतस्तदा || बुद्धेरेवञ्च कर्तृत्वा भावादिति समीरितम् | यथा च तक्षोभयथा परादेव तु कर्तृता || एष ह्येवेत्यादि वाक्यैस्तस्य प्रेरकता श्रुता | नन्वीश्वरे प्रेर्यताचेन्नस्याज्जीवस्य कर्तृता || बलवत्सलिलौघेन ह्रियमाणेन कर्तृता | कृतप्रयत्न सायपेक्षे विहित प्रतिषेधयोः || यजेतेति न हन्तव्य इत्येवं समुपात्तयोः | अवैयर्थ्यादिभ्य इति शास्त्रं व्यार्थं तदन्यथा || प्. १२७) यथा वह्नेर्विष्फुलिङ्गा ईशांशो जीव ईरितः | सोऽन्वेष्टव्यादि वाक्येन नानात्व व्यपदेशतः || अन्यथा चापि वेदेषु चात्यन्ता भेद उच्यते | ब्रह्मदाशा ब्रह्मदासा ब्रह्ममेकितवा इति || हीनजात्युक्तितः सर्वं ब्रह्मेति समुदीरितम् | पादोऽस्य विश्वाभूतानीत्येवं ब्रह्मांश वर्णनात् || ममैवांशो जीवलोके जीवभूतः सनातनः | इत्यादि स्मृतिभिर्जीव ईश्वरांश उदाहृतः || नन्वीश्वरस्य जीवानामभेदे स्वीकृते सति | जीव दुःखेन दुःखीस्यादभेदाच्च तयोर्न च || परः प्रकाशादिवच्च स्वस्वरूप विशेषतः | स्मरन्ति च व्यासमुख्या जीवदुःखान्नचेश्वरः || दुःखीषु स्मृतिषुस्वैरं दुस्तरेण स्फुटार्थतः | तत्रयः परमात्मा हि स नित्यो निर्गुणः स्मृतः || न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा | कर्मात्मात्वपरो योऽसौ मोक्षबन्धैस्स युज्यते || तयोरन्यः पिप्पलं स्वाद्गतीत्याद्यैश्च तत्स्फुटम् | अनुज्ञापरिहारौद्वौ यजेतेति न भक्षयेत् || देह सम्बन्धतो ज्योतिरादिवद्देश भेदतः | ननु देहोत्तरं भावि फल साङ्कर्यमित्यतः || नासन्ततेश्च साङ्कर्यं तथा विधिनिषेधयोः | तेषां बहव आत्मानो भिन्नाः सर्वगताः पुनः || प्. १२८) तेषां सर्वात्मना सर्वदेह योगाविशेषतः | सुखदुःखादि साङ्कर्यादात्माभासास्त एव हि || सर्वेषां देह सम्बन्धाविशेषेऽपि तथा पुनः | तथा दृष्ट विशेषाश्च तत्र कस्यचिदेव हि || सुखादि योगो नान्येषामदृष्ट विरहादतः | न साङ्कर्यमतः प्राह चादृष्टा नियमादिति || अभिसन्ध्यादिकानाञ्च प्रधानगतता यदि | साधारण्यं पूर्ववत्स्यादात्म गत्वेपि वै पुनः || मनः संयोगाविशेषात्साधारण्यं तु केवलम् | विभुत्वेप्यात्मनः स्वस्व देहावच्छिन्न देशके || सुखादिकं संभवति न साङ्कर्यमतः परम् | प्रदेशादिति चेन्नान्तर्भावाज्जीवास्तदंशकाः || जीवेशयोस्तु सामान्या भेद एव समीहितः | तयोः स्वाभाविको व्यक्तिभेदः सर्वसमीहितः || किमिन्द्रियाणि जायन्त उतनेत्यत्र संशयः | एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च || इत्यादि स्मृतिषूत्पत्ति श्रवणादिति चेच्छृणु | न जायते यथावात्मा तथा प्राणेन्द्रियाण्यपि || तदुत्पत्ति श्रुतिर्गौणी प्राणोत्पत्तेरसंभवात् | अनेन जीवेनेत्यादि श्रुत्यर्थस्यानुसारतः || प्. १२९) तत्प्राच्छ्रुतेश्च गौण्येव प्राणावा ऋषयस्त्विति | तत्पूर्वकत्वाद्वाचश्च ततः सप्तेन्द्रियाणित्तु || गतेर्विशेषितत्वाच्च हस्तादय इमे पुनः | स्थिते ते नैवमन्तव्यो प्राणाः सप्तैव चेत्यतः | प्राणाश्चैतेणवः प्रोक्ताः स्थूलाश्चेन्मृत्तिकालतः || निर्गच्छन्तः शरीरात्ते बिलादहिरिव स्फुटम् | तच्छ्रेष्ठ पञ्चवृत्तिश्च मनोवद्व्यपदिश्यते || अणुश्च मुख्यप्राणोसौ न च वायुक्रिये पृथक् | उपदेशात्प्राण एव ब्रह्मणः श्रुतिवाक्यतः || जीवस्य कतृभोक्तृत्वे प्राणः स्याच्चक्षुरादिवत् | सर्वार्थत्वेन करणं नस्वतन्त्रः कदाचन || सहैव शिष्यते प्राणस्तत्र तैश्चक्षुरादिभिः | न दोषोकरणत्वाच्च तथा दर्शयति श्रुतिः || अधिष्ठानं ज्योतिरादेः तथा मननतः खलु | देवताश्चेदधिष्ठात्र्यस्तासां भोक्तृत्वमत्र चेत् || सत्याञ्चाधिष्ठातृतायां प्राणवत्करणावलेः | स्वामि नैव तु जीवेन सम्बन्धः श्रुतिचोदितः || अथ यत्रैतदाकाश मनुरूपा च सा स्मृतिः | तन्नित्यत्वाच्च जीवस्य न ह वै श्रुति चोदनात् | प्राणानां नित्यसम्बन्धो जीवेनैव समीरितः || प्. १३०) उत्क्रान्ति प्रलयादौ तदनुवृत्तेश्च दर्शनात् | तमुत्क्रान्तमित्यादि श्रुत्या तत्प्रतिपादनात् || अग्न्यादि प्राणसम्बन्ध अनित्य इति वर्णितः | अग्न्यादीनामभावेपि प्रलये प्राणसत्वतः || अग्न्यादीनां ततस्तस्मादधिष्ठातृत्वमिष्यते | श्रेष्ठात् प्राणात्तदन्यत्र पृथक्त्वव्यपदेशतः || प्राणात्तत्वान्तराण्येव वागादीनि तथा श्रुतिः | एतस्माज्जायते प्राणोमनः सर्वेन्द्रियाणि च || व्यपदिष्टः पृथक्प्राण एवमादि बहुश्रुतौ | वागादिभ्यश्च भेदेन पृथक्प्राण श्रुतेरिति || वै लक्षण्याच्च भेदः स्यात्तस्मात्तत्वान्तराणि हि | नामरूप व्याकरणं किंवा जीवैक कर्तृकम् | उतेश कर्तृकं वेति संशयेऽत्र समागते || संज्ञामूर्त्योरत्ररत्र कॢप्तिस्त्रिवृत्कुर्वत ईश्वरात् | सेयमित्यादि वक्क्यैस्तदुपदेशात्तथैव हि || तत्त्रिवृत्करणं भौममिदमाप्यमिति स्फुटम् | कथं विभागमाशंक्य ह्यध्यात्मञ्च विभाजनम् || भूमेर्व्रीह्यादि रूपायामासाद्या ध्यात्मकार्यकम् | लोहितादि तथैवापां तथैवास्थ्यादि तेजसः || तत्तद्वादस्तु वैशेष्यात्तत्तद्भाग विशेषतः | स्यात्तत्तद्व्यपदेशस्तु तस्मात्सर्वं समञ्जसम् || लिङ्गादेव व्याकरणं सर्वं तन्नाम रूपयोः | त्रिवृत्करणमित्यादि लिङ्गादेवेति साधितम् || प्. १३१) तस्माद्धृदम्बुजेधार्यं लिङ्गं ब्रह्म पदाभिधम् || || इति श्रीमद्विशिष्ठाद्वैत सिद्धान्त रहस्यैकोत्तरशतस्थलाभिज्ञ नीलकण्ठ कृते निगमागमसारसंग्रहे क्रियासारे द्वितीयोपदेशः || || अथत्रितृतोपदेशः || श्रीगुरुभ्यो नमः | स्मृति न्याय विरोधस्तु द्वितीये विनिवारितः | परपक्षानपेक्षत्वं सम्यगेव प्रपञ्चितम् || श्रुति विप्रतिषेधश्च सम्यक् पूर्वं परीहृतः | जीवस्या जन्यतादीनि जीवोपकरणानि च || प्रपञ्चितानि चेदानीं जीवे करणबृंहिते | संहारस्य प्रकारश्च तदवस्थान्तराणि च || ब्रह्मत्वं च तथा विद्या भेदाभेदौ ततः पुनः | गुणोप संहृतिश्चाथ तथैवानुपसंहृतिः || विद्यातः पुरुषार्थस्य सिद्धिर्विद्या विधिस्तथा | विधिप्रभेदा वक्ष्यन्ते तदङ्ग सहकारिणाम् || मुक्तिरूप फलस्यापि नियमश्चोदितः कृतौ | उपदेशे तृतीयेऽस्मिंश्चिन्त्यते बहुयुक्तिभिः || प्रसङ्गात्तं किमप्यन्यत् प्रथमं च प्रपञ्च्यते | पञ्चाग्नि विद्यामाश्रित्य गति क्षेदश्च संहृतेः || जीवो मुख्या न थ प्राणानिन्द्रियाणि स्वयं तथा | मनोविद्या कर्मपूर्वप्रज्ञाश्च परिगृह्य च || प्. १३२) पूर्वदेहं विहायासौ देहान्तरगतः खलु | भूतसूक्ष्मैः परिवृतो याति जीवो न वेति च || फलं यत्रानुभूयेत तत्र स्युर्भूतमात्रकाः | इत्येवं तदुपादानमनर्थकमिति ह्यतः || देहान्तर समापत्तौ देह बीजैश्च सूक्ष्मकैः | भूतैश्च संपरिष्वक्तो जीवोरंहति गच्छति || प्रश्नाद्वेति वाक्योक्तद्यौराद्याच्च निरूपणात् | पञ्चम्यामाहुतावापः इत्यद्भिः परिवेष्टितः || यातीति गम्यते सर्वैर्वेष्टितः कथमित्यतः | त्र्यात्मकत्वात्तु भूयस्त्वाद्बह्वापः शुक्ल शोणिते || इतश्च भूतगमनं प्राणानांगति वर्णनात् | निराश्रया हि प्राणानां न गतिर्भवतीत्यतः | प्राणानामग्न्यादिगतिर्न जीवेन सहेति चेत् || न भाक्तत्वात्तदग्न्यादि गमनं चौपचारिकम् | प्रथमेग्नौद्युलोकाख्ये श्रूयन्ते नाप इत्यतः || तच्छ्रद्धां जुह्वतीत्येवं श्रवणान्नाप इत्यतः | कथं वा तत्र पञ्चम्यामाहुतावाप ईरिताः || इति चेन्न हिता आपः श्रद्धा शब्देन वर्णिताः | उपपत्तेरन्यथा तद्वाक्यं नैवोपपद्यते | प्रयोग दर्शनाच्छद्धा वाह्याप इति तत्र च || प्. १३३) परिष्वक्ताश्च ते जीवा न रहं येरतच्छ्रुतेः | इति चेन्नेष्ट पूर्तादिकारिणां गति दर्शनात् || न च व्याघ्रादिभिरिव भक्षितानां च दैवतैः | उपभोगः सम्भवतीत्यतः प्राहात्र सूत्रकृत् || भाक्तं वा नात्मवित्वात्तथा हि दर्शयतीति च | कृतात्ययेऽनुशयवान् दृष्टः श्रुतिवचोद्वयात् || तथैतं तदनेवं च श्रुत्यैव प्रतिपादितम् | चरणादवरोहोक्तिः कथमत्रेति चेन्न च || कर्मोपलक्षणार्थासा चरण श्रुतिरित्यथ | कर्ष्णा जनिः किलाचार्यो मन्यते स्वयमत्र तु || आचारानर्थक्यमितित्त तस्यैव ह्यपेक्षणात् | आचारहीनं न पुनन्तिवेदाः आचारसंघाः किल हेतवः स्युः || आचाराः पतिधर्मास्ते शिवपूजादि लक्षणाः | बादरिः केवलं प्राह तथा सुकृत दुष्कृते || इष्टाद्यकारिणां पुंसामपि चन्द्रगतिः श्रुतौ | इष्टादिकारिणां चैव किं साम्यं तदकारिणाम् || इतरेषां संयमने दुःखमप्यनुभूय तु | स्यातामारोहा वरोहौ चन्द्र मण्डल इत्यपि || वै वस्वतं सङ्गमनमितिः प्राह श्रुतिः स्वयम् | स्मरन्ति चैवं यामीया यातना नाचिकेतके || प्. १३४) अपि चैते सप्त सङ्ख्या नरका रौरवादयः | दुष्कृत्य भोगभूतत्वेन स्मृताः पौराणिकैः पुनः || चित्रगुप्तादयोप्यन्येधिष्ठातारः स्मृताः कथम् | यमस्याधिष्ठातृतेति तद्व्यापार यतस्ततः || अविरोधो रौरवादावाज्ञा तत्र नियामिका | प्रकृतत्वात्तु तद्विद्या कर्मणोरिति सूत्रितम् || तु शब्दः पूर्वपक्षस्य निवृत्तौ वर्तते स्वयम् | इष्टाद्यकारिणां पुंसां चन्द्रारोहा वरोहणे || नस्तः कुतोवेत्थ यथा सौ लोकोनेति वै श्रुतेः | प्रश्न प्रत्युत्तरे वाक्येन श्रूयेते यतो उभे || अथैतयोर्नेति वाक्यादिति तत्रैतयोः पथोः | तद्विद्या कर्मणोरित्येतस्मात् प्रकृतत्वतः || ते विद्या कर्मणी देवयानाख्य पितृयानयोः | प्रकृते द्वेप्रतिपदौ तद्य इत्थं विदुस्त्विति || इष्टापूर्तेर्दत्तमिति कर्म तत्रार्थ वर्णनम् | विद्यया ये देवयाने कर्मणा पितृयानके || पुरुषा नैवाधिकृतास्तेषामेव उदाहृतः | क्षुद्र जन्तु स्वरूपो सकृदावर्त्यस्तृतीयकः || पन्था भवत्यतो निष्टकारिणां चन्द्रमण्डले | आरोहणा वरोहौद्वौ तृतीयस्थानके न च || प्. १३५) नियमः पञ्चसङ्ख्यायाः देह लाभाय कल्प्यताम् | अन्तरेणाहुतेः सङ्ख्या नियमं तु तृतीयके || देहप्राप्त्युपलब्धेश्च जायस्वेत्यादि वाक्यतः | चतुर्विधेमत ग्रामे श्रुत्या संप्रतिपादिते || जरायुजाण्ड संजात स्वेदजोद्भिज्ज लक्षणे | स्वेदजोद्भिज्जयोस्तत्र ग्राम्यधर्मान्वितानि च || उत्पत्ति दर्शनान्नैवाहुति सङ्ख्यायमः पुनः | खल्वेषामिति वाक्येन त्रिविधग्राम वर्णनात् || चातुर्विध्यं कथं वास्यादतः प्राहात्र सूत्रकृत् | वाच्य उद्भिज्ज शब्देन स्वेदजस्यापि संग्रहः || भूजलोत्पत्तिसाम्येन स्वेदजोद्भिज्जयोर्द्वयोः | तत्संभाव्यापत्तिरूपपत्तेरन्यस्य नान्यता || अत्राकाशादि प्रपत्तौ प्राग्व्रीहि प्रतिपत्तितः | संशयः किं दीर्घकालं पूर्व पूर्व समानता || उताल्पकालमिति च तत्र चानियमः पुनः | किञ्चिन्नियामका भावादिति प्राप्ते तथोच्यते || अल्पकालेनावरोह आव्रीहि प्राप्ति तत्र च | विशेषवचनाच्चातो वै खल्वित्यादि वाक्यतः || व्रीह्यादि भावादूर्ध्वञ्च दुर्निः सृतिरिति ब्रुवन् | पूर्वत्राचिरकालत्वं दर्शयत्यति संस्फुटम् || प्. १३६) जीवान्तराधिष्ठिते च व्रीह्यादौ श्लेषमात्रकम् | तत्रानुशायिनः सम्यग्वर्णयेरन्कुतः पुनः || आकाशादौ यथा कर्म सङ्कीर्तनमथान्तरा | अभिलापस्तथा त्रापि चाभिलापस्य दर्शनात् || अशुद्धमिति चेन्नैव शब्दादेव विधानतः | इतो व्रीह्यादि संश्लेषमात्रं व्रीह्यादि भावतः || अनन्तरं च रेतस्सिग्भाव आम्नायते श्रुतौ | मुख्येन रेतस्सिग्भावः संभवत्यत्र वै पुनः || सिक्छन्दार्थो रजोरूढ यौवनारेत एव हि | तत्कथं नोपचरितं पूर्वोक्तं किल वै पुनः || तत्तद्भावाद्यमानानानुशयी प्रतिपद्यताम् | रेतः सिग्योग एवातो रेतः सिग्भावा उच्यते || तद्वीह्यादि भावोपि व्रीहि संश्लेष मात्रकम् | योनेः शरीरं रेतः सिग्योगस्यानन्तरं स्त्रियः || योनेरधिशरीरं दर्शितं तद्य इहादिना | व्रीह्यादि संश्लेषमात्रे वाक्यं तदापि युज्यते || || तृतीये द्वितीयः पादः || जीवावस्था भेदजातमिदानीं तु प्रपञ्च्यते | उपक्रम्य स यत्र स्वापितीत्यामनन्ति च || स्वप्ने जीवोरथादीन् किं सृजत्येवोत पश्यति | प्. १३७) स्वप्नं स्थानं तृतीयन्तु सन्ध्यं श्रुतिषु दर्शनात् | भवेत्सन्धौ द्वयोर्लोक स्थानयोः सन्ध्यमुच्यते || तत्र सन्ध्ये सृष्टिरेव सृज इत्याह हि श्रुतिः | निर्मातारं चामनन्ति तत्र केचनशाखिनः || य एष सुप्तेष्वित्यादि कामाः पुत्रादयश्च ते | माया मात्रं तु कार्त्स्न्येनानभिव्यक्त स्वरूपतः || अनात्माभिनिवेशाच्चप्यैश्वर्यं तत्तिरोहितम् | अस्य जीवस्यात एव स्यातां बन्धविपर्ययौ || ऐश्वर्यस्य तिरोधानां देह सम्बन्धतोऽथवा | सूचकञ्च हि वेदोक्तात्तद्विदश्च प्रचक्षते | यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति || समृद्धिं तत्र जानीयात्तस्मिन्स्वप्न निदर्शने | कल्याणं कुजरारोहे तदन्यत्खर वाहने || स्वयं स्रष्टुं नार्हतीति स्वस्यैव शुभ सूचकम् | सुषुप्त्यवस्था चेदानीं सम्यगेव परीक्ष्यते | तस्य स्वप्नस्य चाभावः सुषुप्तिरिति कथ्यते || यद्यत्रैतत्सुप्तवाक्ये सृप्तो नाडीष्वितीरितम् | ताभिः प्रत्यवसृप्तेति प्रवेशश्च पुरीततौ || सता सोम्येति सम्पत्तिस्तदेति समुदीरितम् | नाड्यादीनि किमेतानि निरपेक्षाणि वै पुनः || प्. १३८) स्फुटं सुषुप्ति स्थानानि चान्योन्या पेक्षया किमु | सुप्तं समुच्चितेषु स्यान्नाडीष्वत्र हि तच्छ्रुतेः || नाड्यादीनां च सर्वेषां सुषुप्तिस्थानता श्रुतेः | पर्यङ्केशेत इति वच्छेतेऽसौ तु परीततौ || तत्समुच्चितमेवेदं स्थानं सुप्तेर्हि निश्चयः | यतः समुच्चितं स्थानं प्रबोधोऽस्माच्च नित्यवत् || प्रबोधोनन्तरोक्तस्तु चिन्त्यते सुप्तवांस्तुयः | स एवोत्तिष्ठतीत्येवमुतान्यो वा शरीरके || कर्मशेषाद्यनुष्ठानात् पूर्वेद्युः कर्म यत्कृतम् | परेद्युरनुसन्धाय कर्मण्येव प्रवर्तते || अनुस्मृतेः पूर्वशब्दाद्विधिभ्यश्चैक एव हि | मुग्धो नामास्त्ययं सर्वैर्मूर्छितश्चेति वर्णितः || चिन्त्यते किमवस्थः सः चतस्रश्चाप्यवस्थकः | प्रबोधः प्रथमः स्वप्नस्सुषुप्तिस्तदनन्तरम् || सम्पत्तिश्च तुरीयास्याज्जीवस्येत्येव वर्णिताः | नैव जागरितो मुग्धो विषयानीक्षणादिति || निःसंज्ञत्वान्न च रचप्नान् पश्यत्येष ततोऽपि न | प्राणोद्भवान्नापि मतः सुषुप्तो न विलक्षणम् || सप्तः प्रसन्नवदनो निमीलित निजेक्षणः | तन्मौग्ध्यमर्थसम्पत्तिः कर्मशेषे सतिक्षितौ || प्. १३९) प्रत्यागच्छद्वाङ्मनसमसति क्षिति मण्डले | प्राणोष्माणौ ततस्तत्र निर्गच्छत इति स्फुटम् || अत एवार्थ सम्पत्तिर्मूर्च्छेति परिकीर्तिता | ब्रह्मस्वरूपमधुना सम्यगेवोपवर्ण्यते | श्रुतयः सन्त्युभयथा सर्वकामादयोगुणाः || स गुणत्वेन निर्वाह्या सगुणत्वेन काश्चन | तद्ब्रह्मोभयलिङ्गं किं किमन्यतर लिङ्गकम् || स्वतश्चोभय लिङ्गत्वं परस्य ब्रह्मणो न हि | न ह्येकं वस्तु जगति रूप वच्चाप्यरूपि च || नास्तु तर्हि स्थानतो वा पृथ्व्याद्योपाधि योगतः | उपाधियोगतश्चापि न ह्यन्यादृश वस्तुनः || अन्यादृश स्वभावः स्यान्नस्वच्छः स्फटिकोमणिः | अलक्तकादि योगेनाप्य स्वच्छोभवति स्वयम् || अस्वच्छाभि निवेशस्य द्रुममात्रतया पुनः | नैवं तथोपाधि भेदाद्भिन्नत्वं ब्रह्मणः पुनः || स्यत्तस्योभयलिङ्गत्वमिति चेन्न तथा भवेत् | तत्प्रत्युपाधि भेदञ्च शास्त्रादुक्ता ह्यभिन्नता || अपि चैवं भेदविदा पूर्वका भेद वर्णनात् | तस्मान्नोभय लिङ्गं स्यादरूपि ब्रह्मकेवलम् | तादृक्छ्रुतेः प्रधानत्वादन्यच्चोपासनापरम् || प्. १४०) विवक्षितार्थवत्वं नेत्येवं तत्र व्यवस्थितिः | प्रकाशवच्च वैयर्थ्यं तन्मात्रश्रुतिराह च || दर्शयत्यथ यद्वाक्यं स्मर्यते याज्ञवल्क्यके | अनन्य विषयं कृत्वा मनोबुद्धि मतीन्द्रियम् || ध्येय आत्मा स्थिरोयोऽसौ हृदयेदीपवत् प्रभुः | एकोणुत्वादिरहित प्रकाशी ह्यत एव हि || सूर्यकादि वदित्येवमुपमा चोपपद्यते | एक एव हि भूतात्मा भूते भूते व्यवस्थितः || एकधा बहुधा चैव दृश्यते जल चन्द्रवत् | न सूर्यकादि तुल्यत्वं तद्वदग्र क्षणादिति || सूर्यादिभ्योपि मूर्तेभ्यः पृथग्भूतञ्च दूरतः | मूर्तञ्च दृश्यते तत्र प्रतिबिम्बोदयेपि च || नात्मा मूर्तो न चास्माच्च पृथग्भूतादुपाधयः | न विप्रकृष्टदेशाश्च सर्वगत्वादभेदतः || तस्मादयुक्तो दृष्टान्त इति तत्रोच्यते मया | युक्त एव हि दृष्टान्तः प्रकृतांशोपमायतः || तद्वृद्धि ह्रासभाक्त्वं हि विद्याज्जलगतं हि तत् | सूर्यस्य प्रतिबिम्बं हि जलवृद्धौ प्रवर्धते || ह्रसतीव तथा ह्रासे चलने चलतीव च | भेदे च भिद्यत इव न ह्येवं परमार्थतः || प्. १४१) तथात्वं भास्करस्यास्ति तत्वदृष्ट्या व धारय | तथैकमेव हि ब्रह्म देहान्तर्भावतः स्वयम् || तद्धर्मान् व्रजती वापि वृद्धि ह्रासादिकं तथा | दृष्टान्तदार्ष्टान्तिकयो रविरोधात्समञ्जसम् || तत्सृष्ट्वेत्यादि वक्येन ब्रह्मणो दर्शनात्तथा | नेति नेत्यादि वाक्यैश्च चैतावत्वं हि मूर्तता || प्रकृतत्वान्निविध्येत प्रपञ्चो न निषिध्यते | ततः परिच्छिन्नरूपाद्भूयिष्टं ब्रह्म केवलम् || श्रुतिर्ब्रवीति हि ब्रह्म प्रपञ्चात्मकमेव तत् | श्रुतिरव्यक्तमाहेयं न च क्वादि स्मरन्ति च || अव्यक्तोऽयमचिन्त्योऽय मित्यादि बहुशः श्रुतौ | अपि चैवं तमात्मानं ध्यान काले तु योगिनः || पश्यन्ति श्रुतिरत्रेयं ततः स्तुतमिति श्रुतिः | योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् || प्रकाशादेर्गुणस्यापि ब्रह्मणश्चाभिदा यथा | ब्रह्म प्रपञ्चयोरेवमभ्यासादै तदात्म्यके || सामानाधि करण्यञ्च साधयामीदमत्र हि | ना भेदे तस्य मुख्यत्वादन्यत्र गुणयोगतः | सामानाधिकरण्यं तद्बहुस्यामिति रूपतः || प्. १४२) तथा च सृष्टिर्न भवेदभिदाया मतः खलु | गुणत्वं न प्रकाशस्य किन्तु ब्रह्म स्वरूपता || विज्ञानमानन्द इति तथैव प्रतिपादनात् | दृष्टान्तो संप्रपन्नस्तद्दृष्टान्तो ध्यान कर्मणि || अभ्यासादेववक्तव्यो गुणोसौ ब्रह्मणस्त्विति | यः सर्वज्ञः सर्वविच्च यस्य ज्ञानमयं तपः || तमेवभान्तमित्यादौ ज्ञानकर्तृत्वमुच्यते | भातीति लट् प्रत्ययेन कर्तृत्वस्यैव वर्णनात् || तदैक्षतेत्यादि वाक्येश्रुतत्वाच्च तथैव हि | सत्यं ज्ञानमनन्तं च ब्रह्मेत्यत्रात एव हि || अनन्त ज्ञानपदयोः सामानाधिकरण्यकम् | अविरुद्धं तु चैवेदमभेदे किल तद्भवेत् || तथा हि लिङ्गमिति च तस्मात्सूत्रितवान् मुनिः | ज्ञाधातो ल्युट् प्रत्ययान्तो ज्ञप्त्यर्थोभाव साधनः || नायमत्र ज्ञानशब्दस्तथा चेत्प्रत्यय स्वरात् | आद्युदात्तो भवेदन्तोदात्तश्चाभिधीयते ततः || ज्ञानमस्यास्तीति तत्र मत्वर्थीयाच्प्रतीयते | ज्ञानवद्वचनस्तस्मादन्तोदात्तश्चितेस्त्विति | तथा चान्तोदात्त लिङ्गाद्ब्रह्म ज्ञानगुणं स्मृतम् || प्. १४३) तथा चान्तोदात्तलिङ्गाद्ब्रह्मज्ञानगुणं स्मृतम् | भेदाभेदाभ्युपगमे विरोध इति चेन्न हि || प्रामाणिकत्वेन तस्य विरोधाभाव उच्यते | यथाहेः कुण्डलमहिः कुण्डलं चोभयस्मृतेः || अहि कुण्डलयोर्भेदा भेदौ ब्रह्म प्रपञ्चयोः | सच्चा सच्चा भवदिति चोभय व्यपदेशतः || यथा प्रकाशाश्रयस्य चातपस्य च वै पुनः | तदाश्रयस्य सवितुः स्वरूपा भेद केपि च || तेजस्त्वेना भेद एवं ज्ञेयं ब्रह्म प्रपञ्चयोः | प्रकाशादेर्गुणस्यापि गुणिनो ब्रह्मणा यथा || भेदा भेदा वेवमेव ज्ञेयं ब्रह्म प्रपञ्चयोः | भेदाभेदौ विरुद्धौतौ कथं स्वीकुरुते बुधः || अभेद एव चाभ्यस्य सावयत्वात्समीहितः | तद्भेद व्यपदेशस्तु कल्प्यतामौपचारिकः || इति चेत्प्रतिषेधाच्च नेति नेति पुनः पुनः | उपासनार्थं सेतुत्वं पादवद्व्यपदिश्यते || कार्षापण चतुर्थांशस्तद्वत्पादः समीहितः | उन्मान व्यपदेशादि तन्नस्थान विशेषतः || प्रकाशभेदः प्रासाद गोपुराहाल भेदतः | प्. १४४) तद्वद्ब्रह्मण एकस्य चाद्यादि स्थानयोगतः | सम्बन्ध भेदता तस्य भेदोपि व्यपदिश्यते || एवं परोक्तहेतूंस्तु प्रोन्मथ्य बहुयुक्तिभिः | व्यासः सर्वात्मकत्वस्य साधकं हेतुमाह हि || तथान्यत्प्रतिषेधाच्च ब्रह्मसर्वात्मकं मतम् | अनेन सर्वगततायाम शब्दादिकश्रुतेः || आयामो व्याप्ति वचनो यावान्वायमिति श्रुतेः | ईश्वरात्फल संप्राप्तिः सर्वाध्यक्ष तया पुनः || देशकाल विशेषाभिज्ञत्वात्कर्मानुरूपतः | कर्मिणां फलदातासौ न कर्मान्वक्ष नश्वरम् || श्रुतत्वाच्चेश्वरादेव स वा एष श्रुतेः फलम् | धर्मं जैमिनिराचार्यो फलदातारमाहहि | उपपत्तेः श्रुतेश्चैव यजेतेत्यादि दर्शनात् || स चा पूर्वाख्य व्यापार द्वारा कर्मफलप्रदः | कर्म वैचित्र्यतस्त्तत्र फल वैचित्र्य संभवः || ईश्वरस्य त्वैकरूप्याद्वैषम्यं निर्घृणा भवेत् | अतो न फलदातृत्वं ब्रह्मणस्तूपपद्यते || वादरायण आचार्य फलमीश्वरतस्त्विति | कर्म कारयितृत्वेन फलवत्वेन च श्रुतेः || यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति || प्. १४५) तस्य तस्या चलां श्रद्धां तामेव विद धाम्यहम् | स तया श्रद्धया युक्तः तस्याराधनमीहते || लभते च ततः कामान् मयैव विहितान् हि तान् | इति गीतासु चोक्तत्वात्फलदाता महेश्वरः || || तृतीयाध्याये तृतीयः पादः || विज्ञेयं ब्रह्मणस्तत्वं प्रमाणादि च तत्वकम् | व्याख्यातं तदिदानीन्तु प्रतिवेदान्तमस्तिकिम् || विज्ञानभेदः किं नेति सम्यगत्र विचार्यते | प्रत्ययाः सर्ववेदान्ताः विज्ञानस्य च तत्पुनः || भवेत्तत्सर्व वेदान्त प्रत्ययं चैकमेव हि | चोदनाद्यविशेषाच्चाप्युपासीतेति रूपतः || गुणभेदाच्च विद्याया नानात्वमिति चेन्न च | एकस्यामपि विद्याया गुणभेदोपपत्तितः || न षोडशि ग्रहणतः तदग्रहणतस्तथा | अतिरात्र क्रतोर्भेदस्तस्माद्विद्यैक्यमेव हि || स्वाध्यायस्य तथात्वेन समाचारे तथा श्रुतेः | अधिकाराच्च सववत्तत्र तन्नियमो भवत् || वेदोविद्यैकतां वक्ति वेद्यैकत्वोपदेशतः | अद्यैकत्वेपि चान्यत्रोक्त गुणानां तथैव च || समाने चैव विज्ञाने उपसंहार एव हि | प्रयोजनैक्याद्विज्ञेयो विद्वद्भिर्विधिशेषवत् || प्. १४६) विद्यायास्तत्र नानात्वं त्वन्न इत्यादिक श्रुतेः | प्राणस्य कर्तृता तत्र कर्मतान्यत्र तन्न हि || न विभक्ति कृताद्दोषाद्भेदः स्याद विशेषतः | तथैवोद्गीत विद्येति सासमाख्या विशेषतः || परोवरी यस्त्वादिवन्नवा प्रक्रमभेदतः | अवशिष्टेति विज्ञेयं विद्यैकत्वं तदत्र चेत् || तदुक्तं पर इत्यादि सातिप्रक्रम भेदके | संज्ञाया दुर्बलत्वेन संज्ञैकत्वं तदत्र च || सत्सु प्रसिद्धभेदेषु ह्यग्निहोत्रादि कर्मसु | अस्ति काठक संज्ञैक्यमभिदा तत एव हि || व्याप्तेरोमित्यादिकस्य ह्युद्गीतं तद्विशेषणम् | सर्वभेदात्तदन्यत्र चानन्दाया इमे गुणाः || नहि प्रियशिरस्त्वादि उपचयापचयौ हितौ | भेदे संभवतस्तौ च स भेदो नोपपद्यते || इन्द्रियेभ्यः पराह्यर्था अर्थेभ्यश्च परं मनः | पुरुषान्न परं किञ्चित्सा काष्ठा सा परागतिः || पुरुषस्तु परोध्येयो नान्ये तत्रेन्द्रियादयः | ध्यातुः प्रयोजना भावात् पुरुषे तु प्रयोजनम् || इतश्च पुरुषोध्येय आत्मशब्दश्रुतेरपि | गृह्यते पर एवात्मा तत्रात्मा वा इति श्रुतौ || प्. १४७) यथा सदेव सोम्येति तादृगुत्तर वाक्यतः | अन्वयादिति चेद्ब्रह्म परं स्यादवधारणात् | बृहदारण्य शाण्डिल्यविद्या वाजसनेयिनाम् || समान एवं चाभेदान्मनोमय गुणादि मत् | सम्बन्धादेवमन्यत्राप्यध्यात्मं चापि दैवतम् || तस्यैतस्य तदेवेति श्रुतिर्दर्शयति स्वयम् | वीर्यासंभृतिरेवञ्च द्युनिवेशादि भूतयः || तत्र तत्रोपसंहार्या अधिदैवक्यभूतयः | ताण्डिनां ब्रह्मणे चापि विद्या पुरुषसंज्ञका || उक्ताः केचनधर्माश्च तैत्तिरीयक शाखिनः || तथा पुरुष यज्ञं च तस्यैवं विदुषः श्रुतौ | तैत्तिरीयोपसंहार्या धर्मा ये इतरत्र ये || किं वा नैवोपसंहार्या इत्येवं विशये सति | इतरेषामनाम्नानान्नोप संहरणं भवेत् | मन्त्रा वेधाद्यर्थभेदादाभिचारादि कर्मणि || विनियुक्ताः प्रवर्ग्यादौ नोपसंहार्यता ततः | अस्ति चाश्व इत्वारोमाणि रूपेयं ताण्डिनां श्रुतिः || हानं दुष्कृतमात्रस्य ज्ञानिनां प्रतिपादितम् | अथ कौषीतकी श्रुत्यामुभे सुकृत दुष्कृते || ये हानिनां तयोर्हानं सुकृतं ज्ञातयः प्रियाः | उपयन्त्य प्रियाः पापमिति तत्रैव वर्णितम् || प्. १४८) ज्ञानं क्वचित्तयोरेव विभागेन प्रियाप्रियैः | उपायनं च यस्या * ध्यानमेव ततः श्रुतौ || नोपायनं तत्र तूपायनं सन्निपतेन्न वा | तत्र च श्रावणा भावात् सन्निपातो न हीति चेत् || तथा विद्यान्तरत्वाच्च नोपसंहार एव चेत् | केवलायां चापि ज्ञानावुपायनमिदं भवेत् || तच्छेषत्वाधान वाक्यशेषस्तूपायनं पुनः | कुशानामविशेषेण वा नस्यत्यत्व संभवे || औदुम्बराः कुशाश्चेति वाक्यशेषाद्यथा पुनः | छन्दस्तुत्युपगानादि सादृश्यं प्रतिपादितम् || एवं श्रुत्यन्तरोपात्तोपायनं प्रतिपादितम् | तथा ह्यन्येसांपराये तर्त्रव्य विरहादिति | विदुषां छन्दतश्चोभयाविरोधात् तथैव च || साम्पराये व्यध्वनि वा हानं सुकृत पापयोः | ननु स्यात्सांपरायेपि हानं सुकृत पापयोः || अनर्थिका गतिस्तर्हि सा कल्या तत्कृते पुनः | सर्वगत्वेन च ब्रह्म प्राप्तेर्गत्यनपेक्षणात् || अन्तरेणगतिं चात्र ब्रह्मप्राप्तेरसंभवात् | सार्थागतिश्चोभयथाप्यन्यथा हि विरोधकः || प्. १४९) तल्लक्षणार्थोपलब्धेर्गतेरर्थस्तु सङ्गतः | विज्ञानानां च सर्वेषां देवयानाङ्गता मता || यरैव श्रूयतेत्रैवेत्येवं चानियमः खलु | न च श्रुति विरोधोस्ति तद्य इत्थं विदुस्त्विति || शब्दानुमाने चैवोभे चोक्तार्थ प्रतिपादके | शुक्ल कृष्णे गतीह्येते जगतः शाश्वते मते || एकया यात्यनावृत्तिमन्यथा वर्तते पुनः | अधिकारवतां यावदधिकारमवस्थितिः | सुकृतस्य च पापस्य पूर्वोक्तस्यापवादकः || अधिकारं समाप्यैते प्रविशन्ति परं पदम् | ताः सर्वत्रावरोद्धव्याः सर्वास्तु क्षरबुद्धयः || सामान्य तद्भावतश्च तदौपसववन्मतम् | उद्गातृशाखासिद्धानामध्वर्युर्योग उच्यते || पुरोडाश प्रदानं तत्प्रोक्तमध्वर्युकर्तृकम् | प्रधानतन्त्रताङ्गानामिहात्यक्षर तन्त्रता | यत्रापि तद्विशेषाणामक्षरेणैव योजना || इयदामननाद्द्वासुपर्णावित्यादि मन्त्रके | ऋतं पिबन्ता वित्यादि मन्त्रे चाथर्वशाखितः || विद्यैक्यं किल नानात्वं प्राप्तं विद्याभिदा इति | विद्यैकत्वमथाम्नानाद्द्वित्वोपेतस्य केवलम् || प्. १५०) विद्यैक्यत्वं स्वात्मनश्च भूतग्रामवदन्तरा | विद्यैक्यत्वे प्रतिवचो भेदासङ्गतिरत्र चेत् || नोपदेशाच्च विद्यैक्यं यथा तत्वमसीति हि | व्यतिहारो विशिंषन्ति हीतरे तु गुणा यथा | सैवसत्यादयो ह्यत्र चैकस्मिन् संहृताः पुनः || तत्रायतन साम्येन कामादन्यत्र तत्र च | कामानामुपसंहारं विद्यैकं च विदुर्बुधाः || अलोप आदराज्ज्ञेयो वैश्वानर समाह्वये | उपस्थितद्वचनात्तद्यद्भक्तमिति श्रुतेः | प्राणाग्निहोत्र लोपः स्याद्भोजने लोप एव चेत् || क्रतौ कर्माङ्गविज्ञानस्य स्यादनियमः स्फुटम् | तद्दृष्टेर्वेद वचनैः पृथक्कर्मफलं भवेत् || प्रतिबन्धोनैवकर्म फलसिद्धाविति स्फुटम् | प्रधानवत्तदुक्तं स्यात् संवर्गोपासने पुनः || लिङ्गभूयस्त्वतस्तद्धि बलीयस्तदपि स्फुटम् | पूर्वो विकल्पः प्रकरणात्स्यान् मानसवत्क्रिया || अतिदेशाच्च विद्यैव न क्रियाशेष ईरितः | तद्विद्याचित एवेति स्फुटं निर्धारणात्पुनः || दर्शनाच्चापि श्रुत्यादि बलीयस्त्वान्न बाधनम् | अनुबन्धादिभ्य अत्र प्रज्ञान्तर पृथक्त्ववत् || प्. १५१) दृष्टश्च राजसूयादौ तदुक्तं पूर्वतन्त्रके | मानसग्रह सामान्यात् क्रत्वङ्गत्वं न चेष्यते || पुरुषार्थत्वोपलब्धेर्यथाग्ने मृत्युतोच्यते | असौ वा वेत्यादि मन्त्रेन लोकस्याग्नि भावता || तत्परेण च शब्दस्य ताद्विध्यं लक्ष्यते पुनः | भूयस्त्वात्वनुबन्धश्च न कर्माङ्गतया पुनः || ततो मनश्चिदादीनां सिद्धाविद्यात्मतैव हि | शरीरव्यतिरिक्तात्मा स्फुटं चेह प्रसाध्यते || अत्रैकमाहुश्चैतन्यादयस्त्वभिमताः पुनः | आत्मधर्मतया चान्तर्देहेनैव बहिः पुनः || तस्मात्ते देह धर्माः स्युश्चैतन्याद्या गुणाः पुनः | तस्माच्छरीरमात्मेति प्राप्ते सूत्र कृदुक्तवान् || व्यतिरेकस्तु तद्भावा भावित्वान्नोपलब्धिवत् | देहान्य आत्मा विज्ञेय इति सिद्धमतः स्फुटम् || नैते चाङ्गावबद्धास्तु प्रतिवेदं तथैव च | व्यतिष्ठेरंस्तु शाखासु चाविशेषाच्छ्रुतेः पुनः || मन्त्रादिवद्वाविरोधः शाखान्तरगतं परम् | समस्तस्यैव भूम्नश्चोपासनं तु प्रमाणवत् || सर्वाङ्गयुक्तदर्शादि क्रतुवच्च समीरितम् | प्. १५२) तथा हि दर्शयत्येषा ज्यायस्त्वं श्रुतिरेव हि | भिन्नान्येवोपासनानि तत्र शब्दादि भेदतः || अविशिष्ट फलत्वाच्च विकल्पन्यायय अत्र हि | यथाकामं समुच्चीरन् काम्यास्तु किल तन्न वा || पूर्वहेतोरभावेन चेच्छानुष्ठान सङ्गतेः | उपासनाङ्गावबद्धा समुच्चेयाथवानवा || सथाश्रयाः पदार्थाः समुच्चीयन्ते तदाश्रयाः | प्रत्यया अपि चैवञ्च शिष्टेश्चापि तथा भवेत् || समाहाराच्च तत्रैवं गुणसाधारणश्रुतेः | न यथाश्रय भावो वा तत्सभावाश्रुतेरिति || प्रत्ययाः सहभावस्य दर्शनाच्चश्रुतौ पुनः | तस्मादपि यथा काम्यमित्येवञ्च प्रपञ्चितम् || || चतुर्थः पादः || वेदान्तजन्यवाक्यस्य पुरुषार्थैक हेतुता | सहकारि विभेदाश्च निरूप्यन्ते मयाधुना || वेदान्त जन्याद्विज्ञानात् पुरुषार्थो हि सिद्ध्यति | बादरायण आचार्यो मन्यते तरति श्रुतेः || कर्तृत्वेनात्मनः कर्मशेषत्वाज्ज्ञानमप्यथ | आज्यावेक्षणवत्कर्तृ संस्कारश्च तथा श्रुतिः || यदाङ्क्ते चक्षुरेवादिरर्थवादो यथा तथा | प्. प्. १५३) आचारदर्शनाज्ज्ञानं कर्माङ्गं तच्छ्रुतेरपि | समन्वारम्भणाद्विद्या कर्माङ्गमिति निश्चितम् || विद्यावतां कर्मविधेर्विद्या कर्माङ्गमीरितम् | नियमाच्चायुषः सांगे विनियोगाच्च कर्मणि | विद्याकर्माङ्गमित्येव विद्यायास्तु स्वतन्त्रतः || फलसाधनतायाञ्च कालाभावेन केवलम् | विद्यानुष्ठान विरह प्रसङ्गाच्च ततः पुनः | न विद्या पुरुषार्थस्य हेतुरित्यत्र चोच्यते || जीवाधिकोपदेशात्तु तस्यकर्मण्यकर्तृता | न तज्ज्ञानस्य संस्कार तथैवं तत्फलश्रुतेः || अर्थवादत्वमुचितं तथादर्शयति श्रुतिः | यः सर्वज्ञः सर्वविच्च यस्य ज्ञानमयं तपः || तद्बादरायणमतंमति युक्ततरं हि तत् | तुल्यन्तु दर्शनं विद्याङ्गत्वेनापि च कर्मणः || आचारस्योपपत्तेश्च कर्माङ्गत्वं न तावता | तदसार्वत्रिकं यच्च विद्ययेत्यादिकश्रुतेः || वीर्यवत्तरता यत्र विषयाः कर्मणः पुनः | तत्र कर्माङ्गविद्या सा या विद्यातु फलान्तरा || मोक्ष प्रयोजनाच्चैव न तदङ्गमिति स्फुटम् | समन्वारम्भणं शब्दादिभ्य इत्येव वर्णितम् || प्. १५४) शतञ्च दक्षिणेत्युक्ते ऋत्विग्भ्यः प्रविभज्य च | दीयते तद्वदेवात्र विभागः परिकीर्त्यते || अधीत्य आचार्यकुलत इत्यत्राधीतिमात्रतः | कर्माधिकारः प्रोक्तः स्यान्नैव विद्यावतः खलु || दृष्टत्वेनाधीति विधेरर्थबोधोपि कारणम् | अतोविद्यावत.ः पुंसः अधिकारो न चान्यथा || सत्यं कर्मावबोधस्तु ब्रह्मबोधस्यनाङ्गता | न हि क्रत्वन्तर ज्ञानं क्रत्वन्तरमपेक्षते || एवं विधा न कर्माङ्गं किन्तु कर्मावबोधनम् | कुर्वन्नेवेह कर्माणीत्यादौ तत्र प्रमाणके || विद्यासाधारणं कर्म तथानुष्ठेयमात्रकम् | कर्मशब्देन संप्रोक्तं न काम्यमविशेषतः | स्तुतयेऽनुमतिर्वापि कर्मयज्ञादिकं यदि || विद्यायाः पुरुषार्थस्य हेतुता न निषिध्यते | उत्तरस्मिन् तथा वाक्ये फलहेतुत्व वर्णनात् || कामकारेण चाप्येके उपमर्दं च केचन | आश्रमेषूर्ध्वरेतः सु विद्यैव श्रूयते स्फुटम् || न काम्यानि तु कर्माणि तेषु सन्ति महात्मसु | विद्या ततो न कर्माङ्गमित्येवं श्रुतिराह हि || धर्मस्कन्धास्ततो यज्ञोऽध्ययनं दानमेव च | प्. १५५) प्रथमस्तप एवासौ द्वितीयो ब्रह्मचर्यवान् | तृतीयोत्यन्तमात्मानमाचार्ये चावसादयन् || सर्व एते पुण्य लोका भवन्तीति श्रुतीरणात् | ब्रह्म संस्थोऽमृतत्वं च तथैतीति च दर्शनात् || ऊर्ध्वरेत स्वाश्रमोक्ताः कृतप्रायाः श्रुतीरिताः | अतश्च वीरशैवानां मतमभ्यर्हितं श्रुतम् || परामर्शं जैमिनिश्च तथैवाचोदनादिति | वीरहा वेत्यादि वेदास्तस्यैवापवदन्ति हि || गार्हस्थ्यवत्वनुष्ठेयमाश्रमान्तरमित्यपि | साम्यश्रुतेर्मन्यते च मुनिर्वै बादरायणः || विधिर्वायं धारणावत् यथा द स्थादिति स्थले | विधिराश्रीयते तद्वद्विधिरत्रापि गीयते || ऐकाश्रम्यंत्विति प्राह गौतमोपि स्वधर्मके | प्राह्लादिहादि वाक्ये च बोधायनमुनिस्तथा || तथाश्रमान्तराणां चाप्यदृष्टत्वमपी पठत् | कथं गृहाद्वनाद्वेति प्रत्यक्षेणाप्यवस्थिते || आपस्तम्ब प्रभृतयः प्रव्रजेद्ब्रह्म चर्यवान् | तस्याश्रम विकल्पं चाप्येके व्रूत इत्यपि || अत एवाश्रमाचारराहित्यं वीरशैवके | अत्याश्रमीयधर्माश्च बहवो भान्तिचागमे || प्. १५६) त एव चर्षिभिर्दृष्ट्वा स्वस्वधर्मेषु निर्मिताः | अतोपि वीर शिवानामाचारा वैदिकोत्तराः || अतः पूर्वं मयाप्रोक्तं पाशवं कर्मणां पुनः | ब्रह्मज्ञानेन मुक्तेस्तु प्राप्यत्वं नान्यथा पुनः || पाकस्य वह्निवज्ज्ञानं विना मोक्षो न सिध्यति | इति मुष्माभिरेवोक्तं तथैवागम संहिताः || ज्ञान प्राबल्यतां प्राहुः कर्मणां नाङ्गता पुनः | वागद्वैतं न कार्यं हि कार्यमाचरणेपि च || अत एवाहुरमृतं लिङ्गं काटमिति स्फुटम् | अष्टावरण विज्ञाना पञ्चाचारानु वर्तिनाम् || उद्गीत विद्यासाम्येन वीर्यवत्त्वं प्रयाति हि | वीरशैवाचारसंघो वीर्यवत्तर उच्यने || अभेदं च पुरस्कृत्य धर्मास्तेषु च वर्णिताः | गुरुलिङ्गं जङ्गमं च त्रितयं चैकमेव हि || अत एव पदोदाभिषेचनं शिवलिङ्गके | कुर्वन्त्यभेद दृष्ट्या च भेदकृत्पापमश्नुते || मनोयस्य तु संलग्नं शिवे चैव चरे गुरौ | स विज्ञानी च वेदान्त ज्ञानीश्रुत विभागवान् || ये भेद दृष्ट्या मर्त्यत्वं गुरोर्लिङ्गस्य चान्यथा | कल्पिता हि ततस्त्वास्ते तत्वज्ञान पराङ्मुखाः || प्. १५७) गुरोः चरस्यचाभेदं लिङ्गस्य च तथा भिदाम् | यो जानाति स एवासौ नीलकण्ठो भवेद्बुधः || अस्मात्प्रमाणजालं तु जागर्तूकिरणागमे | युष्मत्स्मृति पुराणेषु विस्तरेणैव वर्तते || स्तुतिमात्रमुपादानादिति चेन्न हि तत्तथा | अपूर्वत्वात्तदुद्गीथां पासनोक्त परार्ध्यता || पारिप्लवार्था इति चेदाख्यानश्रुतयः पुनः | विशेषि तत्वात्पारि प्लवमाचक्षीत च श्रुतौ || पारिप्लवार्था नैषेति सम्यगेव सुनिश्चितम् | एक वाक्योपबंधाच्च तथाचाख्यायिकाः पुनः | अत एवागमेष्वेवमुक्ता आख्यायिका इति || निगमागमसारूप्यं स्फुटमेवाभवत्ततः | इदानीं चिन्त्यते विद्या कर्मसापेक्षणा नवा || विद्यायाः पुरुषार्थस्य हेतुतायाञ्च केवलम् | अग्नीन्धनादि कर्मानपेक्षास्यादिति चेच्छृणु || सर्वापेक्षा च यज्ञादि श्रुतीरश्ववदीरिता | शान्तिदान्त्याद्युपेतस्यत्तत्तथापि तु तद्विधः || विद्याङ्गत्वेन दान्त्यादि विधेस्तस्मादितिश्रुतेः | तेषामावश्यक तयानुष्ठे यत्वात्तथैव हि | कर्मापेक्षैव विद्येति राद्धान्तितमभूत्तथा || प्. १५८) श्रूयते प्राणसंवादे छान्दोग्ये न हवा इति | एवं विदीत्यादि वाक्यात् किञ्चनानं नमित्यपि || सर्वमस्यादनीयञ्च भवतीत्यर्थः ईरितः | सर्वान्नानुज्ञानमिदं किं मादिवदुच्यते || विद्याङ्गं वोत स्तुत्यर्थं किं वा सङ्कीर्त्यते पुनः | किं तावत्प्राप्तमधुना तावद्विधिरिति स्थितम् || उपदेशः सत्प्रवृत्ति विशेषकर उच्यते | अत एव प्राणविद्या सन्निधानात्तथा पुनः || तदङ्गत्वे न नियम निवृत्तिरूप दिश्यते | भक्ष्याभक्ष्यविवेकार्थ शास्त्र व्याघात एव चेत् || बाधोपपत्तेः सामान्य विशेषोद्भावनादिति | एवं प्राप्ते वयं ब्रूमः तत्वमार्गानुसारतः || सर्वान्नानुज्ञानमिदमत्र नैव विधीयते | श्रुतावथ विभक्तिर्न युक्तं कल्पयितुं न च || अशक्यार्थ विधानत्वात्स्वादि मर्यादमत्र हि | प्राणस्यान्नं तथैवोक्त्वा नैवं विदिति किञ्चन | अनन्नं भवतीत्येवं छान्दोग्योप निषच्छ्रुतिः || नश्वादि मर्यादमन्नमुपभोक्तुं हि शक्यते | प्राणस्यान्नमिदं सर्वमिति चिन्तयितुं पुनः || तस्मात्प्राणाग्नि विज्ञान प्रशंसार्थोयमत्र हि || प्. १५९) सर्वान्नानुज्ञानविधिस्तदेतन्नेति निर्णयः | परस्यामपदि पुनः सर्वस्याप्यदनीयता || आहारशुद्धौ सत्वस्य शुद्धिरित्येवमादिका | श्रुतिर्न बाध्यते तस्मादपि च स्मर्यते पुनः || विदुषो विदुषश्चाविशेषेणैव बहुस्थले | जीवितात्ययमापन्नो योन्नमत्ति यतस्ततः || न लिप्यते स पापेन पद्मपत्रमिवांभसा | शब्दश्यातो कामकारे ह्यनन्न प्रतिषेधकः || विहितत्वादाश्रमोक्तकर्ममोक्षैक साधनम् | सहकारितया चापि पुरुषार्थैक हेतुता || नान्यः पन्थेति वाक्येन मार्गान्तर निषेधतः | अत्याश्रमीयधर्मास्तु वीरशैवे समीरिताः || तेषां विद्याङ्गता प्रोक्ता नान्यथेति हि निश्चयः | त एवोभयलिङ्गत्वात् सर्वथापीति निश्चयः || ब्रह्मचर्यादिसम्पन्ने क्लेशानभि भवश्रुतेः | अन्तरापितु तद्दृष्टेरपि च स्मर्यते पुनः || विशेषानुग्रहश्चापि विधायाः संभवेत् पुनः | जप्ये नैव तु संसिद्ध्येज्ज्ञानवान्नात्र संशयः || कुर्यादन्यन्नवा कुर्यान्मित्रज्ञानी स उच्यते | लिङ्गार्चातस्तु तज्ज्यायः अपवर्गैकसाधनम् || न चाधिकारि कर्मापि पतनस्थानुमानतः || प्. १६०) तदयोगाच्च सर्वं तदुक्तमत्रसमञ्जसम् | उपपूर्वमपित्वेके मधुमांसाशने यथा || व्रतलोपश्च संस्कार अभावस्तद्वदुच्यते | बहिःस्तूभयथाप्यत्र स्मृतेराचारतोपि च || फलश्रुतेः स्वामिन इत्यात्रेयो मन्यते पुनः | एवं वृष्टौ पञ्चविधौ सामोपास्त इति श्रुतेः || आर्त्विज्यमित्यौडुलोमिः तत्परिक्रीयते यतः | श्रुतेश्च यां वै कां चेति यजमानस्य तत्फलम् || सहकार्यन्तर विधिर्बृहदारण्यके पुनः | पाण्डित्य बाल्य मौनानां विधिरेव विभक्तितः || पक्षेण तृतीयं तद्वतो विध्यादिवत्पुनः | कृत्स्नभावात्तु गृहिण उपसंहार उच्यते || उपदेशान्मौन वदितरेषामपि च स्फुटम् | बालो यथानाविष्कुर्वन्नन्वियात् स्फुटमेव हि || प्रस्तुतात्प्रतिबन्धे तद्दर्शनादैहिकं पुनः | तस्माद्राद्धान्तितं चैवमिहवामुत्रवा फलम् || अपवर्गफलत्वं हि विधाया ब्रह्मणो न वा | नेति तावत्प्राप्तमभूद्ब्रह्म विद्याविदामपि || वामदेवादिकानाञ्च तज्जन्मान्तरदर्शनात् | एवं प्राप्ते वयं ब्रूमस्तदवस्थावधारणात् || तस्य तावदिति श्रुत्या चाथ संपत्स्य इत्यपि | प्. १६१) प्रारब्ध कर्मणिक्षीणे त्वपवर्गस्य वर्णनात् | वामदेवादिकानां च प्रारब्धेनैव कर्मणा || देहान्तरारम्भणाच्च प्रारब्धस्य तु संक्षये | मुक्तिरित्य विरोधस्तु सम्यगेव निरूपितम् || वीरशैवोक्त धर्मास्तु ब्रह्मविद्योपयोगिभिः | नैव स्युः पशुधर्मास्ते श्रुताः कामफलप्रदाः | सामरस्य च लिङ्गस्य तथैवाङ्गस्य च द्वयोः || अस्मिन्नर्थे प्रमाणानि शेवेषु प्रसरन्ति हि | साध्य साधनखण्डे तु मुनीनां प्रश्नरूपतः || बन्धमोक्ष स्वरूपञ्च ब्रूहि सर्वार्थवित्तम | बन्धं मोक्षं तथोपायं वक्ष्येहं शृणुतादरात् || प्रकृत्याद्यष्ट संबन्धेन बद्धो जीवः स उच्यते | प्रकृत्याद्यष्ट बन्धेन निर्मुक्तोमुक्त उच्यते || प्रकृत्यादि वशीकारो मोक्ष इत्युच्यते बुधैः | बद्धजीवस्तु निर्मुक्तो मुक्तजीवः स उच्यते | प्रकृत्यग्रे ततो बुद्धिरहङ्कारो गुणात्मकः || पञ्चतन्मात्रमित्येते प्रकृत्याद्यष्टकं विदुः | प्रकृत्याष्टजं देहं देहजं कर्म उच्यते || पुनश्च कर्मजं देहं तज्जं कर्मपुनः पुनः | शरीरं त्रिविधं ज्ञेयं स्थूलं सूक्ष्मञ्च कारणम् || प्. १६२) स्थूलं व्यापारदं प्रोक्तं सूक्ष्ममिन्द्रियभोगदम् | कारणं त्वात्मभोगार्थं जीवकर्मानु रूपतः || सुखदुःखैः पुण्यपापैः कर्मभिः फलमश्नुते | तस्माद्धि कर्मरज्ज्वादि बद्धो जीवः पुनः पुनः || शरीरत्रय कर्मभ्यश्चक्रवद्भ्राम्यते सदा | चक्रभ्रमनिवृत्त्यर्थं चक्रकर्तारमीडयेत् || प्रकृत्यादि महाचक्रं प्रकृतेः परतः शिवः | चक्रकर्ता महेशो हि प्रकृतेः परतो यतः || पिबतीवाथ वमति जीवा लालाजलं यथा | शिवस्तथा प्रकृत्यादीन् वशीकृत्वा हि तिष्ठति || सर्वं वशीकृतं यस्मात्तस्माच्छिव इति स्मृतः | शिव एव हि सर्वज्ञः परिपूर्णश्च नित्यशः || सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः | अनन्तशक्तिश्च महेश्वरस्य षण्मानसैश्वर्यमवेतिवेदः || अतः शिवप्रसादेन प्रकृत्यादिर्वशे भवेत् | शिवप्रसादलाभार्थं शिवमेव प्रपूजयेत् || निःस्पृहस्य च पूर्णस्य तस्य पूजा कथं भवेत् | शिवोद्देशकृतं कर्म प्रसादजनकं भवेत् || लिङ्गबेरे भक्तजने शिवमुद्दिश्य पूजयेत् | कायेन मनसा वाचा धनेनापि च पूजयेत् || प्. १६३) पूजया तु महेशोहि प्रकृतौ परमः शिवः | प्रसादं कुरुते सत्यं पूजकस्य विशेषतः || शिवप्रसादात्कर्माद्यं क्रमेणैव वशं भवेत् | कर्मारभ्यप्रकृत्यन्तं यदा सर्वदशं भवेत् || तदामुक्त इति प्रोक्तः स्वात्मारामो विराजते | प्रसादात्परमेशस्य कर्मदेहं यदावशम् | तदा वै शिवलोके तु वासः सालोक्यमुच्यते || समीपं याति साम्बस्य तन्मात्रे च वशंगते | तत्सामीप्यंमिति प्रोक्तं शिवस्यैव प्रसादतः || पुनः शिवप्रसादेन स्वाहंकारे वशंगते | तदा तु शिवसारूप्यमायुधाद्यैः क्रियादिभिः || महाप्रसादलाभेन बुद्धिश्चापि वशे भवेत् | बुद्धिस्तु कार्य प्रकृतिस्तत्सार्ष्टिरिति कथ्यते || पुनर्महाप्रसादेन प्रकृतिर्वश मेष्यति | शिवस्य मानसैश्वर्यं तदा लब्धं भवेत्स्वतः || सर्वज्ञाद्यं शिवैश्वर्यं लब्ध्वा स्वात्मनि राजते | तत्सायुज्यमिति प्राहुर्वेदागम परायणाः || एवं क्रमेण मुक्तिः स्याल्लिङ्गादौ पूजयास्वतः | अतः शिवप्रसादार्थं क्रियाद्यैः पूजयेच्छिवम् || शिवक्रिया शिवतपः शिवमन्त्रजपः सदा || प्. १६४) शिवज्ञानं शिवध्यानं उत्तरोत्तरमभ्यसन् | आ सुप्तेरामृतेः कालं नयेद्वै शिवचिन्तया || सत्यादिभिश्च कुसुमैरर्चयञ्छिवमेष्यति | इति श्रुत्वा तु तत्सर्वं मुनयः पुनरब्रुवन् || लिङ्गादौ शिवपूजाया विधानं ब्रूहि सुव्रत | लिङ्गानां च क्रमं वक्ष्ये यथावच्छृणुतादरात् || तदेव लिङ्गं प्रथमं प्रणवं सार्वगामिकम् | सूक्ष्मं प्रणवरूपं हि सूक्ष्मरूपं तु निष्कलम् || स्थूललिङ्गं तु सकलं तत्पञ्चाक्षरमुच्यते | तयोः पूजाजपः प्रोक्तः साक्षान्मोक्षप्रदे उभे || पुरुष प्रकृति भूतानि लिङ्गानि सु बहूनि च | तानि विस्तरतो वक्तुं शिवः कर्ता न चापरः || भूविकाराणि लिङ्गानि ज्ञातानि प्रब्रवीमिवः | स्वयम्भु लिङ्गं प्रथमं बिन्दुलिङ्गं द्वितीयकम् || प्रतिष्ठितं चरं चैव गुरुलिङ्गं च पञ्चकम् | देवर्षि तपसा तुष्टः सान्निध्यार्थं तु तत्र वै || पृथिव्यन्तर्गत शर्वोबीजं वै नादरूपतः | स्थावराङ्कुरवद्भूमिमुद्भिश्च व्यक्त एव सः || स्वयं भूतं जातमिति स्वयंभूरिति तद्विदुः | तल्लिङ्ग पूजया ज्ञानं स्वयमेव प्रवर्धते || प्. १६५) सुवर्ण तकटादौ वा पृथिव्यां स्थण्डिलेपि वा | स्वहस्ताल्लिखितं लिङ्गं शुद्धं प्रणव यन्त्रयकम् || यन्त्रलिङ्गं समारभ्य प्रतिष्ठावाहनं चरेत् | बिन्दुनादमयं लिङ्गं स्थावरं जङ्गमं च यत् || भावनामयमेतद्धि शिवो द्रष्टा न संशयः | यत्र विश्वस्यते शम्भुस्तावत्तस्मै फलप्रदः || स्वहस्ताल्लिखिते यन्त्रे स्थावरा दा व कृत्रिमे || आवाह्य पूजयेच्छम्भुं षोडशैरूपचारकैः | स्वयमैश्वर्यमाप्नोति ज्ञानमभ्यासतो भवेत् || देवैश्च ऋषिभिश्चापि स्वात्मसिद्ध्यर्थमेव हि | समन्त्रेणात्महस्तेन कृतं यच्छुद्ध भूतले || शुद्धभावनया चैव स्थापितं लिङ्गमुत्तमम् | तल्लिङ्गं पौरुषं प्राहुस्तत्प्रतिष्ठितमुच्यते | तल्लिङ्गपूजया नित्यं पौरुषैश्वर्यमाप्नुयात् || महद्भिः शैवशास्त्रज्ञैः राजभिश्च महाधनैः | शिल्पेन कल्पितं लिङ्गं मन्त्रेणस्थापितं च यत् || प्रतिष्ठितं प्राकृतं हि प्राकृतैश्वर्य भोगदम् | यदूर्जितं च नित्यं च तद्धि प्राकृतमुच्यते || लिङ्गं नाभिस्तथा जिह्वानासाग्रं च शिखाक्रमात् | कट्यादिषु त्रिकोणेषु लिङ्गमाध्यात्मिकं चरम् || प्. १६६) पर्वतं पौरुषं प्रोक्तं भूतलं प्राकृतं विदुः | वृक्षादि पौरुषं ज्ञेयं गुल्मादि प्राकृतं विदुः | षाष्ठिकं प्राकृतं ज्ञेयं शालिगोधूम पौरुषम् || ऐश्वर्यं पौरुषं विद्यादणिमाद्यष्ट सिद्धिकम् | सुस्त्री धनादिविषय प्राकृतं प्राहुरास्तिकाः || प्रथमं चरलिङ्गेषु रसलिङ्गं प्रकथ्यते | रसलिङ्गं ब्राह्मणानां सर्वकाम फलप्रदम् || रत्नलिङ्गं क्षत्रियाणां महाराज्य प्रदंशुभम् | स्वर्णलिङ्गन्तु वैश्यानां महाधनपतिप्रदम् || शिलालिङ्गं तु शूद्राणां महदैश्वर्यदं विदुः | स्फटिकं बाणलिङ्गञ्च सर्वेषां सर्वकामदम् || स्वीयाभावेऽन्यदीयं तु पूजायां न निषिध्यते | स्त्रीणान्तु पार्थिवं लिङ्गं स भर्तॄणां विशेषतः | विधवानां निवृत्तानां रसलिङ्गाद्यनुक्रमात् || बालये वा यौवनेवापि वार्धकेवापि सुव्रताः | शुद्ध स्फटिकलिङ्गन्तु स्त्रीणां तत्सर्व भोगदम् || प्रवृत्तानां पीठ पूजा सर्वाभीष्टप्रदाभुवि | पात्रेणैव प्रवृत्तस्तु सर्वपूजां समाचरेत् | अभिषेकान्त नैवेद्यं शाल्यन्नेन समाचरेत् || पूजान्ते स्थापयेल्लिङ्गं पुटे शुद्धे पृथग्गृहे | करपूजा निवृत्तानां स्वभोज्यं तु निवेदयेत् | निवृत्तानां परंसूक्ष्मं लिङ्गमेव विशिष्यते | प्. १६२) विभूत्याभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् | पूजां कृत्वाथ तल्लिङ्गं शिरसा धारयेत्सदा || विभूति स्त्रिविधा प्रोक्ता लोकवेद शिवाग्निभिः | लोकाग्नीयमयोभस्म द्रव्यशुद्ध्यर्थमावहेत् || मृद्दारु लोहरूपाणां धान्यानन्यांस्तथैव च | तिलादीनां द्रवाणां च वस्त्रादीनां तथैव च || तथा पर्युषितानां च भस्मना शुद्धिरिष्यते | शुनादि दूषितानाञ्च भस्मना शुद्धिरिष्यते || स जलं निर्जलं भस्म यथा योग्यं तु योजयेत् | वेदाग्निजं तथा भस्म तत्कर्मान्तेषु धारयेत् || मन्त्रेण क्रिययाजन्यं कर्माग्नौ भस्मरूपधृक् | तद्भस्म धारणात्कर्म स्वात्मन्यारोपयेद्द्विजः || अघोरेणात्म मन्त्रेण बिल्वकाष्ठं प्रदाहयेत् | शिवाग्निरिति विख्यातस्तेन दग्धं शिवाग्निजम् || कपिला गोमयं पूर्वं केवलं गव्यमेव वा | शम्यश्वत्थ पलाशान्वा वटारग्वध बिल्वकान् || शिवाग्निना दहेच्छुद्धान् तद्वै भस्म शिवाग्निजम् | दर्भाग्नौ वा दहेत्काष्ठान् शिवमन्त्रं समुच्चरन् || सम्यक्सं शोध्य वस्त्रेण नवकुम्भे निधापयेत् | तद्दीप्त्यर्थं हि संग्राह्यं मन्यते पूज्यतेपि च || प्. १६८) भस्मशब्दार्थ एवं हि शिवः पूर्वं तथा करोत् | यथायव विषये राजा सारं गृह्णाति यत्करम् || यथा मनुष्याः सस्यादीन् दग्ध्वासारं भजन्ति वै | यथा हि जाठराग्निश्च भक्ष्यादीन् विविधान् बहून् || जग्ध्वासारतरं सारात्स्वं देहं परिशुष्यति | तथा प्रपञ्चकर्तापि स शिवः परमेश्वरः || स्वाधिष्ठेय प्रपञ्चस्य दग्ध्वासारं गृहीतवान् | दग्ध्वा प्रपञ्चं तद्भस्म स्वात्मन्यारोपयच्छिवः || उद्धूलनेन व्याजेन जगत्सारं गृहीतवान् | स्वरत्नान् स्थापयामास स्वकेशे हि शरीरके || केशमाकाशसारेण वायुसारेण वै मुखम् | हृदयेनाग्निसारेण ह्यपांसारेण वै कटिम् | जानुं चावनिसारेण तद्वत्सर्वं तदङ्गकम् || ब्रह्मविष्णोश्च रुद्राणां सारं चैव त्रिपुण्ड्रकम् | तथा तिलकरूपेण ललाटान्ते महेश्वरः || तद्वृद्ध्या सर्वमेतद्धि मन्यते स्वयमित्यसौ | प्रपञ्चसार सर्वस्वमनेनैव वशीकृतम् | तस्मादस्य वशीकर्ता नास्तीति स शिवः स्मृतः || यथा सर्वमृगाणां च हिंसको मृगहिंसकः | अस्य हिंसा मृगोनास्ति तस्मात्सिंह इतीरितः || शांत्यतीत्य सुखमानन्दमिकारः पुरुषः स्मृतः | प्. १६९) व कारः शक्तिरमृतं मेलनं शिव उच्यते || तस्मादेव स्वमात्मानं शिवं कृत्वार्चयेच्छिवम् | तस्मादुद्धूलनं पूर्वं त्रिपुंड्रं धारयेत् परम् || पूजाकाले हि सजलं शुद्ध्यर्थं निर्जलं भवेत् | दिवा वा यदि वा रात्रौ नारीवाथ नरोऽपि वा || पूजार्थं सजलं भस्म त्रिपुण्ड्रेनैव धारयेत् | त्रिपुण्ड्रं सजलं भस्म धृत्वापूजां करोतियः | शिवपूजाफलं साङ्गं तस्यैव हि सुनिश्चितम् || भस्म वै शिवमन्त्रेण धृत्वा ह्यत्याश्रमी भवेत् | शिवाश्रमीति संप्रोक्तः शिवैक परमो यतः || शिव व्रतैक निष्ठस्य ना शौचं न च सूतकम् | ललाटाग्रे शितं भस्म तिलकं धारयेत् सदा || स्वहस्ताद्गुरु हस्ताद्वा शिवभक्तैकलक्षणम् | गुणां रुंध इति प्रोक्तो गुरुशब्दस्य विग्रहः || सविकारान् राजसादीन् गुणान् रुन्धेव्यपोहति | गुणातीतः परशिवो गुरुरूपमुपाश्रितः || गुणत्रयं व्यपोह्याग्रे शिवं बोधयतीति सः | विश्वस्तानां तु शिष्याणां गुरुरित्यभिधीयते || तस्माद्गुरुशरीरं तु गुरुलिङ्गं भवेद्बुधाः | गुरुलिङ्गस्य पूजा तु गुरुशुश्रूषणं भवेत् || स्रुतं करोति शुश्रूषा कायेन मनसागिरा | प्. १७०) उक्तं यद्गुरुणा पूर्वं शक्यं वा शक्यमेव वा | करोत्येव हि पूतात्मा प्राणैरपि धनैरपि || तस्माद्वैशासनायोग्यः शिष्य इत्यभिधीयते | शरीराद्यर्थकं सर्वं गुरोर्दत्वा सशिष्यकः || अग्रपाकं निवेद्याग्रे भुञ्जीयाद्गुर्वनुज्ञया | सिष्यः पुत्र इति प्रोक्तः शिष्यः शिष्यत्व योगतः || जिह्वालिङ्गान्मंत्रशुक्लं कर्णयोनौ निषिच्य वै | जातः पुत्रो मन्त्र पुत्रः पितरं पूजयेद्गुरुम् || निमज्जयति वै पुत्रं संसारे जनकः पिता | सन्तारयति संसारात् गुरुर्वै बोधकः पिता || उभयोरन्तरं ज्ञात्वा पितरं सं प्रपूजयेत् | अङ्गशुश्रूषयावापि धनाद्यैस्वार्जितं गुरुम् || पादादिकेश पर्यन्तं लिङ्गान्यन्यानि वै गुरोः | धनरूपैः पादुकाद्यैः पादसंग्रहणादिभिः || स्नानाभिषेकनैवेद्य भोजनैश्चापि पूजयेत् | गुरुपूजैव पूजास्याच्छिवस्य परमात्मनः || गुरुशेषं तु तत्सर्वमात्मशुद्धिकरं भवेत् | गुरुशेषं शिवोच्छिष्टं जलमन्नादि निर्जलम् || शिष्याणां शिवभक्तानां ग्राह्यं भोज्यं भवेद्द्विजाः | गुर्वनुज्ञादिरहितं चोरवत्सकलं भवेत् || प्. १७१) गुरोरपि विशेषज्ञं गुरुं ग्राहीत वै बुधः | अज्ञानमोचनं साध्यं विशेषज्ञो हि मोचकः || तस्माद्गुरुमुखात्कर्मज्ञानं चापि विशेषतः | ज्ञात्वा कर्तव्यमखिलं भोगमोक्ष समृद्धये || गुरुशुश्रूषया लब्धकर्मज्ञानं सुखाय हि | अलप्यते ह्यन्यया लब्धं प्रयाति स्यादमङ्गलम् || पुनर्वक्ष्ये हितं कर्म कर्तव्यं शिवमिच्छता | शिवमेव शिवध्यानं प्रार्थयेन्मतिमान्नरः || देवाः सर्वं प्रयच्छन्ति शिवाज्ञा परिपालकाः | शिवाज्ञापालकान् देवान् भोगार्थं कर्मणा यजेत् || आदौ च विघ्नशमनं कर्तव्यं कर्मपूर्तये | निर्विघ्नेन कृतं साङ्गं कर्म वै सफलं भवेत् || तस्मात्सकल कर्मादौ गणनाथं प्रपूजयेत् | महाभिषेक नैवेद्यं शिवस्यान्ते तु कारयेत् || शिवभक्तान् मोक्षयेच्च भूरिभोजनरूपतः | ततः शिवं नमस्कुर्यान्मन्त्रेणाष्टोत्तरं शतम् || सहस्रमयुतं लक्षं कोटीर्वा कारयेद्बुधैः | नमस्कारात्म यज्ञेन तुष्टः स्यात्परमेश्वरः || मत्स्वरूपोर्पितो बुद्ध्या न ने शून्ये परेचिति | न नस्म दहंतेति त्वयि दृष्टे निवर्तितः || प्. १७२) नमोहं हि स्वदेहे नमोमहान् त्वमसि प्रभो | न शून्यो मत्स्वरूपो वै तव दासोस्मि सांप्रतम् || यथा योग्यंत्वात्मयज्ञं नमस्कारं प्रकल्पयेत् | ततः प्रदक्षिणं कुर्यादष्टोत्तर सहस्रकम् || अयुतं लक्षकोटिस्तु कारयेच्छिव भक्तकैः | शिवप्रदक्षिणात् सर्वपातकं नश्यति क्षणात् | दुःखस्य मूलं व्याधिर्हि व्याधेर्मूलं हि पातकम् | धर्म एव हि पापानामपनोदनमीरितम् || शिवोद्देश कृतोधर्मः क्षमः पापापनोदने | अध्यक्षं शिवधर्मेषु प्रदक्षिणमितीरितम् || क्रियया जपरूपं हि प्रणवं तु प्रदक्षिणम् | जननं मरणं द्वन्द्वं मायाचक्रमितीरितम् || शिवस्य माया चक्रं हि जगदेतच्चराचरम् | निर्गमाज्जननं प्राप्तं नमः स्वात्मसमर्पणम् || जननं मरणं द्वन्द्वं शिवमाया समर्पितम् | शिवमायार्पितं द्वन्द्वं न पुनः स्वात्मभाग्भवेत् || यावद्देह त्रयाधीनं स जीवोबद्ध उच्यते | देहत्रय वशीकारो मोक्ष इत्युच्यते बुधैः || मायाचक्र प्रणेता हि शिवः परमकारणम् | शिवमायार्पितं द्वन्द्वं शिवस्तु परिमार्जति || प्. १७३) शिवेन कल्पितं द्वन्द्वं तस्मिन्नेव समर्पयेत् | शिवस्याति प्रियं विद्यात्प्रदक्षिण नमो बुधाः || प्रदक्षिण नमस्कारः शिवस्य परमात्मनः | षोडशैरूपचारैश्च कृतपूजा फलप्रदम् || प्रदक्षिणाविनाश्यं हि पातकं नास्ति भूतले | तस्मात्प्रदक्षिणे नैव सर्वं पापं विनाशयेत् || शिवप्रदक्षिणेनैव सर्वाभीष्टं प्रसाधयेत् | शिवपूजा परोमौनी सत्यादि गुणसंयुतः | क्रियातपो जपज्ञान ध्यानेष्वेकैकमाचरेत् || ऐश्वर्यं दिव्यदेहं च ज्ञानमज्ञानसंक्षयम् | शिवसान्निध्यमित्येवं क्रियादीनां फलं भवेत् || करणो न फलं याति तमस्य परिहापनात् | जन्मनः परिमार्जित्वाज्ञ बुद्ध्याचानतेति च | ध्यैचिन्तया न तेत्येवं तेषामर्थं क्रमाद्भवेत् || यथा देहं यथाकालं यथादेहं यथाधनम् | यथा योग्यं प्रकुर्वीत क्रियादीन् शिवभक्तिमान् || न्यायार्जितस्य प्राप्त्यैव वसेत्प्राज्ञः शिवस्थले | जीवहिंसादि रहितमतिक्लेश विवर्जितम् || पञ्चाक्षरेण जप्तं च भोज्यमन्नं विदुः सुखम् | अथवा भूदरिद्रस्य भिक्षान्नं ज्ञानदं भवेत् || प्. १७४) शिवभक्तस्यभिक्षान्नं शिवभक्ति विवर्धनम् | शम्भुसत्वमिति प्राहुर्भिक्षान्नं शिवयोगिनः || येन केनाप्युपायेन यत्र कुत्रापि भूतले | सिद्धान्न भुक् सदामौनी रहस्यं न प्रकाशयेत् || प्रकाशयं स्वभक्तानां शिवमाहात्म्यमेव हि | रहस्यं शिवतत्वं हि शिवो जानाति नापरः || शिवभक्तो वसेन्नित्यं शिवलिङ्गं समाश्रितः | स्थाणुलिङ्गाश्रयेणैव स्थाणुर्भवति भासुरः | पूजयाचर लिङ्गस्य क्रमात्पूर्णो भवेद्ध्रुवम् || सर्वमुक्तं समासेन साध्यसाधनमुत्तमम् | व्यासेन यत्पुरा प्रोक्तं यच्छ्रुतं तु मया पुरा || इत्यादिभिश्च बहुभिः प्रमाणैर्वीरशैवकम् | साधनं मुख्यमेवेदमन्यद्गौणं च साधनम् || तस्माद्विद्वान् वीरशैवमते बुद्धिं प्रसारयेत् | वीरशैवं साधनं च व्यास तात्पर्यतः स्फुटम् || || इति श्रीमद्विशिष्टाद्वित सिद्धान्तरहस्यैकोत्तरशतस्थलाभिज्ञ नीलकण्ठकृते निगमागमसार संग्रहे क्रियासारे तृतीयोपदेशः || श्रीरस्तु || साधनानां विचारस्तु तार्तीयीके निरूपितः | चतुर्थे चोपदेशेस्मिन् कुर्वे पल विचारणम् || प्. १७५) कतिभिश्चाधिकरणैः तत्र साधनशेषकम् | सूत्रकारोऽनुसरति तत्र ब्रह्मविदाश्रुतिः || तरतीत्यादिके मोक्षसाधनत्वेन बोधितः | प्रत्ययः किं सकृत्कार्यमसकृद्वा किमत्र च || सकृत्कर्तव्यमित्याप्तं सार्थक्यं तावता पुनः | शास्त्रस्या श्रूयमाणायामावृत्तौ च तथैव हि || तावत्तु क्रियमाणायामशास्त्रार्थः कृतो भवेत् | कर्तव्या प्रत्ययावृत्तिरसकृच्चोपदेशतः || श्रोतव्याः श्रुतिवाक्येभ्योमन्तव्यश्चोप पत्तिभिः | निदिध्यास्यस्तथेत्येवमसकृच्चोपदेशतः | आवृत्तिः सूचितासेयं श्रुतिभिर्बहुभिः पुनः || आत्मेत्येवोपासीत ध्यायीतेशानमित्यपि | विधेरुपास्ति ध्यायत्योरावृत्तिश्च पुनः पुनः | विशिष्ट प्रत्ययस्यैव प्रकृतत्वात्तथैव हि || लोकेव्युत्पत्तिरुदिता शास्त्रज्ञैस्तत्व दृष्टिभिः | विद्युपास्योश्च वेदान्तशास्त्रे व्यतिकरेण तु || प्रयोगो दृश्यते क्वापि विधिनोपक्रमः स्मृतः | उपासिनोपसंहारो यस्तद्वेदेति च श्रुतौ || यां देवतामुपास्से चेत्यादौ चोपासिना क्रमः | विदिनाचोपसंहारो मनोब्रह्मेति च श्रुतौ || प्. १७६) य एवं वेद इत्यादौ वेदश्चोपासनार्थता | तस्माद्ब्रह्मविदाप्नोति परमित्यादिके श्रुतौ || प्रत्ययावृत्ति सिद्धिस्तु सम्यगेवोररीकृतः | लिङ्गं च प्रत्ययावृत्तिं सूचयत्यथ तच्छृणु || प्रस्तुतोद्गीत विज्ञानं रश्मीस्त्वमिति चाप्यथ | पर्यावर्तय वाक्ये च प्रत्ययावृत्ति सूचनात् || अत्रायमेवराधान्तो वीरशैवमुदावहः | लिङ्गाद्धृदयदेशे तु धृतादमृतवाक्यतः || रश्मीस्त्वमिति वाक्येन ज्योतिश्चरणसूत्रतः | ज्योतिलिङ्गं च गुरुणा दत्तं समरसात्मना || दृष्ट्वा दृस्ट्वा प्रतिदिनं ध्यात्वा ध्यात्वा पुनः पुनः | लिङ्गङ्गयोस्तदुभयोस्सामरस्यं फलात्मकम् || तथा ब्रह्मविदाप्नोति श्रुतौ लिङ्ग विदुच्यते | वेदनं नामलिङ्गस्य धारणं प्रतिपादितम् || आवृत्तिरिति सूत्रे च ह्ययमर्थः स्फुटी भवेत् | आत्माय नम इत्यत्र आत्मलिङ्गाय इत्यपि || ज्वलाय नम इत्यादि ज्वललिङ्गाय इत्यपि | ज्योतिश्चरण सूत्रोक्त तात्पर्यानुगुणेन च || असकृल्लिङ्गशब्दस्य ह्युपदेशाद्धृदंबुजे | धार्यं ध्येयं च सम्पूज्यं मुमुक्षुभिरहर्निशम् || प्. १७७) धृतस्यैव तु लिङ्गस्य दर्शनवृत्तिरुच्यते | दर्शनं चैवमनसा निर्मलेन च चक्षुषा || अन्तर्बहिश्च तत्सर्वं व्याप्येति श्रुतीरणात् | बाह्याभ्यन्तरसमानेन पुरुषेणाप्यथो फलम् | वै लक्षण्यं बहिश्चान्तः फलनाशाय कल्पते || अन्तर्बहिः साम्यततः प्रार्थनीयं विपश्चिता | वीरशैवे संघटते सर्वं श्रुतिसमीरितम् || वीरशैवेतरेषां तु वेदानुगुणता न हि | अङ्गुष्ठमात्रः पुरुषो हृदयाकाश शोभितः || लिङ्गाकृतिर्ज्योतिरेव शिवः सत्यादि लक्षणः | बहिर्धृतं लिङ्गमपि साम्यमत्र तदेतयोः || बहिरन्तर्लिङ्गधृतिर्लिङ्गधारणमन्तरा | नैव संघटते पुंसां तस्माल्लिङ्गं हृदम्बुजे || बहिरिन्द्रिययोग्यं च बाह्यं लिङ्गमुदाहृतम् | अन्तरिन्द्रिययोग्यं च ह्यान्तरं लिङ्गमुच्यते | प्राय पाठानुगुण्यं च श्रुतौ वेदान्तसरके || सङ्गच्छते नन्यथा तल्लिङ्गं बहिरकुर्वताम् | उपक्रमोपसंहारौ तथा श्रुतिरहस्यके | अनेकेषां प्रमाणानां व्याकुलीभावभीतितः || तादृक्छ्रुत्यनु गुण्येन लिङ्गावृत्तिस्तदुच्यते | आवृत्तिश्चैक रूप्येण हृदयाम्बुज वासिनः || प्. १७८) बहिः स्फुटं सज्जिकायां लसतो लिङ्गरूपिणः | अन्तश्च दहराकाशे लसतोलिङ्गरूपिणः || दर्शनं ज्ञानमित्युक्तं बाह्येनान्तरचक्षुषा | मोक्षेच्छुभिस्तथावृत्तिः कर्तव्येत्युररीकृतम् || शब्दादेव प्रमित इत्यस्मिन् सूत्रेऽयमेव हि | समीहितार्थो विज्ञेयः सूत्र स्वरसतः पुनः || अत्रायमथनिष्कर्षो वीरशैवैमुर्मुक्षुभिः | अन्तर्बहिर्धृतं लिङ्गंमावर्त्यं नेत्र युग्मतः || आत्माय नम इत्यादि वाक्येनासकृदीरणात् | लिङ्गाच्च हृदयाकाशे सज्जिकायामधिष्ठितात् || बहिरान्तर नेत्रेण दर्शनद्वय वर्णनात् | सिद्धेयं प्रत्ययावृत्तिः शैवशास्त्रोक्तमार्गतः || आत्मेति तूपगच्छन्ति ग्राहयन्ति च वैदिकाः | ब्रह्मोपासनमित्युक्तं भिन्नाभिन्नं च जीवतः || अंशो नानाति किं तत्र मदन्यद्ब्रह्म इत्यथ | उपासनीयं किं वाहं ब्रह्मेत्येवमुपासनम् || किं तावत्प्राप्तमधुनामदन्यद्ब्रह्म चेत्ययम् | अन्योन्तरादि वाक्येन भेदेनैवोपवर्णनात् || एवं प्राप्तेवयं ब्रूमः पदार्थानां विवेचने | जीवेश्वरावथान्योन्यं व्यावृत्तत्वेन वर्णितौ || प्. १७९) अथाऽप्युपासनाकाले ह्यहं ब्रह्मेत्युपासनम् | यस्मात्पूर्वे ब्रह्मविद आत्माब्रह्मवदन्ति ते || स आत्मेत्यथवा विद्यादहं ब्रह्मेति वै तथा | उपदेष्टार एवञ्च तत्त्वमस्येष ते इति || आत्मा सर्वान्तरः साक्षादेव आत्मा त इत्यपि | अभेदेन ग्राहयन्ति तदभेदादुपासनम् || भेददृष्ट्यापवादाच्चाप्यथ योन्यामिति श्रुतौ | अन्योऽसा वन्योऽहमस्मिन् स वेदेति च श्रुतेः || आदित्यादि प्रतीकेषु बध्नीयान्नात्म बुद्धिकाम् | न हि चात्मा प्रतीकानि शिवः सत्यादि लक्षणः || योन्यात्मत्वेना कलयेद्यच्च ब्रह्मविकारतः | ब्रह्माभेद प्रतीकानां ब्रह्माभेदस्तथैव च || आत्मभेद इति ह्येतदज्ञान परिकल्पितम् | जीव प्रतीकयो ब्रह्मा भेदेप्यत्र परस्परम् || अभेद विरहात्फेन वीच्यादीनां यथा पुनः | समुद्रा भेद सत्वेपि न चा भेदः परस्परम् || तद्ब्रह्म सृष्टिरुत्कर्षादित्यादि मतिस्तथा | उद्गीतादौ च कर्तव्या चोपपत्तेः क्रतुष्वपि || आसेने सम्भवात्कर्मावबद्धोपासनेषु तु | ध्यानाच्चासीन कर्मेदमङ्गा बद्धमुपासनम् || प्. १८०) अचलत्वं तथा पेक्ष्य ध्यायतीवेति च श्रुतेः | अङ्गत्वेनोपासनायां स्मरन्ति मुनयस्त्विति || शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः | यत्र काले च देशे च ह्येकाग्रत्वं हि तत्र च || विशेषश्रवणा भावादाप्रायणं मुमुक्षुभिः | कार्याहि प्रत्ययावृत्तिः न मध्येविरमेच्छुतेः || स यावत्क्रतुरस्माल्लोकात् प्रैतीति दर्शनात् | गतस्तृतीयशेषो सा वथेदानीं निरूप्यते || ब्रह्मविद्याफलं तस्य ब्रह्मणोधिगमे सति | अश्लेष उत्तरागस्य पूर्वपाप प्रणाशनम् || यथैषीकातूलमग्नौ प्रोतमित्यादि दर्शनात् | इतरस्यापि पुण्यस्य ह्यश्लेषश्च विनाशनम् || शरीरपाते विज्ञेयो यतस्तद्बन्धसाधनम् | क्षीयन्ते चास्य कर्माणीत्यविश्लेष श्रुतेः पुनः || पूर्वाधिकरण प्रोक्ते तदश्लेष विनाशने | केवलानारब्धकार्ये शरीर पतनावधेः | तस्य तावदितिश्रुत्यां तथान्यत्रापि दर्शनात् || मोक्षायैवाग्निहोत्रादि तथैव श्रुति दर्शनात् | तमेतं वेद इत्यादि श्रुत्यापि विदुषां श्रुतेः | अग्निहोत्रादिकान्नित्यादन्यापि ह्यस्तिकाचन || प्. १८१) ह्येकेषामुभयोर्बादरायणस्य च जैमिनेः | यदेव विद्ययेत्येवं पूर्वोक्ते काम्य कर्मणाम् || पुण्यपापे ह्यनारब्ध कार्ये विद्यावशात्पुनः | क्षीयेत चेतरेत्वारब्ध कार्येषु पुण्यदुष्कृते || क्षपयित्वोपभोगेन ब्रह्मसम्पद्यते बुधः || चतुर्थे द्वितीयः पादः | ब्रह्मसम्पद्यत इति क्रमेणात्र च केन वा | इति प्राप्ते देवयानं पन्थानमवतारयन् || आदौ तावद्यथा शास्त्रमुत्क्रान्ति क्रममाह हि | उत्क्रान्त्युपक्रमाद्वेदात्प्रयाणविषया श्रुतिः || अस्य सोम्यादि वाक्येन केवलं वाच एव तु | मनः सम्पत्तिरुदिता शब्दाद्वाङ्मनसीति च || अतश्च दर्शनाद्वाचि मनस्युपरतावापि | इन्द्रियान्तर संघानां तथा व्यापार दर्शनात् || सम्पद्यते वाक् प्रथममिन्द्रियान्तरमप्यनु | प्राणे सम्पद्यते तत्र सम्पन्नेन्द्रियकं मनः || मनः प्राण इति श्रुत्या तथैव प्रतिपादनात् | प्राणस्तेजसि वाक्येन प्राणोध्यक्षे समीरितः || स च प्राणेन सम्पृक्तो भूतेष्वेवावतिष्ठते | जीव इत्यवगन्तव्यं प्राणस्तेजसि वाक्यतः | नैकस्मिन्नेव जीवासौ तेजस्येवावतिष्ठते || प्. १८२) किन्त्वनेकेषु दृष्टश्च ह्ययमर्थः श्रुतौ पुनः | अस्मृत्युप क्रमादूर्ध्वं समाना च द्वयोरपि || विदुषश्चाप्य विदुष ऊर्ध्वं विद्वान् विशिष्यते | अमृतत्वं चानुपोष्य द्वयोस्तत्तुल्यमेव हि || संभूतान्तरकं तेजः आ ब्रह्म प्राप्ति वर्तते | संसार व्यपदेशात्तयोमायन्निति श्रुतेः | संभूतान्तरकं तेजः सूक्ष्मं तत्परिमाणतः || तथोपलब्धेर्निर्गच्छन् पार्श्वस्थैर्नोपलभ्यते | सूक्ष्म वादेनैव चास्य स्थूलदेहोपमर्दतः || दाहादिक निमित्तेन चैवं नैवोपमृद्यते | अस्यैव चोपपत्तेः स्यादेव ऊष्मा शरीरके | उष्ण एव हि जीविष्यन् मरिष्यन् शीतलो भवेत् || तदुच्चि क्रमिषोर्जीवादप क्रामन्ति नैव हि | प्राणाः सहैव ते तेन भवन्तीत्यर्थ ईरितः || तथा च सप्रणाकस्य देहादुत्क्रान्तिरेव हि | स्मर्यते च महाभागैर्भारते विदुषो गतिः | शुकस्तु मारुताच्छीघ्रगतिं गत्वान्तरिक्षगः || दर्शयित्वा प्रभावं स्वं सर्वभूतगतोऽभवत् | सर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः || देवादिमर्गे मुह्यन्ति चापदस्य पदैषिणः | प्. १८३) भूतेषु तच्छ्रुतेश्चेति जीवसम्पत्तिरुच्यते | तानि भूतानिचपरे तथा ह्याह श्रुतिः स्वयम् || वाचो मनसि सम्पत्तिरित्यादीनि च यानि तु | अविभागापत्तिरेव नान्यत्पश्यति वाक्यतः || असत्युपक्रमात्तत्र समाना चेति चोदितम् | सृतेरुपक्रमं चायं दर्शयत्यधुना स्वयम् || उपसंहृत वागादि कलापस्य तु तस्य हि | जीवस्य हृदयंह्येक स एता इति वाक्यतः || तदग्रज्वलनद्वारा स्थानापादानिका पुनः | उत्क्रान्तिः श्रूयते तस्य है तस्यादिक वाक्यतः || प्राप्तव्य लोको जीवोसौ प्रकाशित इतीरितम् | विद्वान् मूर्धन्यनाड्यासौ विद्यासामर्थ्यतः स्वयम् || निष्क्रामति शतं चैका वाक्ये सम्यगुदीरितम् || अथ रश्म्यनुसारी च निष्क्रामति पुनः स्वयम् | अस्त्यह्नि नाडीरश्मीनां मृतस्याह्नि भवेत्तथा || रात्रौ प्रेतस्य न स्यात् तत्संबन्ध विरहादिति | नाडी रश्म्यभि संबन्धो यावद्देहं हि वर्तते || एतमर्थं दर्शयति श्रुतिश्छान्दोग्यनामिका | दक्षिणेप्ययनेतश्चाप्यूर्ध्वमाकृमते मृतः | अहराद्यश्च कालोऽयं सकलोयोगिनः प्रति || प्. १८४) स्मार्ते चैते योगसांख्ये न श्रौते परिकीर्तिते | नास्य स्मार्तस्य कालस्य श्रौतेऽवकरणं भवेत् || इत्यनेन प्रकारेण सामरस्यं गुरुदितम् | वीरशैवागमैरुक्तं संगृह्य मुनिरादिमः || असूसूत्रदयं व्यासः साक्षात्सत्य वतीसुतः | निगमानामागमानामैकरूप्यमतो भवत् || शब्दभेदो नार्थभेदः सौत्रार्थस्त्वागमार्थयोः | लोके कालुष्य निर्मग्ना विरोधं स्फुटयन्तिते || आगमार्थमजानन्तो नरास्ते मन्दबुद्धयः | तत्वदृष्ट्या च विबुधा आगमार्थानुशीलिनः || तेषां सूत्रैकरूप्यं हि शैवतात्पर्य वर्णनम् | पुराणेषु समुत्कृष्टा कलौ पाराशरी स्मृतिः || दृढयत्यथ सैवेय मुक्तमर्थं पुनः पुनः | अथातः संप्रवक्ष्यामि चरितं पापकर्मिणाम् || श्रुणुतत्परिहाराय विप्रवेदार्थवित्तम | महादेवं च विष्णुं च ब्रह्माणं देवतान्तरम् || सदा निन्दन्ति मोहेन मनुष्याः पापकर्मिणः | महादेव समंविष्णुं ब्रह्माणं देवतान्तरम् || मन्यन्ते विप्र मोहेन मनुष्याः पापकर्मिणः | देवानां प्रथमं देवं जन्मनाशादिवर्जितम् | रुद्रं विश्वाधिकं नैव मन्यन्ते पापकर्मिणः || प्. १८५) चेतना चेतनस्यास्य जगतोमूलकारणम् | मन्यन्ते न शिवं साम्बं मनु * * * * * णः || आगमान्त समुत्पन्नमतिनिर्मलमास्तिकाः | आत्मज्ञानं च निन्दन्ति मनु * * * * * णः || शान्तिदान्त्यादि विज्ञान साधनानि महान्ति च | न स्वीकुर्वन्ति मोहेन मनु * * * * * णः || रागद्वेषादि दोषांश्च न निकृन्तन्ति सन्ततम् | नैव कुर्वन्ति यज्ञांश्च मनु * * * * * णः || वेद सिद्धेन मन्त्रेण त्रिपुण्ड्र भस्म कुण्ठनम् | नैव कुर्वन्ति मोहेन मनु * * * * * णः || शंखचक्रगदापद्म वज्रपाशांकुशादिभिः | अंकिताश्च भवन्त्यज्ञाः मनु * * * * * णः || त्यजन्ति सकलं कर्म सदा विध्युक्तमास्तिकम् | निषिद्धं कर्म कुर्वन्ति मनु * * * * * णः || त्यजन्ति वेदं वेदोक्तं सदा स्मृति पुराणकम् | वेदाङ्गानि च मोहेन मनु * * * * * णः || पाञ्चरात्रे च कापाले पाषण्डेष्वपरेषु च | दीक्षिताश्च भवन्त्येव मनु * * * * * णः || अविमुक्तं कुरुक्षेत्रं पुण्डरीकपुरं तथा | आश्रत्यं नैव गच्छन्ति मनु * * * * * णः || प्. १८६) कीकटेषु च देशेषु देशसम्बन्ध वर्जिताः | वर्तन्ते प्रीतियुक्ताश्च मनु * * * * * णः || वश्याकर्षण विद्वेषमारणादिषु कर्मसु | यतन्ते भ्रान्तिविज्ञानान्मनु * * * * * णः || वेदमार्ग परिभ्रंशं वेदबाह्य परिग्रहम् | कुर्वन्ति स्वात्मनो मोहान्मनु * * * * * णः || अभिषिक्तं च राजानं ब्राह्मणं च बहुश्रुतम् | निर्भयं च तथा राष्ट्रं बाधन्ते पापकर्मिणः || बहुनोक्तेन किम् वेद मर्यादाभेदनं तथा | श्रद्ध्यैव प्रकुर्वन्ति मनुष्याः पापकर्मिणः || इत्यादिभिः प्रमाणैश्च वर्णितास्तत्वमार्गतः | आगमैरेष एवार्थो द्रढीयानुपपादितः || || चतुर्थोपदेशः | तृतीयः पादः || अचिराद्येन मार्गेण विद्वान् ब्रह्म प्रपद्यते | तत्प्रतीतिः श्रुतौ दृष्टा ह्येषादेवपथादिके || अविशेष विशेषाभ्यां वायुमब्दादितीरितम् | उपरिष्ठाद्विद्युतश्च निवेश्योवरुणः कुतः || सम्बन्धादस्ति सम्बन्धो विद्युद्वरुणयोः पुनः | श्रूयमाणा अर्चिराद्यामार्ग चिह्नानि वै पुनः || गन्तॄणांकिलनेतारः स एवान् ब्रह्म वाक्यतः | उक्तं गमयितृत्वं च तस्मान्नेतार एव हि | वैद्युते नैव च ततस्तच्छ्रुतेः श्रवणात्पुनः || प्. १८७) कार्यं बादरिराचार्यः सत्यलोकं प्रतीति च | वैद्युतस्यास्य च गतेरूप पत्तेरिति ध्रुवम् || तथा विशेषि तत्वाच्च सतां वेश्मेति वाक्यतः | सामीप्यात्तत्र गङ्गा व द्व्यपदेशोत्र तस्य हि || प्रजापतेस्तु लोकस्य कार्यस्य प्रलयेसति | तल्लोक संपादिततया परया ब्रह्मविद्यया || तदध्यक्षेण सहते ब्रह्मलोकं परात्परम् | प्राप्नुवन्तीति ते ब्रह्मलोके त्वित्यादि वाक्यतः || परं जैमिनिराचार्यो मुख्यत्वाद्गमयेदिति | दर्शनाद्बहुधारण्य श्रुतौ हि क्वादिके तथा || नायन्तु कार्यं विषया प्रतिपत्याभि संधिका | नामरूपादि वाक्येन प्रोक्तं कार्य विलक्षणम् || अहं ग्रहोपासकांस्तु तद्ब्रह्मनयति ह्यसौ | प्रतीकालम्बनात् कार्य ब्रह्मलोकमिति स्फुटम् || एवं चोभयथा भावे दोषाभावात्तदत्र च | नियामकं कृतश्चैतं यथैवोपासते बुधः || तदेव भवतीत्यादि श्रुतिस्तत्र नियामिका | विशेषं दर्शयति च ह्यहमेवेति वै श्रुतिः || || चतुर्थोपदेशश्चतुर्थः पादः || उत्क्रान्ति गति गन्तव्ये त्रितयं निश्चितं ततः | प्. १८८) गन्तव्य मधुना प्राप्तं किमवस्यो भवेदिति | एवमेवैष वाक्ये च संशयं चैवमेव हि || आगन्तुना केनचिद्रूपेण सम्पद्यतेऽथवा | प्राक्सिद्धेनैव रूपेण प्राप्तमागन्तुनेति च || मोक्षणस्या फलत्वेनाप्यभि निष्पद्यतेथ च | प्राक् च स्वरूपमात्रस्य सत्वात्प्राप्ते तदुच्यते || तेनैव निष्पद्यतेसौ छान्दोग्ये तच्छ्रुतेरिति | अथ मुक्तः प्रतिज्ञानाद्य आत्मेत्यादि वाक्यतः || आगमात् प्रकरणाच्चापि संप्रसादेन गृह्यते | अविभागेन दृष्टत्वाद्भेदेनैव व्यवस्थितिः || ब्राह्मेणैव स्वरूपेण ह्यभिनिष्पद्यते बुधः | स आत्मेत्याद्युपन्यासैरिति जैमिनिरक्तवान् || चिति तन्मात्रेण तदात्मकत्वादिति विद्यया | ज्ञानरूपत्वमुदितं तत्र चाप्यौडुलोमिना || चिति तन्मात्रतायां च रूपोपन्यासतस्तथा | सद्भावादविरोधं च बादरायण उक्तवान् || संकल्पादेव स यदि पितृ लोकादिकश्रुतेः | अनन्याधिपतिर्मुक्तः सत्यसंकल्पताश्रुतेः || एवं बादरिराचार्यः शरीराभावमाह हि | एकधा भवतीत्यादि विकल्पामननादपि || प्. १८९) मनोवद्देह सद्भावं जैमिनिर्मन्यते बुधः | द्वादशाह महीनञ्च सत्रञ्चोभय लिङ्गतः || द्विविधश्रुतिवाक्याच्च द्वैविध्यं बादरायणः | देहाभावे तु मुक्तस्य भोगस्तस्योपपद्यते || यथा सन्ध्ये किल स्वप्ने देह व्यापार केपि च | भोगस्तद्वद्देह भावे जाग्रद्वद्भोगसंभवः || यथा प्रदीप एकोपि प्रदीपानेक भावनाम् | विकार शक्तियोगेन विद्वानेकस्तथैव हि || अनेकभावमैश्वर्य योगादापद्य शक्तितः | आविशत्येव सर्वाणि शरीराणि विचक्षणः || कुतस्तथा हि शास्त्रं हि चैकधा भवति द्विधा | पञ्चधेत्यादि कथं मुक्तस्यानेक वर्त्मसु || स्वाप्ययः स सुषुप्ति स्वमपीतो भवति श्रुतेः | सम्पत्तिरथचोत्क्रान्तिर्वाङ्मनस्यादिक श्रुतेः || तयोरन्यतरावस्थामपेक्ष्यैतद्विशेषणम् | विज्ञानाभाव वचनमाविष्कृतमभूत्पुनः || तदसन्निहितत्वाच्च यथा प्रकरणादपि | जगद्व्यापार वर्जं स्यादैश्वर्यमणिमादिकम् || प्रत्यक्षेणोपदेशादि तथामह इति श्रुतौ | आप्नोति स्वाराज्यमिति विकारान्तस्तथैव चेत् || प्. १९०) आधिकारिकसूर्यस्य मण्डलस्थोस्ति तत्ततः | तदेवात्र ब्रह्मशब्दादुच्यते न तु तत्पुनः || मुक्तप्राप्यं चाविकृतं ब्रह्मसत्यादि लक्षणम् | विकारवर्ति च तथा स्थितिमाह हि सा श्रुतिः || एवं प्रत्यक्षानुमाने विकारावर्जितां पुनः | परस्य ज्योतिषश्चैवं दर्शयन्तीश्रुति स्मृती | न तद्भासयते सूर्यो न शशाङ्को न पावकः || तथा विद्वान् पुण्यपापे विधूयाथ निरंजनः | उपैति परमं साम्यमिति यत्साम्यमीरितम् || न तज्जगद्व्यापारे तु भोगमात्रे तु केवलम् | श्रूयते सोऽश्नुते सर्वान् कामानिप्यादिक श्रुतेः | विद्यया देवयानेन ब्रह्मचाविकृतं परम् || प्राप्तानां पुनरावृत्तिरथनं क्वापि दृश्यते | तयोध्वमामन्नमृतत्वमित्यादिक श्रुतः || तेषां न पुनरावृत्तिः शब्दादेवत्विति श्रुतेः | एतादृशं सामरस्यं लिङ्गस्याङ्गस्य च द्वयोः || स्थलस्यैक शतस्यापि विवेकेन भवेद्ध्रुवम् | एवञ्च व्याससूत्राणामानुकूल्यञ्च वर्णितम् || आगमोक्त पदार्थानामन्योन्या भेद दर्शनात् | अप्रमेयाद्यया शक्त्या समेतं ब्रह्मशब्दितम् || पातृसर्वाणि भूतानि सच्चिदानन्द लक्षणम् | विद्यासारा संहितेममर्थमेव ह्यपुस्फुटत् || अथातः संप्रवक्ष्यामि तव सृष्टिक्रमं द्विज | श्रद्ध्याशृणु वेदोक्तं ब्रह्मविज्ञान सिद्धये || प्. १९१) इदं स्थितं जगत्सर्वं प्रलये परमेश्वरे | मायाभिन्ने स्वसायाख्य कारणाभिन्नरूपतः || वासनाभावरूपेण वासनाभाव रूपतः | कालकर्म विपाकेन वासना बलतोपि च || मायया स्रक्कणी वास्मिन् महानात्मा प्रजायते | स्रष्टव्य विषयज्ञानं सत्वजं मुक्तिसाधनम् || महानात्मेति विद्वद्भिः पष्यते स परः शिवः | स्रष्टा महान्तमात्मानं शिवोनुप्राविशत्स्वयम् || स पुनस्तत्प्रधानेन स्वरूपेण महेश्वरः | सर्वज्ञ इति विद्वद्भिः पठ्यते परमेश्वरः || इक्षते तिक्षणोपाधि प्रधानः परमेश्वरः | स पुनश्चेक्षिता सत्व गुणमात्म तयैव तु || मनुते सर्वसंहर्तातमसा भवति स्वयम् | तथैवात्मतयानित्यं मनुते च तमोगुणाम् || पालकश्च भवेन्नित्यं सत्वेनैव गुणेन तु | सजसा केवलेनैव सर्वस्रष्टा भवेच्छिवः || स्रष्टा ब्रह्माभिसंप्रोक्तः पालकोविष्णुरुच्यते | संहर्ता तु महेशानः शिवः साधारणः परः || रजः सर्वत्र चोत्पत्तौ सत्वं सर्वत्र पालने | तमः सर्वत्र संहारे हेतुः स्यान्नात्र संशयः || प्. १९२) यस्य यत्कारणं प्रोक्तं तस्य साक्षान्महेश्वरः | अधिष्ठानतया स्थित्वा सदेवोपकरोति हि || पुण्यपापे च कालश्च वासना च महेश्वरः | सृष्टिस्थित्यन्त कार्येषु सर्वदैवोपकरोति च || त्रिमूर्तीनां तु सर्गस्यानन्तरं शब्द पूर्विका | भूतसृष्टिर्यथा पूर्वं मायायास्तु प्रवर्तते || शब्दादि पञ्च भूतेभ्यः पञ्चसत्वगुणेन तु | जायन्ते च यथा पूर्वं तथैव ज्ञान शक्तयः || शब्दादि पञ्चभूतेभ्यो जायन्ते कृतिशक्तयः | तथा पूर्वं बुधश्रेष्ठ रजसा कालकर्मतः || शब्दादि पञ्चभूतेषु विज्ञाता ज्ञानशक्तयः | स्वकारणेक्य मायाख्या विद्ययासकलीकृताः || एका कारत्वमापाद्य कालकर्मविपाकतः | व्यष्ट्यन्तः करणानां तु समष्टिः स्यान्न संशयः || शब्दादि पञ्चभूतेषु विजाताः कृतिशक्तयः | एकाकारत्वमापाद्य पूर्ववत्काल कर्मतः || व्यष्टि प्राणस्य सर्वस्य समष्टिः स्यान्न संशयः | शब्दादि पञ्चभूतस्थाः सत्वजा ज्ञानशक्तयः || ज्ञानेन्द्रियाणां सर्वेषां भवन्ति च समष्टयः | चतुर्विध समष्ट्यन्तः करणं भवति क्रमात् || प्. १९३) मनोबुद्धिरहंकारः चित्तं चेति तथैव च | प्राणापानादि भेदेन पञ्चधा भवति क्रमात् || समष्टि प्राणसंज्ञाश्च तेषामेवाति मानिनः | हिरण्यगर्भः सूत्रात्मा दिग्वायवादित्य संज्ञिताः || वरुणश्च तथा भूमिस्तथा देवस्त्रिविक्रमः | इन्द्राग्नी च प्रजानाथो मित्रश्चन्द्रो बृहस्पतिः || कालाग्नि रुद्रो भगवान् शिवाभोगप्रदायिनी | विशिष्टा विश्व सृष्टिश्च विश्वयोनिरजायत || सर्वाभिमानी भगवान् साम्बः सत्यादिलक्षणः | सर्वाभिमानितं साम्बं संसाराम्भोधितारकम् || रुक्माभं सूक्ष्मधीगम्यं विदित्वा मुच्यते जनः | तस्य देवास्य साम्बस्य ब्रह्मणा विष्णुनापि च || रुद्रेण च स्मृतिः सर्वैः क्रियते तन्निरन्तरम् | मायया च शिवादेव साम्बात्सत्यादि लक्षणात् || अण्डभेदाश्च जायन्ते लोकभेदास्तथैव च | भोकृ भोग्यादि भेदाश्च देवादीनां भिदा अपि || वर्णाश्रमादि भेदाश्च धर्माधर्मभिदा अपि | सुखदुःखादि भेदाश्च स्वर्गश्वभ्रभिदा अपि || सर्वकारणमीशानः साम्बः सत्यादि लक्षणः | न विष्णुर्न विरिंचश्च न रुद्रो नापरः पुमान् || प्. १९४) स एव सर्ववेदान्तैः सादरं प्रतिपाद्यते | वेदानुसारि स्मृतिभिः पुराणैर्भारतादिभिः || श्रौतस्मार्त समाचारैः स एवाराध्यते द्विजैः | तच्छेषत्वेन चाराध्यास्तदन्याः सकला अपि || क्वचित्कदाचिद्वेदेषु तदन्याः सर्वदेवताः | ज्ञेयत्वेन चोच्यन्ते ध्येयत्वेन तथैव च || तच्चत रूपतस्तासामुच्यन्ते न कदाचन | किन्तु साम्बस्य रुद्रस्य शिवस्यैवान्वयेन हि || श्रुतयश्च पुराणानि भारतादीनि सत्तम | शिवमेव सदासाम्बं हृदिकृत्वा ब्रुवन्ति हि | शिवशङ्कर रुद्रेश ब्रह्मेशानादि नामभिः || श्रुतिस्मृति पुराणाद्यैरुच्यते परमं पदम् | विष्णु नारायणाद्यैश्च नामभिः सकलैरपि || श्रुतिस्मृति पुराणाद्यैरुच्यतेर्नोच्यते परमं पदम् | रूढ्या रुद्रादि शब्दास्तु वर्तन्ते परमेश्वरे || योगवृत्यैवविण्वादि शब्दाः सत्यमुदीरिताः | सर्वमूर्तिष्वयं साक्षीसाम्बः सत्यादिलक्षणः || लक्ष्यभूतः स्थितः साक्षात्तदधीनमिदं जगत् | विहायतं महाभ्रान्त्या ब्रह्म विष्ण्वादि देवताः || परतत्वतया वेदा ब्रुवन्तीति ब्रुवन्ति च || प्. १९५) तथा स्मृति पुराणानि भारत प्रमुखानि च | वदन्ति मायावन्मर्त्यान् सा माया दुस्तरा खलु || महापापवतां नॄणां शिवः सत्यादि लक्षणः | परतत्वतया साम्बं स्वप्रभो न विभासते || अनेक जन्मसिद्धानां श्रौतस्मार्तानु वर्तिनाम् | परतत्वतया साम्बः शिवोभाति सनातनः || शिवदृष्टिस्तु सर्वत्र कर्तव्या सर्वजन्तुभिः | राजदृष्टिर्यथामात्ये क्रियते सर्वजन्तुभिः | राजादिराजः सर्वेषां त्र्यम्बकस्त्रि पुरान्तकः || तस्यैवानुचरास्सर्वे ब्रह्म विष्ण्वादयः सुराः | व्य?क्ति हेतु परिज्ञानं तत्प्रसादेन केवलम् | नैव विष्ण्वादि देवानां प्रसादेन न संशयः || विहाय साम्बमीशानं यतन्ते ये विमुक्तये | ते महातमसा क्रान्ताः न तेषां परमागतिः || विहायजाम्बमीशानं यजन्ते देवतान्तरम् | ते महाघोर संसारे पतन्ति परिमोहिताः || महादेवस्य साम्बस्य शेषत्वेनैव केवलम् | देवताः सकला ध्येयाः सु विज्ञेया मनीषिभिः || सर्वमन्यत्परित्यज्य शिव एव शिवंकरः | ध्येय इत्याह परमा श्रुतिराथर्वणी खलु || अथ किं बहुनोक्तेन शिवः जाम्बः सनातनः | साक्षान्निष्ठा हि शास्त्राणां ना परः सत्यमीरितम् || प्. १९६) तदन्यत्सकलं विश्वं स हि विश्वाधिकः शिवः | स एव जगतां नाथः स हि संसार मोचकः || अथाप्यन्यत्प्रवक्ष्यामि देवताधिक्यमादरात् | यस्य विज्ञानमात्रेण प्रसीदति महेश्वरः || अचेतनेभ्यः सर्वेभ्यः चेतना अधिकाः स्मृताः | चेतनेषु मनुष्याश्च मनुष्येष्वधिका द्विजाः || द्विजेषु ब्राह्मणास्तेषु कुलीना अधिकाः स्मृताः | तेभ्यो मनुष्य गन्धर्वा अधिकाः परिकीर्तिताः || तेभ्योपि देव गन्धर्वाः पितरश्च ततः परम् | कर्मदेवाः समाख्यातास्तथा देवास्ततः परम् || तेभ्य इन्द्रोधिकस्तस्मादधिकस्तु बृहस्पतिः | बृहस्पतेरपि प्राज्ञः प्रजानामधिपः स्मृतः || प्रजापतेरपि ब्रह्मा ब्रह्मणो विष्णुरेव च | विष्णोरपि हरस्तस्मान्मायी साक्षान्महेश्वरः || विश्वाधिक पराण्येव नैव विश्वपराणि वै | तथा स्मृति पुराणानि भारतादीनि वै पुनः || शास्त्रान्तराणि तर्काश्च श्रुत्यनुग्राहकास्तथा | विना साक्षाच्छिवं साम्बं प्रमाणान्यखिलान्यपि || विश्वाधिकतया नान्यं प्रवदन्ति कदाचन | महेश्वर पुराणानि समस्तानि महामुने || प्. १९७) असाधारणया मूर्त्या नाम्ना साधारणेन च | वदन्ति परमं तत्वं शिवं साम्बं त्रिलोचनम् || नृत्यन्तं स्वपरानन्द प्रमोदं चन्द्रशेखरम् | त्रिमूर्तीनां हरं चापि तदंशं तस्य दैवतम् || तदंशस्यापि मानं च वदन्ति च सदा शिवम् | वैष्णवानि पुराणानि समस्तानि च वै पुनः || त्रिमूर्तीनां हरेर्नाम्ना मूर्त्या तस्य परं पदम् | प्रवदन्ति पुराणे द्वे ब्राह्मे चैवानया दिशा | अष्टादश पुराणानां निष्ठा काष्ठा महेश्वरः || वैष्णवानि पुराणानि त्रिमूर्तीनां हरेरपि | तदंशस्य तदंशस्य वैभवञ्च वदन्ति हि || योपकर्षो हरेर्दृष्टः शाम्भवेष्वखिलेष्वपि | पुराणेषु हरेः साक्षान्मूल भूतस्य सत्तम | वैष्णवेषु पुराणेषु योऽप कर्षस्तु दृश्यते || रुद्रस्यासौ हरस्यापि विभूतेरेव केवलम् | उत्कर्षोयः पुराणेषु दृश्यते शाम्भवेषु च || रुद्रस्यासौ स्वरूपेण मुने तत्वात्मनापि च | उत्कर्षोयः पुराणेषु दृश्यते वैष्णवेषु च || असौ तत्वात्मना विष्णोर्नस्वरूपेण सत्तम | एवं पुराणयोः साक्षाद्ब्रह्मणो दर्शिता च दिक् || पावकस्य पुराणे च तथा सौरे च सत्तम | प्. १९८) आधिक्यं देवदेवस्य शिवस्य परमात्मनः || अविज्ञाय नरा विष्णुं वरिष्टं मन्यते भ्रमात् | रुद्राधिक्यमविज्ञाय ब्रह्म नारायणौ पुरा || अहं ब्रह्मत्वहं चेति विभ्रमात्कुरुताद्रणम् | क्रोधेन महतायुक्तो ब्रह्मा सर्वजगत्पतिः | शशाप विष्णुं गर्भस्थो भवत्विति विमोहितः || त्वद्भक्ता ब्राह्मणाः साक्षात् त्रिपुंड्रे भस्म कुण्ठने | भवेयुर्विमुखा नित्यं वेदसिद्धे विमुक्तिदे || त्रिशूले चतुरश्रे वा वेणुपत्रोपमे तथा | पुण्ड्रान्तरेरता नित्यं भवेयुस्तान्तिका द्विजाः || आयुधः शंखचक्राद्यैस्त्वदीयैरङ्किता जनाः | अग्नितप्तैर्महामोहात् भवेयुश्चांसयोर्द्वयोः || वेदाध्ययन मार्गेण त्वदीयाराधने द्विजाः | त्वद्भक्ता विमुखानित्यं भवेयुः परिमोहिताः || त्वदीये पाञ्चरात्रे च तन्त्रे भागवतेपि च | दीक्षिताश्च द्विजानित्यं भवेयुर्निर्भया हरे | श्रौतस्मार्त सदाचारे सद्योमुक्तिकरे शुभे || त्वद्भक्ता विमुखानित्यं भवेयुः परिमोहिताः | एवं विष्णुर्विरिंचेन शप्तोमोहवशंगतः | महाक्रोधेन संयुक्तः शशाप चतुराननम् || शङ्करेण भवेच्छिन्नं त्वदीयं पञ्चमं शिरः | पङ्कजोद्भवकेनापि कारणेनाचिरेण तु || त्वद्भक्ता ब्राह्मणा लोके क्षत्रियावैश्य संभवाः | शूद्राश्च संकरानित्यं भवेयुश्चतुरानन || प्. १९९) तन्त्रं त्वदीयं विच्छिन्नं भवेत्सर्वत्र सर्वदा | न भवेत्त्वत् प्रतिष्ठा च स्वतन्त्रा पद्मसंभव || एवं प्रस्खलितौ मोहात् तावप्यभवतां द्विज | अविज्ञाय शिवाधिक्यं महामोहस्य वैभवात् || आधिक्यं सर्व देवेभ्यो मनुते शंकरस्य यः | संसारसागरात्तीर्णो मुक्तिपारं च गच्छति || रुद्रं विश्वाधिकं साक्षात्सर्वदा सर्वसाक्षिणम् | सर्वस्मादधिकं चैवमनुते स तु शंकरः | सर्वस्मादधिकत्वं ये न वदन्ति पिनाकिनः || सममन्यैर्वदन्त्येनं ते महापातकैर्युताः | आधिक्यं सर्वमानानां यथावेदस्य विद्यते | तथा रुद्रस्य देवानां माधिक्यं विद्यतेऽनघ || इति सकलश्रुतिसार आदरात्तव कथितः कृपयैव केवलम् | शुकहृदये प्रतिभाति चेदयं तरतिजनः स्वकशोक सागरम् || अतः परं प्रवक्ष्यामि देवता लिङ्गमादरात् | यस्य विज्ञानमात्रेण प्रसीदति महेश्वरः || देवता द्विविधा प्रोक्ता श्रौताश्रौतविभागतः | श्रौत धर्मैकनिष्ठानां श्रुति सिद्धा हि देवताः || अश्रौत तन्त्र निष्ठाना श्रुतिसिद्धा न देवताः | अश्रौतधर्म निष्ठानांमश्रौता एव देवताः | श्रौतधर्मैकनिष्ठानां लिङ्गन्तु श्रौतमेव हि || प्. २००) अश्रौतधर्मनिष्ठानामश्रौतं लिङ्गमीरितम् | देवता वेद सिद्धायाः तासां लिङ्गन्तु वैदिकम् || अश्रौत तन्त्रनिष्ठायास्तासामश्रौतमेव हि | श्रौतं लिङ्गन्तु विज्ञेयं त्रिपुण्ड्रोद्धूलनात्मकम् | अश्रौतमूर्ध्व पुण्ड्रादि न वै तिर्यक् त्रिपुण्ड्रकम् || वेदसिद्धो महादेवः साक्षात्संसरमोचकः | उमार्धविग्रहः शुद्धश्चन्द्रर्ध कृतशेखरः || लोकानामुपकाराय श्रौतं लिङ्गं दधाति च | वेद सिद्धस्य विष्णोश्च श्रौतं लिङ्गं न चेतरत् || प्रादुर्भाव विशेषाणामपि तस्य तदेव हि | ब्रह्मणो वेद सिद्धस्य श्रौतं लिङ्गं न चेतरत् | प्रादुर्भाव विशेषाणामपि तस्य तदेव हि || देवता देव सिद्धायास्तासां लिङ्गन्तु वैदिकम् | प्रादुर्भावविशेषाणामपि तासां तदेव हि | तन्त्रसिद्धो महादेवः तन्त्रसिद्धेन वर्त्मना || दधाति भस्मना तिर्यक् त्रिपुण्ड्रं भक्तवत्सलः | तन्त्रसिद्ध्हो महाविष्णु स्त्रिशूलं चोर्ध्वपुण्ड्रकम् || दधाति भक्तरक्षार्थं ललाटे चतुरश्रकम् | तन्त्रसिद्धो विरिञ्चश्च वर्तुलं तन्त्रवर्त्मना || दधाति भक्तरक्षार्थं ललाटे करुणानिधिः || प्. २०१) इन्द्रादि देवतानाञ्च वज्रपाशां कुशादयः | लिङ्गत्वे नैव निर्दिष्टास्तन्त्रोक्ते नैव वर्त्मना || तन्त्रनिष्ठः शिवे भक्तः तन्निष्ठेनैव वत्मना | त्रिपुण्ड्रं धारयेन्नित्यं ललाटे भस्मनैव तु || तन्त्र निष्ठस्तथा विष्णोः भक्तस्तन्त्रेण वर्त्मना | त्रिशूलं चतुरश्रं वा धारयेदूर्ध्व पुंड्रकम् || तन्त्रनिष्ठस्तथा नित्यं भक्तःसाक्षाच्चतुर्मुखे | ललाटे वर्तुलं भक्त्या धारयेत् तन्त्रवर्त्मना || इन्द्रादि देवता भक्तस्तन्त्रनिष्ठस्तथा नरः | ललाटे धारयेन्नित्यं वज्र पाशांकुशादिकम् || तान्त्रिकाणां च सर्वेषां भस्मनैव त्रिपुण्ड्रकम् | वरिष्ठं सर्वलिङ्गेभ्यः सत्यमेव न संशयः || तन्त्रनिष्ठो महादेव भक्तान्त्रिपुंड्रकम् | विना पुण्ड्रान्तरं मोहात् धारयेन्नारकी भवेत् | ललाटे भस्मना तिर्यक्त्रिपुण्ड्रं यत्तु तन्मयम् || लिङ्गं महेश्वरं प्रोक्तं वैष्णवं ब्राह्ममेव च | शैवं भागवतं ब्राह्मं तल्लिङ्गं परिकीर्तितम् | वैदिकस्तल्ललाटे तु धारयेद्वेद वर्त्मना || महापापवतांनॄणां वेदसिद्धमहेश्वरे | त्रिपुण्ड्रोद्धूलनादौ च प्रद्वेषश्च प्रजायते || यस्यस्यात्पितरिद्वेषः शर्वे वा जगतां गुरौ | उत्पत्तौ तस्य सां कर्यमनुमेयं विपश्चिता || वेदमार्गसमं मार्गंमितरं मनुते तु यः | अधिकं वास्य सांकर्यमनुमेयं विपश्चिता || शिवरुद्र मेहशान ब्रह्मेशानादि नामभिः | समं विष्ण्वादिशब्दं यो मनुते स हि शंकरः || प्. २०२) यस्यस्याद्भस्मनि द्वेष स्त्रिपुण्ड्रोद्धूलनेपि च | उत्पत्तौ तस्य सांकर्यमनुमेयं विपश्चिता || महादेवाधिकं विष्णुं मनुते यस्तु मानवः | तस्य वंशस्य साङ्कर्यमनुमेयं विपश्चिता || पापानामपि बाहुल्याद्दधीचस्य हि शापतः | गौतमस्य मुनेः शापाच्छ्रौतं लिङ्गं न रोचते || प्रत्युत्तरं च विज्ञानादश्रौते चोर्ध्वपुण्ड्रके | ब्राह्मणाः क्षत्रियावैश्याः श्रद्धां कुर्वन्ति चाप्रे || अनेक जन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् | वेदोक्तेनैव मार्गेण त्रिपुण्ड्रे जायते रतिः | भस्मना वेद मन्त्रेण त्रिपुण्ड्रं चावकुंठनम् || यस्य सिद्धयेत्प्रयत्नेन शाम्भवं तस्य पुष्कलम् | वेदवेदान्तनिष्ठानां भस्मनैव त्रिपुण्ड्रकम् || सम्यज्ज्ञानप्रदं शीघ्रं सत्यमुक्तं न संशयः | भस्मनावेद मन्त्रेण त्रिपुण्ड्रस्य च धारणम् || महापातक संघात तमसश्चण्ड भास्करः | भस्मना वेद मन्त्रेण त्रिपुंड्रस्य च धारणम् || सर्वपापहरं प्रोक्तं सत्यमुक्तं न संशयः | भस्मना वेदमन्त्रेण त्रिपुंड्रस्य च धारणम् || शिवस्य विष्णोर्देवानां ब्रह्मणस्तृप्तिकारणम् | भस्मना वेदमन्त्रेण त्रिपुण्ड्रस्य च धारणम् | भारत्याश्च महालक्ष्म्यः पार्वत्यास्तृप्तिकारणम् || प्. २०३) भस्मना वेदमन्त्रेण त्रिपुंड्रस्य च धारणम् | विनामुक्तिर्मनुष्याणां देवानां च न सिध्यति || भस्मना वेदमन्त्रेण त्रिपुंड्रस्य च धारणम् | विना मुक्तिर्मनुष्याणां देवानां च न सिध्यति || भस्मना वेद मन्त्रेण त्रिपुण्ड्रस्य च धारणम् | विना वेदान्त विज्ञानं जायते नैव कस्यचित् || भस्मना वेदमन्त्रेण त्रिपुंड्रस्य च धारणम् | विना वेदोदिताचारः स्मार्तश्चानर्थ कारणम् || भस्मना वेदमन्त्रेण त्रिपुंड्रस्य च धारणम् | सतां मार्गतया प्राज्ञाः प्रवदन्ति मर्षयः || भस्मना वेदमन्त्रेण त्रिपुण्ड्रस्य च धारणम् | वर्णधर्मतया प्राज्ञाः प्रवदन्ति मनीषिणः || भस्मना वेदमन्त्रेण त्रिपुंड्रस्य च धारणम् | आश्रमाणां च सर्वेषां धर्मत्वेनाहुरास्तिकाः || भस्मना वेदमार्गेण त्रिपुंड्रस्य च धारणम् | रक्षार्थं मङ्गलार्थञ्च प्रवदन्ति महर्षयः || बहुनात्र किमुक्तेन सर्वसिद्धिकरं परम् | त्रिपुण्ड्रधारणं मुक्त्वा मुक्तिमिच्छति यः पुमान् | विषयानेन नित्यत्वं कुरुते ह्यात्मनो हि सः || अतस्त्रिपुंड्रं रचयेद्वैष्णवं ब्राह्मं च शैवंमनुजः सदैव | विमुक्तिकामस्तु सितेन भस्मना श्रुति प्रसिद्धेन हि वर्त्मना मुदा || इत्यादिभिस्तु वचनैः पराशर सुभाषितैः | प्. २०४) कलौ कालुष्यनाशाय शिवलिङ्गं प्रपूजयेत् | अष्टावर्ण विज्ञानी पञ्चाचारपरायणः || वैदिकं कर्मकुर्वीत ज्ञानैकफलसाधनम् | न कुर्यात्पाशवं कर्मवीरशैवः कदाचन || वैदिका एव यतयः ना चरन्ति यथा बुधाः | तद्वज्ज्ञानैक साध्यानि कुर्वीतागम तत्परः || आगमार्थावेद सिद्धा वैदिका आगमोदिताः | उभय ज्ञानकुशलस्तद्धर्मानाचरेद्बुधः || मोक्षमार्गैक विमुखाः कलिकलमष चेतसः | परस्परं विनिन्दन्ति न स्वात्महित कारिणः || वीरशैवोक्तधर्मास्ते पराशर पुराणतः | बृंहिता वेद सिद्धाश्च स्मृतिष्वपि त एव हि || अतो वेदपुराण स्मृत्युक्ता आगम चोदिताः | प्रत्येकमभिधास्यास्ते शिवधर्माः समीहिताः || ब्रह्मविद्याङ्गमित्येव मन्त्रवर्णन संगतिः | ब्रह्मविद्याङ्गता तेषां तत्तत्प्रकरणे पुनः || स्फुटी भविष्यति प्रांशुयुक्तिभिस्तत्वमार्गतः | व्याससूत्रानुकूलत्वं वर्णितं प्रतिसूत्रके || वैदिकत्वं सिद्धमेव यत्तेषामेक रूपता | वैदिकाचरणीयत्वं वैदिकत्वादनिन्दितम् || प्. २०५) तान्त्रिकं द्विविधं वेदविहितं तद्विरुद्धकम् | प्रमाणमुभयं चापि परमाप्तोपदेशतः || तान्त्रिकं वेदविहितं वीरशैवमुदाहृतम् | केवलाद्वैदिकाद्धर्मादेतदेव विशिष्यते || यथार्थाधनिनां पुंसामग्निहोत्रमुपासनम् | सर्वाधानीनोभयार्हः श्रौतमात्रं हि तस्य च || गृह्याग्नि कर्मणां लोपाद्यथा नैव विशिष्यते | उभयार्होवीरशैवस्तान्त्रिको वैदिकोत्तमः | वैदिकस्तान्त्रिकान् धर्मान् नार्हत्येवादीक्षितः || यच्च वेदे निषिद्धं स्यात्कापालादिमतं पुनः | अवेदाधिकृतान्यं तदे तदुक्तं समञ्जसम् || अत्रेदं विचार्यते- कैश्चिदथातो ब्रह्मजिज्ञासेत्यत्रा सूत्रित एवाध्यासः प्रपञ्चितः | न चाद्यसूत्रस्य विषय प्रयोजन सूचकत्वाद्विषयस्य च जीव ब्रह्मणोः स्वरूपैक्य लक्षणस्य तज्ज्ञानस्य चाध्यासाधीनत्वात् सोऽर्थात्सूत्रित एवेति वाच्यम् | जीव ब्रह्मणोः स्वरूपैक्यस्या भावेन तस्य विषयत्वासं प्रतिपत्तेः | न हि जीवब्रह्मणोः स्वरूपैक्यं क्वचित्सूत्रितम् | प्रत्युतांशो नाना व्यपदेशादित्यत्र जीवो ब्रह्मणोंशो भिन्नाभिन्नश्च अग्नेरिव विष्फुलिङ्गा इत्युक्तम् | न ह्यग्नि विष्फिलिङ्गयोः स्वरूपैक्यमस्ति | येन जीवब्रह्मणोरपि भवेत् | न च भेदा भेदयोर्विरोधेनैकत्रा संभवादविद्या लक्षणोपाधिकृतो मिथ्याभेद एव तत्राभिहित इति वाच्यम् | उभय व्यपदेशात्त्वहि कुण्डलवत्प्रकाशाश्रयवद्वा तेजस्त्वात् पूर्ववद्वा अनुज्ञापरिहारौ देहसम्बंधाज्जोतिरादिवत् | तत्संभाव्यापत्तिरुपपत्तेः प्रदीपवद | देशस्तथा हि दर्शयतीति च भेदा भेदयोः प्रमाणसिद्धत्वेन दृष्टान्तेषु दृष्टत्वेन चाविरोधस्यैव व्यवस्थापनात् | तथा च तत्रैव वक्ष्यते तथा भोक्त्रापत्तेरवि भागश्चेत् स्याल्लोकवदित्यत्राप्य विरोधः समर्थितः | तथा हि इदं सूत्रं तैरेवैवं व्याख्यातम् | अन्यथा पुनर्ब्रह्म कारणवादस्तर्कबलेनैवा क्षिप्यते | यद्यपि श्रुतिः प्रमाणं स्वविषये भवति तथापि प्रमाणान्तरेण विषयापहारेन्य परा भवितुमर्हति | यथा मंत्रर्थवादौ | तर्कोपि स्वविषयादन्यत्रा प्रतिष्ठितः स्यात् | यथा धर्माधर्मयोः किमतो यद्येवमत इदमयुक्तम् | यत्पुनः प्रमाणान्तर सिद्धार्थबोधनं श्रुतेः | कः पुनः प्रमाणान्तर सिद्धोऽर्थः श्रुत्या बाध्यते इत्युच्यते | प्रसिद्धोह्ययं भोक्तृभोज्य विभागो लोके | प्. २०७) भोक्ता चेतनः शारीरः | भोज्याः शब्दादयो विषया इति | यथा भोक्तादेवदत्तः | ओदनश्च भोग्य इति | अस्य च भोक्तृ भोग्य विभागस्या भावः प्रसज्येत | यदि भोक्ता भोग्यभावमपद्येत | भोग्यं वा भोक्तृभावम् | तयोश्चेतरेतर भावापत्तिं परमाकारणाद्ब्रह्मणो नन्यत्वात्प्रसज्येत | न चास्य प्रसिद्धस्य विभागस्य बाधनं युक्तम् | अतो न युक्तं ब्रह्म कारणत्वा व धारणमिति चेत् कश्चिद्ब्रूयात् तं प्रतिब्रूयात् स्याल्लोकवदिति | उपपद्यत एवायमस्मत् पक्षेऽपि विभागः | एवं लोके दृष्टत्वात् | यथा समुद्रादुदकात्मनोऽनन्यत्वेपि फेनवीच्यादीनामितरेतर विभाग उपलक्ष्यते | न च समुद्रादुदकात्मनो नन्यत्वेपि फेनवीच्यादीनामितरेतर भावापत्तिर्भवति | न च तेषामितरेतर भावानापत्तौ समुद्रादुदकात्मनोऽनन्यत्वं न भवति | एवमिहापि न भोक्तृ भोग्ययोरितरेतर भावापत्तिः | नापि ब्रह्मणः सदात्मकादनन्यत्वा भाव इति भविष्यतीति || नन्विदमविरोध समर्थ नमभ्युपगमवादमात्रम् | तदनन्यत्वमारम्भण शब्दादिभ्य इति सूत्रेण वाचारंभणादि श्रुत्या सर्वस्यापि प्रपञ्चस्य बाधितत्व समर्थनादिति चेन्न | न ह्यनेन सूत्रेण कृत्स्नस्य प्रपञ्चस्य बाधितत्वं समर्थ्यते | प्. २०८) तथा हि प्रत्यक्षादि प्रमाण सिद्धो भेदप्रपञ्चः श्रुत्याबाधितुं शक्यते | प्रत्यक्ष विरोधे श्रुतीनामेवान्यपरत्व दर्शनात् | यथा कृष्णलं श्रपयेदिति विधेः स्वर्णमाषे प्रत्यक्षेण विकृत्तिबाधे उष्णीकरणमात्रपरता | यथा वा सोमेन यजेतेत्यत्र यागेन भावयेदित्यर्धाङ्गीकारात्सोमेन यागेनेत्यनयोः सामानाधिकरण्येनान्वये सति सोमलता यागयोः अभेदस्य प्रत्यक्षबाधितत्वात् | सोमलता यागेनेति सोमशब्दस्य लक्षणया तत्संबन्धिपरताश्रुता | परैरपि तत्त्वमसीति वाक्ये वाच्यार्थयोरभेदस्य प्रत्यक्षबाधितत्वात् लक्ष्यार्था भेदपरताङ्गी कृता | अपि च यदि कृत्स्नस्य प्रपञ्चस्य बाधोऽभ्युपगम्येत तर्हि श्रुतिस्वरूपस्य तज्जन्य पदार्थ स्मरणस्य वाक्यार्थ ज्ञानस्य च प्रपञ्चान्तः पातित्वात्तेषामपि बाधे सति कथं प्रपञ्चबाधसिद्धिः | कथं वा जननी मे वन्ध्या मम जिह्वानास्तीवन्न व्याहतिः | न च प्रपञ्चबाधेपि तत्स्वरूपं तिष्ठत्येव | ततस्तत्कार्यमपि उपपद्यत इति वाच्यम् | प्रतियोग्यप्रतिषेधकेऽभाव व्यपदेशस्य परिभाषामात्रत्वात् | न च श्रुत्यानु प्रपञ्च स्वरूपं बाध्यते | येन व्याघातः स्यात् | किन्तु तस्य सत्यमिति वाच्यम् | स्वरूपबाधाभावेऽबाधितत्वरूप सत्यत्वस्यापि प्रपञ्चेऽभ्युपगमेन सत्यत्वबाधस्यात्यनुपपत्तेः | तस्मान्नानेन प्रपञ्चबाधः समर्थ्यते | किन्त्वभेद एवेति नास्ति भेदाभेदयोर्विरोध इति स्थितम् || तथान्यत्रापीतर व्यपदेशाद्धिताकरणादिदोषप्रसक्तिति | तत्त्वमसीति जीव ब्रह्मणोरभेद व्यपदेशाद्ब्रह्मकर्तृका सृष्टिर्जीवकर्तृकैवेति जीवस्य हितमेव सृजेन्नाहितं नरकादीत्याशंक्याधिकन्तु भेदनिर्देशादित्यनेन जीवो न कर्ता किन्तु तदधिकं ब्रह्मैव कर्तृ | तच्च जीवस्याहितमपि सृजत्ये वेत्युक्त्वा कथमभेदेहीनाधिकभावः | कथं वेश्वरः सर्वज्ञतया सर्वाञ्जीवान् स्वात्मत्वेनपश्यन् तेषु शोक मोहादिकम् सृजेत् | शोकादेः स्ववृत्तितयानुभव प्रसङ्गादित्याशंक्याश्मादिवच्च तदनुपपत्तिरित्यनेन यथाश्मनां वैडूर्य सूर्यकान्तप्रभृतीनां पाषाणत्वेन सामान्यात्मनाऽभेदेपि व्यक्तिभेदाधीन मध्यमोत्तम स्वभावेन स्वरूप वैचित्र्यं च | एवं जीवपरमात्मनोरपि व्यक्ति भेदाधीनाधिक भावः कार्यवैचित्र्यं चोपपद्यत इत्युक्तम् | न च पाषाणत्व सामान्यमभिन्नं व्यक्तयस्तु भिन्ना एवेति नैकत्र भेदाभेदाविति वाच्यम् | पाषाणत्वसामान्यावच्छिन्न प्रतियोगिक भेदाभाव रूपाभेदस्य वैडूर्यत्वावच्छिन्न प्रतियोगिक भेदस्य च व्यक्तिष्वेव संप्रतिपन्नत्वात् | प्. २१०) न चैवं वज्र वैडूर्ययोरपि सामानाधिकरण्य व्यवहार प्रसङ्गः | सामान्यभेदोल्लेखिनस्तस्या वश्याभ्युपेयत्वात् | विशेषाबेदस्य चा भावात् अत एवेश्वरेपि आत्मत्वेनैव जीवाभेद दृष्टिः सूत्रिता आत्मेतितूपगच्छन्ति ग्राहयन्ति चेति | अत-एव च परैरपि व्यक्तिस्थानीयमहंकारांशमपहाय सामान्य स्थानीयस्य चैतन्यस्यैवा भेदोऽभ्युपगतः | एवञ्च यद्यपि सामानाधिकरण्य व्यवहारस्य भेदाहावोप लक्षितं विशिष्टं वा स्वरूपं विषयः | तथापि सर्वात्मना यत्र भेदग्राहि प्रमाणं नास्ति तत्र स्वरूपैक्यं विषयः सोऽयं देवदत्त इत्यादौ | यत्र तु भेदग्राहक प्रमाणमस्ति कार्यकारणादौ तत्र पृथक् सत्तावच्छेदक भेदाभावोपलक्षितस्वरूपद्वयं सामान्य भेदाभावोपलक्षित स्वरूपद्वयं वा विषयः | प्रकृते च उततमादेशमप्राक्ष्य इत्येक विज्ञानेन सर्वविज्ञानोक्त्या सर्वात्मकत्वं प्रतिज्ञाय तदुपपादके ग्रन्थे एतदात्म्यमिदं सर्वमिति नवकृत्वोऽभ्यस्तेपि सामानाधिकरण्य व्यपदेशो यथा न ब्रह्म प्रपञ्चयोः स्वरूपैक्यं विषयी करोति | एवं तत्त्वमसीति व्यपदेशोपि भेदाभेद व्यपदेशस्यो भयत्रापि तुल्यत्वात् | नान्योऽतोऽस्ति द्रष्टा | यत्र नान्यत्पश्यति | यस्मात्परं ना परमस्ति किञ्चिदिति भेद निवेदस्य चेतनत्वा चेतनत्वाभ्यां संसारित्वाभ्यां विरुद्ध धर्मवत्वस्य चोभयत्रापि तुल्यत्वात् || प्. २११) ततश्च भेदनिषेधाद्भेद प्रतिपादनाच्च भेदाभेदौ सिद्ध्यतः | तस्मान्नास्ति भेदाभेदयो विरोधः | यदुक्तमविद्या लक्षणोपाधिकृतो मिथ्या भेद इति | तथा अविद्यायास्तदुपाधिकत्वस्य मिथ्यात्वस्य च कुत्राप्यसूत्रितत्वात् | न चानुमानिकमप्येकेषामित्यत्र सूक्ष्मन्तु तदर्हत्वादित्यविद्या सूत्रिते इति वाच्यम् | तत्र महतः परतः परमव्यक्तमित्यत्राव्यक्तशब्देन त्रिगुणं प्रधानं गृह्यत इति शङ्कायां शरीररूपकविन्यस्त गृहीतेरित्यनेन आत्मानं रथिनं विद्धि शरीरं रथमेव चेति मन्त्रे रथत्वेन निरूपितं शरीरमेव गृह्यते | न तु प्रधानमित्युक्त्वा शरीरस्य व्यक्तत्वात् कथमव्यक्तत्वमित्याकांक्षायां सूक्ष्मं तु तदर्हत्वादित्यनेन सूक्ष्मशरीरमेवा व्यक्तशब्देन गृह्यते | न स्थूलशरीरमित्येवोक्तम् | न त्रिगुणा विद्याव्यक्तशब्देन गृह्यत इति सम्प्तति पन्नसूक्ष्म शरीरसंभवेऽप्रसिद्धा विद्या ग्रहणायोगादविद्याया उपादानतया ब्रह्माणु व्यापित्वस्य चाहमज्ञ इति सर्व प्रत्यक्षस्य चाभ्युपगमेन सूक्ष्मत्वाव्यक्त शब्दार्हत्वयोरयोगाच्च | अन्यथा पूर्वसूत्रेऽव्यक्तशब्देन शरीरं गृह्यत इत्युक्त्वोत्तरत्राविद्यागृह्यत इत्युच्यमाने व्याघातापत्तेः | प्रधानवादापत्तेश्च | न च तदधीनत्वादर्थ वदित्यनेन प्रधानं स्वतन्त्रमविद्यात्वीश्वराधीनेति वैलक्षण्यमुक्तमिति वाच्यम् | सेश्वरसाङ्ख्यानां योगानाञ्च मते प्रधानस्यापि ईश्वराधीनताया अभ्युपगमेन तावन्मात्रेण वै लक्षण्या सिद्धेः | प्. २१२) यथेन्द्रिय प्रवृत्तेरर्थाधीनत्वादिन्द्रियेभ्यः परत्वमर्था नामेवमात्म प्रवृत्तेः शरीराधीनत्वाच्छरीर स्यात्मनः परत्वमित्येवमर्थकत्वात् सूत्रस्य | किञ्च यद्यत्रा विद्यासूचिता स्यादुत्तराधिकरणमनारंभणीयं स्यात् | अजामन्त्रेपि तस्या एव ग्रहण संभवेन प्रधानग्रहणे विशेषकारणभावेन पूर्वपक्षानुत्थानात् | प्रत्युत पूर्वत्र देवात्मशक्तिं स्वगुणैर्निरूढामित्युत्तरत्र च मायां तु प्रकृतिं विद्यान्मायितं तु महेश्वरमित्यादिनाचेश्वराधीनताया एव प्रकृतेः प्रतिपादनेन मध्ये अजामन्त्रेपि तत्परामर्शस्यैव न्याययत्वात् | ज्योतिरुपक्रमात्तथा ह्यधीयत एके कल्पनोपदेशाच्च मध्वादिवदविरोध इति सर्वथाप्यनुपपन्नमेव स्यात् | अनादि भूताया अविद्याया अजाशब्देन मुख्यत्वाच्च प्रकृतत्वाच्च ग्रहण संभवे तत्परित्यागेन तेजोऽबन्नलक्षणं प्रकृतिमजाशब्देन शाखान्तटानुसाराद्गृहीत्वा तस्य जनिमत्वादजत्वा भावाच्चाजा शब्दानुपपत्तिरिति शंकायां यथा मधुन एवादित्यस्य असौवाऽदित्योदेवमध्विति मधुत्व कल्पनमेव मन आया एव तेजोबन्न प्रकृतेरजावदजेत्यजात्मकत्व कल्पनमित्यस्या संभवदुक्तिकत्वात् | तस्मात्तेजोबन्न लक्षण प्रकृति व्यतिरेकेणानादि भूताविद्या न सूत्राभिमता | न चास्ति | प्रमाणा भावात् | प्. २१३) न चाविद्यां विना निरवयवस्य ब्रह्मणो जगत्परिणामानुपपत्तिरिति वाच्यम् | कृत्स्न प्रसक्तिर्निरवयवत्व शब्दकोपोवेत्यादिना सूत्रेणैवाशंक्य परिहृतत्वात् | तथापि परिणामो नाम पदार्थानां पूर्वरूप परित्यागेन रूपान्तरापत्तिः | तत्र किं ब्रह्म सर्वात्मना परिणमते उतावयवत्वेन परिणमते | अवयवान्तरेणाव तिष्ठत इति वक्तव्यम् | तत्राद्ये प्रपञ्चकाले ब्रह्म न स्यात् | स्वरूप परित्यागेन कृत्स्नस्य कार्यरूपापन्नत्वात् | अन्त्येनिरवयवत्व श्रुतिव्याकोप इत्याशंक्य श्रुतेस्तु शब्दमूलत्वादित्यनेन परिहृतं भवेत् | एवमनुमान गम्येऽर्थे एवं विधतर्कस्य श्रुत्यैकसमधिगम्ये श्रुत्यैवार्थ तत्वं व्यवस्थापनीयम् | न तर्केण प्रयोजनमस्ति | यथोक्तम् अचिन्त्याः खलु ये भावा न तां स्तर्केण योजयेदिति | श्रुतिश्च निरवयवं ब्रह्म परिणमते घनस्वरूपं जहातीत्याह | तथा हि तेजोबन्नानां सृष्टिमुक्त्वानन्तरंमेव माम्नायते सेयं देवतैक्षत | हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानु प्रविश्य नामरूपे व्याकरवाणीति तेजोबन्न लक्षण परिणाम व्यतिरेकेण ईक्षितुः परमेश्वरस्य पृथगवस्थानाभिधानात् | लोकेपि न पूर्वरूपपरित्यागेन रूपान्तरापत्तिः परिणामः | उपादाननाशे निराश्रयस्य परिणामस्या संभवात् | किन्तु स्थित एव उपादाने तदभिन्न व्यवहार योग्य कार्योत्पत्तिरेव परिणामः | शरादौ गत्यादिरिवेत्युक्तम् | आत्मनि चैवं विचित्राश्चहीति | यथा जीवात्मनि जीवस्वरूपानुपमर्देनैव कार्यान्तरोत्पत्तिश्चित्रा बुद्धीच्छादयः परिणाम विशेषा उत्पद्यन्ते | प्. २१४) तथा च मृत्तन्त्वादिषु घटपटादयः | यत्रोत्पादने उत्पस्त्यमान विरोधिकार्यान्तरं वर्तते तत्रोपमर्देनैव कार्यान्तरोत्पत्तिः | यथा पिण्डोपमर्देन घटोत्पत्तिः | यत्र तु विरोधि कार्यान्तरं नास्ति तत्रा भावोपमर्देनैव भावान्तरोत्पत्तिः | यथा तन्तुषु पटाभावोपर्देनैव पटोत्पत्तिः अंकुरादावपि न बीजादिकमुपादानम् | कार्यान्वयित्वात् | कार्यान्वयिन एवोपादानत्वाच्च | किन्तूभयानु स्यूतावयवा एव | तथा च श्रुतिः एतस्य वै सेम्येषाणिम्न एव महान् न्यग्रोधस्तिष्ठति तेषाञ्च स्वरूपानुपमर्देनैवांकुरादि जनकत्वमुक्तं सूत्रकृता तर्कपादे नासतो दृष्टत्वादिति | व्रतं च तैरपि तथैव | एवं ब्रह्मणोपि निरवयवस्य स्वरूपानुपमर्देनैव जगत्परिणाम उपपद्यते | विपक्षे च बाधकमुक्तम् स्वपक्षदोषाच्चेति | प्रधानस्य सत्वादीनाञ्च कार्त्स्न्येन न परिणामे स्वरूपनाशापत्तिः | एकदेश परिणामाभ्युपगमे च निरवयवत्वाभ्युपगम व्याकोपः | सोऽयमविद्यायामपि समानोदोषः | अविद्याया अपि प्रधान तुल्यत्वात् | न चा विद्याया विचित्रशक्ति योगात् परिणामः संभवति | न ब्रह्मण इति वाच्यम् | परास्य शक्तिर्विविधैवश्रूयते इत्यादिश्रुत्या सर्वोपेता च तद्दर्शनादिति सूत्रेण च ब्रह्मण एव विचित्रशक्ति प्रतिपादनात् | अविद्यायां तादृशशक्तौ च प्रमाणाभावात् | एवं सूत्रार्थे ब्रह्म परिणामे स्थिते अविद्या परिणमते ब्रह्म विवर्तत इत्यभिधानमयुक्तम् | आत्मकृतेः परिणामादिति सूत्र विरुद्धञ्च | प्. २१५) यद्यविद्यैव परिणमते न ब्रह्म तदा न विलक्षणत्वादस्य तथात्वञ्च शब्दादित्यधिकरणमनुपपन्नं स्यात् | अविद्या जगतोर्वैलक्षण्या भावात् | ब्रह्मणश्च परिणामानभ्युपगमात् | किञ्च यद्यविद्या नाम काचिदनादिसिद्धा आश्रीयते तस्याः ब्रह्मविकारत्व भावेन ब्रह्मभेदाभावात् ब्रह्मणि विज्ञातेऽपि सा न विज्ञातैवेति एक विज्ञानेन सर्वविज्ञान प्रतिज्ञा पीड्येत | तस्मान्नास्त्येवा विद्या | नापि जीवपरभेदस्यौपाधिकत्वं क्वचित् सूत्रितम् || न चात एवोपमा सूर्यकादिवदित्यत्रौपाधिकत्वं न क्वचित्सूत्रितमिति वाच्यम् | तत्र हि जीवपरभेदस्यौपाधिकत्वं न सूच्यते | किन्तर्हि ब्रह्मण एवाणोरणीयन्महतो महीया नित्यादिनाणुत्व महत्वादि प्रतीतेस्तदुभयमस्तीति शंकायां न स्थानतोपि परस्योभयलिङ्ग सर्वत्रहीति | एकत्वाद्ब्रह्मणस्तस्मिन्विरुद्धरूपद्वयं न संभवतीत्युक्त्वा क्षेत्राणां भिन्नपरिणामत्व प्रतिभासे दृष्टान्त उपादीयते सूर्यकादिवदित्यत्र | एवं जलसूर्ययोः मूर्तद्रव्यत्वात् रूपवत्वाच्च तत्र प्रतिबिम्बः संभवति | ब्रह्मणस्त्व मूर्तद्रव्यत्वादरूपत्वाच्च प्रतिबिंबानुपपत्तिरित्यम्बुवदग्रहणात्तु न तथात्वं इत्यनेनाशंक्य न ह्यत्र बिम्ब प्रतिबिम्ब भावेन जीवेश्वर भेदोऽभिप्रेतः | किन्तु ब्रह्मण एव क्षेत्र परिणामानि रूपपरिणाम प्रतिभास इत्ययमेवार्थो दृष्टान्तो पादानेन विवक्षित इति स्पष्टीकृतम् | प्. २१६) वृद्धित्म स भाक्त्वमन्तर्भावादुभय सामञ्जस्या देवमिति | तस्मान्नास्ति भेदोऽस्योपाधिकत्वम् | अत एवै कस्मिन्नेवान्तरनु प्रविष्टयोर्भेदः प्रतिपाद्यते गुहां प्रविष्टा वात्मानौ हि तद्दर्शनादित्यादौ तस्माज्जीव परभेदस्य स्वाभाविकत्वान्नास्ति जीवपरयोः स्वरूपैक्यं शास्त्रविषयस्तर्हि तदेव प्रत्यधिकरणं प्रतिपाद्येत | न च प्रतिपाद्यते | किन्तु प्रत्यधिकरणं तेन तेन विषयवाक्येन जीवः प्रतिपाद्यते ईश्वरोवेति संशये जीव इति पूर्वपक्षं कृत्वा तत्तद्वाक्य प्रतिपाद्य धर्माणां जीवेऽसंभवात् तद्मतिरिक्तेश्वरः प्रतिपाद्यत इति प्रतिष्ठाप्यते || नेतरोऽनुपपत्तेः | भेद व्यपदेशाच्चान्यः | जीवमुख्य प्राणलिङ्गान्नेति चेत् सुसुप्त्युत्क्रान्त्योर्भेदेन | अनुपपत्तेस्तु न शारीरः | कर्मकर्तृव्यपदेशाच्च | स्मृतेश्चशब्दविशेषात् | अर्भकौकस्त्वात्तद्व्यपदेशाच्चेन्न निचाययत्वादेवं व्योमवच्च | सम्भोगप्राप्तिलिङ्गान्नेतिचेत् न वैशेष्यात् | अनवस्थिते रसंभवाच्च नेतरः | शारीरश्चोभयेपि हि भेदेनै नमधीयते | विशेषणभेद व्यपदेशाभ्यां च नेतरौ | प्राणभृच्च भेद व्यपदेशाच्च | प्रकरणाच्च स्थित्यदनाभ्याञ्च | ईक्षति कर्मव्यपदेशात्सः | इति | इतरपरामर्शात्स इति चेन्ना संभवात् | उत्तराच्चेदाविर्भूत स्वरूपस्तु | अन्यार्थश्च परामर्शः | नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् | अधिकन्तु भेद निर्देशात् | प्. २१७) अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनादित्यादिना च जीवौत्वसौपाधिकत्वात्तेन स्वरूपेण प्रतिपाद्यता परं निषिध्यते न स्वेनरूपेणेति वाच्यम् | एवं हि श्वरस्यौपाधिकत्वात्तेनापि रूपेण न प्रतिपाद्यता स्यात् | स्वरूपमात्रस्यैव स्वाभाविकत्वात् प्रतिपाद्यता स्यात् | न च तथा प्रतिपाद्यते | तत्प्रतिपादने हेत्वसंभवात् किंतु जीवव्यावृत्तेनेश्वरत्वेनैव रूपेण प्रतिपाद्यते | अन्तस्तद्धर्मोपदेशात् | अन्तर्याम्यधिदैवादिषु तद्धर्म व्यपदेशात् इत्यादिना | तस्मान्न जीव ब्रह्मणोः स्वरूपैक्यं न शास्त्र विषय | नापीदं प्रयोजनम् | जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च | भोगमात्र साम्यलिङ्गाच्चेत्यादिनामुक्तानामपीश्वरस्य च भेदस्यैव प्रतिपादनात् | तस्मादध्यासस्य विषय प्रयोजनानुपयोगित्वादसूत्रितत्वं सिद्धम् | तथा जन्माद्यस्य यतः इति ब्रह्मणो जगत्कारणत्वं लक्षणमुक्तम् | किं विधं तत्कारणमिति वीक्षायां प्रकृतिश्च प्रतिज्ञा दृष्टान्तानुपरोधादित्यादिना निमित्तमुपादानत्वं चेत्युक्तम् | एवं ब्रह्मण एवो भयविधकारणत्वे सूत्रिते कैश्चिदविद्योपादानमित्युक्तम् | अन्यैः सूक्ष्म चिदचित्प्रपंच उपादानमिति | अपरैः प्रकृतिरुपादानमिति | तदेतदुपाधानान्तराभिधानं सूत्रासम्बद्धम् | प्. २१८) तथा शास्त्रयोनित्वादिति ब्रह्मणः शास्त्रयोनित्वे सूत्रार्थे कैश्चिदवेद्यत्वं सूत्रविरुद्धमेवोक्तम् | न च शास्त्रवेवेद्यत्वं शास्त्रजन्यवृत्तिविषयत्वम् | अवेद्यत्वन्तु चैतन्याविषयत्वमिति ज्ञादभेदान्न विरोध इति वाच्यम् | ज्ञानभेदस्य क्वाप्य सूत्रितत्वेन तान्त्रिकत्वात् | न चान्यदेव तद्विदितादित्यवेद्यत्वमुक्तमितिवाच्यम् | तस्य विदिताविदित तत्तन्मात्रत्वनिषेधेन सर्वात्मत्व परत्वात् | यदि मन्यसे सुवेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणोरूपमित्यभिधानात् | तथा तत्तु समन्वयादिति ज्ञानविधिनिराकरण पूर्वकं अखण्डार्थत्वं वेदान्तानां कैश्चिदुक्तं तदपि सूत्रविरुद्धम् | सर्ववेदान्त प्रत्ययं चोदनाद्यविशेषात् | श्रुतिमात्रमुपादानमिति चेन्नापूर्वत्वात् | भावशब्दादिति च ज्ञानविधेः सूत्रितत्वात् | न च ज्ञानस्य मानाधीनत्वान्न विधेयत्वम् | विधेर्हि ज्ञान साध्यत्वे मोक्षस्या नित्यत्वं च स्यादिति वाच्यम् | समन्वयसूत्रे निरसिष्यमाणत्वात् | तथापारिप्लवार्था इति चेन्न द विशेषत्वात् तथा चैक वाक्योपबन्धादिति | यथा स प्रजापतिरात्मनो वपामुदख्खिददित्येवमादीनां कर्मकाण्डगतामाख्यानानां तूपरमालभेत इत्येवमादि विधिनैकवाक्यत्वं श्रुत्यादि द्वारा || एवमथयाज्ञवल्क्यस्य द्वेभार्येबभूव तु रित्येवमादीनां प्. २१९) वेदगतोपाख्यानानां आत्मावारे द्रष्टव्य इत्यादिना विद्या विधिनैकवाक्यत्वमित्युक्तत्वात् | तैरपि तथैव तत्र व्याख्यातत्वात् | तथा ईक्षतेर्नाशब्दम् | गौणश्चेन्नात्मशब्दात् | अदृश्यत्वादिगुणको धर्मोक्तेः | द्युभ्वाद्यायतनं स्वशब्दात् | शब्दादेव प्रमितः | इत्यादिभिः सूत्रैरसाधारणैर्ब्रह्मधर्मैः ब्रह्मवाचकशब्दैश्च ब्रह्मनिर्णये क्रियमाणेपि ब्रह्मनिर्धर्मकं कस्यापि शब्दस्य वाच्यं न भवतीत्यभिधानं सूत्रविरुद्धम् | न च ब्रह्मणि वास्तव धर्माभावेपि आरोपित धर्माणां सम्भवान्न विरोध इति वाच्यम् | जगत्कारणत्वादि धर्माणां आरोपितत्वस्य सर्वत्रापि सम्भवेन निर्णया हेतुत्वात् | जगत्कारणत्वादीनामन्यत्राप्रसिद्धतयारोपा संभवात् | वेदान्तानामारोपित धर्मविषयत्वे अप्रामाण्यापातात् | न च देहात्म प्रत्ययवत् यावदात्म तत्वज्ञानं प्रामाण्यमुपपद्यत इति वाच्यम् | न हि देहात्म प्रत्ययस्य लोकायतिकं मुक्त्वा केनचित्प्रामाण्यमभ्युपगम्यते | न हि प्रमाणं कदाचिदप्रमाणं भवति | अबाधित विषयं हि प्रमाणं बाधित विषयं चा प्रमाणम् | न हि बाधा बाधा वेकत्रसंभवतः | बाधो हि नाम त्रैकालिकनिषेधः | न हि यस्य यत्र त्रैकालिक निषेधस्तत्रैव तद्भावः संभवति | तस्माद्यत्प्रमाणं तत्सदैव प्रमाणम् | यद प्रमाणं तत्सदैवत्व प्रमाणम् | एवञ्च देहात्मप्रत्ययः सर्वदैवा प्रमाणम् | तदद्वेदान्ता अत्यप्रमाणं चेत्तदर्थ निर्णयाय विचारशास्त्रानर्थक्यं नास्तिकत्वापातश्च | प्. २२०) तथा आनन्दमयोऽभ्यासादित्यत्रानन्दमयस्य ब्रह्मत्वे त्वसूत्रिते तस्या ब्रह्मत्वाभिधानं सूत्र विरुद्धम् | न च यतो वाचो निवर्तन्त इति वाङ्मनसातीतत्वेन ब्रह्मणो निर्विशेषत्व प्रतिपादनात् प्रियशिरस्कत्वादि विशिष्टानन्दमयस्य न ब्रह्मत्वमिति वाच्यम् | न हि यतो वाचो निवर्तन्त इति वाक्येन ब्रह्मणो वाङ्मनसातीतत्वं प्रतिपाद्यते | आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेत्यस्या सङ्गतत्वापत्तेः | न हि वाङ्मनसातिरिक्तमानागम्यत्वं ब्रह्मणि संभवति | ब्रह्मणिमानान्तरा प्रवृत्तेः | नावेद विन्मनुते तं बृहन्तं मनसैवानु द्रष्टव्यमित्यादिशास्त्र विरोधाच्च | किन्तु ब्रह्मानन्दस्ये यत्ता परिच्छेदो अवाङ्मनस गोचर इति तस्यापरिमेयत्वमुच्यते | अत-एव तादृशमेव ब्रह्मानन्दं मनसा यो विजानाति स न बिभेति कुतश्चनेति मनसो वेद्यत्वमुच्यते | न च मनसेत्यध्याहारे मानाभावः | तदप्येष श्लोको बभति इति प्रतिज्ञा वाक्यस्यैवमानत्वात् | तदपि तत्रापि एषश्लोकोभवतीत्युक्त्वा आनन्दं ब्रह्मणो विद्वान् इति मनसा विद्वानिति लभ्यते | अन्यथा प्रशंसानव गमात् | प्रत्युत प्राप्यमनसा सहेति मनसोगम्यत्वेन निन्दावगम प्रसङ्गात् | किञ्च तैत्तिरीयके आरणे सप्तम प्रश्ने प्रवर्ग्यमन्त्रा आम्नाताः | तेषामादावन्ते च शान्तिः पठिता | नमो वाचे शंनोवातः पवतामित्यनुवाकाभ्याम् | अष्टमप्रश्ने तेषामेव मंत्राणां तत्कर्मविशेषे विनियोगः पठितः | प्. २२१) न तत्र पुनः शान्तिः पठ्यते | यथा तथा पञ्चमप्रश्ने ब्रह्मविद्यासपरिकरा आम्नाता दशभिरनुवाकैः | तस्याः पुरस्तादुपरिष्टाच्च शान्तिद्वयं पठितम् शंनोमित्रः शंवरुण इत्यनुवाकाभ्याम् | सहना व वत्विति तस्यैव शेषः | न पृथक्शान्तिः | नौ इत्यादीनां द्विवचनान्तानां शब्दानां तन्मां तद्वक्तारमिति पूर्वमन्त्राम्नाता वक्तृश्रोतृरूपद्वयसाकांक्षत्वेन तदेक वाक्यत्वस्य वक्तव्यत्वात् | तथैव सर्वलोकानुष्ठानाच्च | ब्रह्मविद्भृगुर्वा इत्यनुवाकद्वयं अपेक्षितार्थ समर्पणेन तस्यैव शेषभूतम् | अत-एव तत्र शान्तिः पुनः पठिता | ब्रह्मविद्या च तायो वेद स वेद ब्रह्म | सर्वेऽस्मै देवाबलिमावहन्तिं इति पठिता साचोपसनारूपेति सर्वसम्प्रतिपन्ना | इति प्राचीन योग्योपास्वेति दर्शनात् | उपासना यदि न मोक्षफला | किन्तु निर्विशेष ब्रह्मविद्यैव मोक्षफला | तदा तत्रैव पूर्वोत्तरशान्तिद्वयं पठ्येत | न च पठ्यते | तस्मादुपासनैव मोक्षफला | तत्र स वेद ब्रह्मेति ब्रह्मवेदनमुक्तम् | तत्र कथं विद्यात्कुत्र विद्यात् कीदृशं वा फलमित्याकांक्षायां ब्रह्मविदित्यनुवाकः | तत्र च सत्यं ज्ञानमनंतं ब्रह्म | यो वेद निहितं गुहाया परमेव्योमन् | सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति सङ्ग्रहेणाकाङ्क्षितार्थ समर्पणम् | सत्यं ज्ञानमनन्तं ब्रह्म इति प्रकार इतरद्व्यक्तम् | तत्र सत्यं नाम चद्वस्तु येन रूपेण निर्धारितं कालान्तरेपि तद्रूपं प्. २२२) न जहाति तदुच्यते | यत्तु कालान्तरे तद्रूपं जहाति तदनृत उच्यते | तथा हि एकं हि कार्य कारणात्मकं वस्तु मृद्घट इति कारणरूपेण कार्यरूपेण चावधारितम् | कालान्तरे मुद्गरप्रहारानन्तरं कार्यं घटरूपं जहाति | ततः कार्यमनृत मुच्यते | कारणन्तु तद्रूपं न जहाति | अतः कारणं सत्यमुच्यते | तच्च सत्यं द्विविधम् आपेक्षिकमनापेक्षिकं चेति | मृदादि स्वरूपमापेक्षिकं सत्यम् | प्रलयकाले तस्याप्यभाभावत् | ब्रह्मस्वरूपमनापेक्षिकम् | तस्य सदातनत्वात् | ततश्च सत्यशब्देन कारणत्वं नित्यत्वं चोच्यते | तेन रूपेण ज्ञातव्यमित्यर्थः | ब्रह्मणश्च कारणत्वमुपपादितम् | तस्माद्वा एतस्मादात्मनः आकाशः संभूतः | इदं सर्वमसृजतेत्यादिना नित्यत्वं च | असन्नेव स भवति असद्ब्रह्मेति वेद चेत् | अस्ति ब्रह्मेति चेद्वेद | संतमेनं ततो विदुरिति | ब्रह्म असदिति यो वेद असन् पुरुषार्थभाग्भवति | ब्रह्म अस्तीति इति शब्दः प्रकारार्थः | अस्त्येव सदेवेत्येवं यो वेदसः पुरुषार्थभाक् | तथा च श्रुत्यन्तरम् अस्तीत्येवोपलब्धव्य इति | अत्र ज्ञान शब्देन ज्ञाता आत्मोच्यते | न ह्ययं ज्ञानशब्दः ज्ञाधातोर्भावसाधनो ल्युट् प्रत्ययान्तो ज्ञप्तिवचनः | तथा सत्याद्युदात्तत्वेनाद्युदात्तः स्यात् | अन्तोदात्तश्चाधीयते | अतो ज्ञानमस्यास्तीतिमत्वर्थीयार्शाद्यच् प्रत्ययान्तश्चित इत्यन्तोदात्तः | ततश्च ज्ञाता आत्मेति | प्. २२३) तच्चात्मत्वमुपपादितम् | तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः | सोऽकामयत | बहुस्यां प्रजायेयेति | सतपो तप्यत | स तपस्तप्त्वा इदं सर्वससृजतेति ज्ञानेच्छा कृतिमत्वेन | तथा च श्रुत्यन्तरं आत्मेत्येवोपासितव्य इति | अनन्तरमिति यद्बुद्धिर्यतो निवर्ततोस्तस्यान्तः यथागोबुद्धिरश्वान्निवर्तते | तथा च परिच्छिन्नं वस्त्वन्तरवदित्युच्यते | यद्बुद्धिर्न कुतश्चिद्व्यावर्तते तदनन्तं सर्वात्मकं तच्चोपपादितम् बहुस्यां प्रजायेयेति | तदात्मानं स्वयमकुरुत सच्चत्यच्चा भवत् इत्यादिना | ततः सत्यत्वेनात्मत्वेन सर्वात्मत्वेन ब्रह्मविद्यादिति | तथा च श्रुत्यन्तरम् ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मेति | तथा चास्यानुवादकस्य प्रकाराद्याकांक्षा निवर्तनेन पूर्वशेषत्वम् | उत्तरानुवाकस्य किं तद्ब्रह्मेत्याकांक्षा निवर्तनात्पूर्वशेषत्वं स्फुटमेव | तथाचानुवाकद्वयस्य पूर्वशेषत्वे निर्विशेष प्रतिपादकत्वाभावादानन्द मयाधिकरणके निर्विशेष प्रतिपादनं सूत्रविरुद्धम् | श्रुतिविरुद्धञ्च | तथा तदनन्यत्वमारम्भण शब्दादिभ्य इत्यत्र कार्यस्य कारणाभिन्नत्वं सूत्रितम् | केचित्तु कारणव्यतिरेकेण कार्यस्या सत्वं मिथ्यात्वमाहुः | तदपि सूत्र विरुद्धम् | न ह्यनन्यत्वशब्दो सत्ववाची | किन्त्व भेदवाची | किञ्च यदि कारण व्यतिरेकेण कार्यमेव न भवेत् कथमेक विज्ञानेन सर्वविज्ञान प्रतिज्ञा समर्थ्येत | प्. २२४) अभेदे हि कार्यकारणयोः कारणे विज्ञाते कार्यमपि विज्ञातमिति शक्यते वक्तुम् | विज्ञातकारणा भिन्नत्वात्कार्यस्य | असत्वे पुनः कार्यस्य कथं कारण विज्ञानेन सर्वकार्य विज्ञानं सर्वस्यैवा भावात् | न च मृत्तिकेत्येव सत्यमिति कारणस्यैव सत्यत्वावधारणेन वाचारंभणादि शब्दैः कार्यानृतत्वाभिधानेन च कारण व्यतिरेकेण कार्यस्यासत्वं श्रुत्याप्रतिपाद्यत इति वाच्यम् | न हीयं श्रुतिर्मृत्तिकायाः सत्यत्वं विकारस्यानृतत्वं चा पूर्वं प्रतिपादयति | किन्तु लोष्टदृष्टमेव दृष्टान्तत्वेनानु वदति प्रसिद्धस्यैव दृष्टान्तत्वात् | लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्य स दृष्टान्त इत्यभियुक्तोक्तेः | तथा च यादृशं सत्यत्वं मृत्तिकाया लोकसिद्धं यादृशञ्चानृतत्वं विकारस्य तादृशमेवानुवदतीति वक्तव्यम् | न बाधि तत्वरूपमनृतत्वं विकारस्य लोकसिद्धम् | न हि घटकाले मृदिघटोनास्तीति बाधः प्रतीयते | तदप्यर्थ क्रिया विकासंवादो दृश्यते | नापि मृत्तिकायाः सत्यत्वम् अबाधितत्वरूप मुच्यते | तैस्तस्या अपि सत्यत्वा नङ्गीकारात् | मृद्घटयोरुभयोरपि व्यावहारिकसत्यत्वाभ्युपगमेन तैः सत्यत्व विशेषानङ्गीकाराच्च | किन्तु मृद्व्यतिरेकेण स्वातन्त्रेणान्यत्र घटादेः सत्वाभावानृतत्वं क घटव्यतिरेकेणापि पूर्वोत्तरकालयोः स्वातंत्र्येण सत्वमेव मृदः सत्यत्वम् | तथा च मृद्व्यतिरेकेण मृदात्मनां विनान्यत्र सत्वाभाव लक्षणमनृतत्वम् | प्. २२५) तदात्मतया तत्र सत्वरूपमभेदं गमयतीत्यभिप्रायेण तदनन्यत्वमारंभणशब्दादिभ्य इत्युक्तम् | न च मृदात्मतां विनान्यत्र सत्वाभावः | अत्यन्ता सत्वे नाप्युपपद्यत इति कथमभेदं साधयेदिति वाच्यम् | अत्यन्ता सत्वे कार्यत्वानुपपत्त्या मृद्घट इति सामानाधिकरण्य प्रतीतिबलेन चा भेदपर्यवसानात् | तथा च तैरेव वाक्यन्वयाधिकरण उक्तम् | आत्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञायानन्तरेण ग्रन्थेन तदेवोपपादयति | ब्रह्मतं परादाद्योऽन्यत्रात्मनो ब्रह्मवेदेत्यादिकाश्रुतिः | योहि ब्रह्मक्षत्रादिकं जगदात्मनोऽन्यत्र स्वातन्त्र्येण लब्धसद्भावं पश्यतितमिमं मिथ्यादर्शिनं तदेव मिथ्यादृष्टं ब्रह्मक्षत्रादिकं जगत्परा करोतीति भेददृष्टिमपोह्य इदं सर्वं यदयमात्मेति सर्वस्या वस्तु जातस्यात्म व्यतिरेकतामवतारयतीति | किञ्च वाचारम्भण वाक्येनैव विकारस्यानृतत्वमुपादानस्य सत्यत्वं चोच्यते | प्रकृतानुपयोगात् | किन्त्वभेद एवोच्यते | तस्य हि वाक्यस्यायमर्थः | आरभ्यत-इत्यारंभणम् | एतच्च नामधेय विशेषणम् | नपुंसकलिङ्गत्वात् | तथा घट इत्यादि नामधेयं वाचाकेवलमारभ्यते | न च मृद्व्यतिरिक्तः | मृदारभ्या घटादिरर्थः | स च विकारो घटादि मृत्तिकेत्येव सत्यमिति | तथा चोपादानाद्विकारस्यान्तभेदः प्रतिविध्यते | प्. २२६) अभेद एव प्रतिपाद्यते | न मृदः सत्यत्वमुच्यते | मृत्तिका सत्येत श्रुतेः | न चा भेद सत्यत्वा व धारणाद्भेदस्या सत्यत्वापत्तिः | किन्तु येनाश्रुतं श्रुतं भवतीत्यत्राश्रुतमिति श्रुतभिन्नत्वोक्त्यात्यन्त भिन्नत्वेनाभेदा सत्वशंकानिराकरणेनाभेद सत्व परमेव | यद्वा एवकारः सत्यमित्यनेन संबध्यते | तथाचासत्व व्यावृत्तिरेव प्रतीयते | न तु भेदासत्वम् | किञ्च यदि मृद्व्यतिरेकेण घटस्या सत्वं तदाघट इति प्रतीते किमालंबनमिति वक्तव्यम् | न तावन्मृदेव | कुलालव्यापारात्प्रागपि सत्वेन तदापि घट इति प्रतीत्यापत्तेः | अथ तद्व्यतिरिक्ता किं तन्मृदि विद्यते न वा | न चेत्कथं घट इति प्रत्यक्षा प्रतीतिः | प्रत्यक्षे विद्यमानविषयस्य कारणत्वात् | विद्यते चेत् कथं तस्या सत्वम् | विद्यमानस्यैव सत्वशब्दार्थत्वात् | अस्ति भवति विद्यते त्यादीनां पर्यायत्वात् अन्यदेव पारिभाषिकम् | किं तदबाध्यत्वमिति चेत् घटेपि तदस्त्येव | न हि घटे बाधो दृश्यते इत्युक्तम् | अथ सर्वदा सर्वत्राबाध्यत्वं सत्वम् | न च घटस्य तदस्ति | देशान्तरे तस्यबाध विचेत्तर्हि नित्यत्वे सति विभुत्वं तद्वाधश्चा सत्वं च स्यात् | ईदृशंचासत्वं घटादीनामिष्टमेव | न हि कार्यस्य नित्यत्व विभुत्वे केन चिदभ्युपगम्यते | अथ मृद्व्यतिरेकेणान्यत्र घटस्य स्वातन्त्र्येण सत्वा भाव एवासत्वम् | तदेव च मिथ्यात्वमिति एतदपि नानिष्टम् | प्. २२७) न ह्युपादान व्यतिरेकेणोपादेयस्य स्वातंत्र्येणान्यत्र सत्वं केनचिदभ्युपगम्यते | एतावता चेन्मिथ्यात्वमुच्यते | तत्काममुच्यताम् | न चैतदपि सूत्रितम् | सूत्रेमिथ्यात्व शब्दाभावात् | ननु वाचारम्भणवाक्यान्मिथ्यात्वसिद्धावपि वाक्यान्तरैस्तत्सिद्ध्यति | सदेव सोम्येदमग्र आसीदेकमेवा द्वितीयम् | नेह नानास्ति किञ्चन | अथात आदेशोनेति नेतीत्यादि वाक्यैर्ब्रह्मणि प्रपञ्चाभाव प्रतीतेरिति चेत् | न तावदेकमेवाद्वितीयं इत्यतो मिथ्यात्वसिद्धिः | तस्य प्रपंचोत्पत्तेः प्राक् तदभाव बोधकत्वेपि प्रपञ्चकाले तदभावाबोधकत्वात् | तत्कालीन तदभावस्यैव मिथ्यात्वबोधबोधकत्वात् | प्रयोजकत्वात् स्व समानाधिकरण स्वसमकालीनात्यन्ता भाव प्रतियोगित्वं मिथ्यात्वमिति निर्वचनात् | नापि नेहनानास्ति किञ्चनेति वाक्यात्तत्सिद्धिः | तस्य ब्रह्मणि प्रपञ्चा भावबोधकत्वात् | ब्रह्मभेदा भावस्यैव बोधनात् | तथा हि न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्रहीत्यत्र ब्रह्मणि स्वतो वा स्थानतो वा विरुद्ध रूपद्वयं नास्ति सर्वत्र तदेवैकं ब्रह्म | न ह्येतस्मिन् विरुद्ध रूपद्वयं संभवतीत्युक्त्वा अस्तु तर्हि प्रत्युपाधि ब्रह्म भिन्नम् | नैकमेव | अतो प्. २२८) रूपद्वयं संभवतीत्याशंक्य प्रत्युपाध्यभेदस्यैव श्रुत्या प्रतिपादनात् न ब्रह्मभेद इत्युक्तम् | न भेदादिति चेन्न प्रत्येक मतद्वचनादिति तत्रैव श्रुत्यन्तरमुपोद्बल योक्तम् | अपि चैवमेक इति तस्यार्थस्तैरेव मुक्तम् | अपिचैके शाखिनः एवं भेद दर्शन निन्दा पूर्वमभेदमेव ब्रह्मण आमनन्ति | यदेवेह तदमुत्र यदमुत्र तदन्विह | मृत्योः स मृत्युमाप्नोति य इह नाने व पश्यतीति | तथा चास्य ब्रह्मणि प्रपञ्च निषेधकत्वा भावान्नानेन मिथ्यात्व सिद्धिः | नापि नेति नेतीति वाक्येन मिथ्यात्वसिद्धिः | तस्यापि ब्रह्मणो मूर्तामूर्तभिन्नत्व प्रतिपादकत्वेन तदत्यन्ताभाव प्रतिपादनत्वा भावात् | तथा हि प्रकृतैतावत्वं हि प्रतिषेधाति ततो ब्रवीति च भूय इति प्रकृतस्यैव ब्रह्मणो द्वे रूपे इति ब्रह्मणो यदेतावत्वं मूर्ता मूर्तताव तावन्मात्रत्वं वा वेत्यस्यैव कारार्थत्वात्तन्निषेधति नेति इति श्रुतिर्मूर्तामूर्त तावन्मात्रमेव न भवति | किं तु ततोपि मूर्तामूर्तादपि भूयः बहुतर महत्तरं ब्रवीति न ह्येतस्मादिति वाक्यं | तस्यायमर्थः नेत्यादिष्टादेतस्माद्ब्रह्मण अन्यत्परं नास्ति | इदमेव सर्वस्मात्परमिति | तथा चानेन वाक्येन मूर्तामूर्त प्रपञ्चस्य ब्रह्मणश्चात्यन्ताभेद निराकरणेन भेद एव प्रतिपाद्यत इति गम्यते | एतच्च तत्रैवोपपादयिष्यते | प्. २२९) अत एवात्यन्ता भेद निषेधे अत्यन्तभेद इति शंकायां प्रकाशादिवच्चा वै शेष्यम् | प्रकाशश्च कर्मण्यभ्यासादिति सूत्रेणाभेदमप्युक्त्वा तर्हि भेदा भेदयोः विरोध इति शंकायां उभयव्यपदेशात्त्वहि कुण्डलवदित्या दिना सूत्रेणा विरोधः समर्थितः || एवमस्थूलादि वाक्यैरपि स्थूलादि भेद एव प्रतीयत इत्युक्तम् अन्यभाव व्यावृत्तेश्चेति सूत्रेण | ततश्च नानेनापि वाक्येन मिथ्यात्व सिद्धिः | तत ततश्चाप्रमाणकं मिथ्यात्वमसूत्रतश्चेति सिद्धम् | किञ्च यदि कारणव्यतिरेकेण कार्याभावो नान्यत्व शब्दार्थः | ब्रह्म व्यतिरेकेण प्रपंचाभावोऽभिप्रेतस्तर्हि पूर्वापरविरोध आपद्येत | उत्तरत्र हि नाभाव उपलब्धेरित्यधिकरणे ब्रह्म व्यतिरेकेण प्रपंचसद्भावः प्रतिपाद्यते | तथा हि तत्रहि विज्ञानवादिना विज्ञान व्यतिरिक्तो बाह्योऽर्थो नास्ति | सत्यपि बाह्येऽर्थे बुद्ध्यारोहमन्तरेण प्रमादि व्यवहारासंभवात् | बुद्ध्यारूढेन रूपेणान्तस्थ एव प्रमाणादि व्यवहारः सर्व उपपद्यते | न हि बाह्यार्थः संभवति | स हि बाह्यार्थः परमाणवो वा स्युस्तत्समूहो वा स्तंभादयः | न तावत्परमाणवः | तेषु स्थूलादि प्रतिभासानुपपत्तेः परमाण्ववभास ज्ञानापत्तेश्च | नापि तत्समूहः | तेषां परमाणुभ्योऽन्यत्वानन्यत्वाभ्यां दुर्निरूपत्वात् || एवं जात्यादीनामप्यभाव एव | अपि चानुभव मात्रेण साधारणात्मनो ज्ञानस्य जायमानस्य योयं प्रतिविषयं पक्षपातः स्तम्भज्ञानं कुड्यज्ञानमित्यादिना सर्वज्ञानगतं विशेषमन्तरेणोपपद्यत इत्यवश्यं विषयसारूप्यं ज्ञानस्याभ्युपमन्तव्यम् | अङ्गीकृते च तस्मिन् विषयाकारस्य ज्ञानेनैवावरुद्धत्वापार्थिका बहिरर्थ कल्पना स्वप्नादिवच्चेदं द्रष्टव्यम् | यथा हि स्वप्नमायामरीच्युदकं गन्धर्वनगरादि प्रत्ययाविनैव बाह्येन ग्राह्यग्राहकाकारा भवन्ति | एवं जागरित गोचरा अपि प्रत्ययाः स्तंभकुड्यादि प्रत्यया अपि भवितुमर्हन्तीत्यवगम्यन्ते | प्रत्ययत्वा विशेषादित्येवं पूर्वपक्षे प्राप्ते सिद्धान्तितं ना भाव उपलब्धेरिति | तदर्थस्तैरेव मुक्तः | न खल्वभावो बाह्यार्थ स्याभ्युपगन्तुं युक्तम् | कुतः उपलब्धेः | उपलभ्यते हि प्रतिप्रत्ययं बाह्योर्थः स्तम्भ कुड्यादि | न ह्युपलभ्यमानस्याभावो भावितु मर्हति | यथा हि कश्चिद्भुञ्जानो भुजि साध्यायां तृप्तौ स्वयमनुभूयमानाभ्यां ब्रूयान्नाहं भुंजो न तृप्यादिति | तद्वदिन्द्रिय सन्निकर्षेण स्वयमुपलभ्यमान एव बाह्यार्थं नाहमुपलभे | न च सोऽस्तीति ब्रुवन् कथमुपादेय वाक्यः स्यात् | नाहमेवं ब्रवीमि | न बाह्यमर्थमुपलभ इति | किं तूपलब्धिव्यतिरिक्तं नोपलभ इति ब्रवीमि | बाढमेवं ब्रवीषि | निरंकुशत्ते तुण्डस्य | न तु युक्त्युपेतं ब्रवीषि | यत उपलब्धि व्यतिरेकोपि बलादर्थस्याभ्युपगन्तव्यः उपलब्धेरेव | प्. २३१) न हि कश्चिदुपलब्धिमेव स्तम्भं कुड्यं वेत्युपलभते | उपलब्धिविषयत्वेन स्तम्भकुड्यादीन् सर्वेलौकिका उपलभंते | न तु बाह्यस्यार्थस्या संभव उक्तः | न प्रमाण प्रवृत्तिपूर्वकौ हि संभवा सम्भवौ | न तु संभवा संभवपूर्वके प्रमाण प्रवृत्त्यप्रवृत्ती | यदि प्रत्यक्षादीनामन्यतमेनापि प्रमाणेनोपलभ्यते तत्संभवति | यत्तु न केनचिदप्युप लभ्यते तन्न संभवति | इह तु यथास्वं सर्वैरेव प्रमाणैर्बाह्यार्थ उपलभ्यमानः कथं व्यतिरेका व्यतिरेकादि विकल्पैर्न संभवतीत्युच्यते | उपलब्धेरेव | न च ज्ञानस्य विषयसारूप्याविषया भावो भवति | अस्ति विषये विषय सारूप्यानुपपत्तेः | बहिरूपलब्धेश्च विषयस्य | यदुक्तं रचप्नादि प्रत्ययवज्जागरित प्रत्यया अपि विनैवबाह्यार्थेन भवेयुः | प्रत्ययत्वाविशेषादिति | तत्राह वैधर्म्याच्च न स्वप्नादिवत् | न स्वप्नवद्बाह्य प्रत्यया भवितु मर्हन्ति | कस्मात् ? वैधर्म्यात् | किं पुनर्वैधर्म्यम् | बाधा बाधौ | बाध्यते हि स्वप्नोपलब्धं वस्तु प्रतिबुद्धस्य मिथ्यामयोपलब्धो महाजन समागमः | न ह्यस्ति महाजन समागमः | निद्राग्लानं तु मे मनोबभूवः | तेनैषा भ्रान्तिरुद्बभूवेति | एवं मायादिष्वपि भवति यथा यथं बाधः | नैवं जागरितोपलब्धं स्तम्भादिकं कस्यांचिदवस्थायां बाध्यते | अपि च स्मृतिरेषा यत्स्वप्नदर्शनम् | उपलब्धिस्तु जागरित दर्शनम् | स्मृत्युपलब्ध्योश्च प्रत्यक्षमंतरं स्वयमनुभूयते | प्. २३२) अर्थविप्रयोग संप्रयोगात्मकं इष्टं पुत्रं स्मरामिनोपलभे | उपलब्धुमिच्छामीति | तत्रैवं सति न शक्यते वक्तुं मिथ्या जागरितोपलब्धि रूप लब्धित्वात् | स्वप्नोपलब्धिवत् | इत्युभयोरन्तरं स्वयमनुभवता | न चानुभवापलापः प्राज्ञमानिभिर्युक्तः कर्तुम् | अपि च यदि जागरितोपलब्धि भ्रमः नैव स्वप्नोपलब्धेर्बाधिका स्यात् | न हि भ्रान्तिर्बाधिका भवति | साध्याभाव प्रमाबाध इति तल्लक्षणात् | तथा च स्वप्न दर्शनादि दृष्टान्तः साध्यविकलः स्यादिति | तदेवं विज्ञानव्यतिरिक्तं बाह्यं प्रतिष्ठापयता सूत्रकारेण बाह्यव्यतिरिक्तो बाह्योऽर्थः बाधितः प्रतिष्ठापित एव | न च तत्राबाधितत्वं व्यावहारिक सत्यत्वमेवोक्तमिति वाच्यम् | विज्ञानवादिभिरपि बाह्यार्थस्य संवृति सत्यत्वाभ्युपगमात् | व्यावहारिक सत्यत्वस्यैव संवृति सत्यत्व शब्देन तैर्व्यवहारात् | ततश्च तन्मतनिराकरणपूर्वकं अबाधितार्थं प्रतिष्ठापयता पारमार्थिक सत्यत्वमेव प्रतिष्ठापितम् | किञ्च किमन्यत्वादिना तस्य निर्वक्तुं अशक्यत्वात् | अपारमार्थिकं किं वा बाधात् | न हि निर्वचनाधीनं वस्तूनां तत्वावधारणं किन्तु मानाधीनम् | पुरुषाणामल्पबुद्धित्वेन वस्तूनामद्बुतत्वेन वा अशक्य निर्वचनत्वेपि प्रमाणविरुद्धतया प्रतिमुखवर्ति वै लक्षण्यवत् सामान्यवच्च पारमार्थिकत्वोपपत्तेः | नान्त्यः | तदनुपलब्धेः | न च यत्र त्वस्य सर्वमात्मैवाभूदिति वाक्यं बाधिकमिति वाच्यम् | प्. २३३) न हीदं बाह्यं विद्यादशायां प्रपञ्चाभावं बोधयति | तथा सत्यन्येषां तदनुपलब्धि प्रसङ्गात् | न चास्येति पुरुषपुरुषविशेषापेक्षया भावं बोधयति | तथा हि | प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विशनश्यति | न प्रेत्य संज्ञास्तीति उपश्रुत्यमैत्रेयया अत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्तीति मोक्षभागिन आत्मनो विनाशो न युक्त इति पृष्ठो याज्ञवल्क्य आह न वारेहं मोक्षं ब्रवीम्यविनाशीवारेऽयमात्माऽनुच्छित्ति धर्मा इति | अच्छित्तिर्ध्वं सः | तत्प्रतियोगी न भवतीत्यर्थः | कथं तर्ह्यनुविनश्यति | न प्रेत्य संज्ञास्तीत्युक्तम् | अत आह मातृसंसर्गस्त्वस्य भवतीति | अस्यचार्थः मात्राभिः भूतमात्राभिः प्रज्ञामात्राभिश्च सविषयैरिन्द्रियैः स्वस्वस्थानात्प्रच्युतैः सहास्यात्मनो हृदयस्थेन ब्रह्मणसंसर्गः नीरक्षीरवदेकीभावो भवति | तथा हि श्रूयते वाङ्मनसि सम्पद्यते | मनः प्राणे | प्राणस्तेजसि तेजः पस्स्यां देवतायां एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति | स एतास्तेजोमात्रः | समभ्याददानो हृदयमेवान्वव क्रामति | यत्रैष चाक्षुषः पुरुषः पराङ्पर्या वर्तते अथा रूपज्ञो भवति | एकीभवति न पश्यतीत्याहुः इति | वक्ष्यति च सूत्रकारः वाङ्मनसि दर्शनाच्छब्दाच्चेत्या-इत्यारभ्याविभागो वचनादित्यन्तेन | ग्रहकेन्द्रिय संपत्त्या च ग्राह्याविषय सम्पत्तिरपि द्रष्टव्या | प्. २३४) एवं सर्वेषां स्पर्शानां त्वगेकायनं ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दशप्रज्ञामात्र | अधिभूतं यद्धिभूत मात्रा न स्युर्न प्रज्ञामात्रास्युः | यद्यधि प्रज्ञामात्रा न स्युः | न ह्यन्यतरतो रूपं किञ्चन सिद्ध्येत् | नो एतन्नाना तद्यथा रथस्यारेषु नोमिरर्पितानाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः | प्रज्ञामात्राः प्राणे अर्पिता इति | भूतमात्रा शब्दोदितानां विषयाणां प्रज्ञामात्रशब्दोदितानां इन्द्रियाणां च ग्राह्य ग्राहकत्वेनान्योन्यापेक्षितत्वस्येन्द्रिषेषु विषयाणामर्पितत्वस्य च प्रतिपादनेन ग्राहकेन्द्रिय सम्पत्त्या ग्राह्यासम्पत्तेरप्यावश्यकत्वात् | अत-एव सुषुप्तावपि यथा सुषुप्तः स्वप्न नकंचन पश्यति यथास्मिन् प्राण एवैकधा भवति | तदेनं वाक् सर्वैर्नामभिः सहात्येतिं इत्यादिना ग्राहकेन्द्रिय सम्पत्त्याग्राह्यसम्पत्तिरप्युच्यते | विषयस्य च सम्पत्तिस्तदा ग्राह्यत्वाभाव एव | न स्वरूएण हार्द ब्रह्मणि सम्पत्तिर्नाशोवान्येषाम् | विषयानुपलम्भ प्रसङ्गात् | तौहसुप्तं पुरुषमाजग्मतुः | तदभावो नाडीषु तच्छ्रुतेरात्मनि चेति श्रुतिसूत्राभ्यां शरीरादि सद्भाव प्रतिपादनाच्च | उक्तञ्च कल्पकतरौ देवताधिकरणे प्रतीत्यप्रतीतिभ्यां जाग्रत्सुषुप्त्योरुत्पत्ति लयाभिधानमिति | प्. २३५) अयमेव मात्रा संसर्गो दर्शननिमित्तत्वाद्विनाश इत्युपचर्यते | अस्य च ज्ञानाभावनिमित्तं अन्वयव्यतिरेकाभ्यां दर्शयति | यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति | यत्र त्वस्य सर्वमात्मैवा भूत्तत्केन कंपश्येदित्यत्र जागरितादौ द्वितमिव भवति | न त्वेकी भूतमिति | उपमार्थो वा | यथा द्वैतं घट पटादि विविक्तं भवति | एवमिन्द्रियाण्यपि | य हृदयान्निष्क्रम्य स्वस्वायतनगतानि तदाकर्म करणानां विभक्तत्वादितर इतरं पश्यति | यत्र मरणावस्थायां सर्वमात्मैवाभूत् पूर्वोक्तेन मार्गेण सर्वोपादानतया सर्वाभिन्नेन ब्रह्मणोप हृतकरणस्य जीवस्यैकत्वापत्त्या वा | तदा विभागाभावात्केन कं पश्येदत एव सुषुप्त्यादावपि कर्तृत्वादि विभागाभावाज्ज्ञाना भावः श्रूयते | न तु तद्द्वितीयमस्ति | ततोऽन्यद्विभक्तं यत्पश्येदित्यादि | ननु कथं सुसुप्तौ ज्ञानाभावः | न हि दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वादित्यादिना दृष्ट्यादीनाम विनाशित्वाभिधानादिति चेन्न | दृष्ट्यादीनामविनाशित्वस्य तत्राप्रतिपादनात् | न हि ज्ञानमात्रं दृष्ट्यादीति | तथा सति शुक्लः पट इत्यादि वाक्यादन्धादीनां शुक्लादि ज्ञाने शुक्लं पश्यामीति व्यवहार प्रसङ्गात् | किन्तु चक्षरादिकरण विशेषजन्य ज्ञानमेव | प्. २३६) न च तस्यानित्यत्वं संभवति | तस्माद् द्रष्टृत्वादि शक्तिलोपाभावाभिप्रायम् | अन्यथा नहि वक्तुर्वक्तेर्विपरिलोपो विद्यत इत्यादि श्रवणाद्वचनादि क्रिया अपि नित्यत्व प्रसङ्गः | न हि ज्ञानवत्क्रियाया अपि नित्यत्वम् केनचिदभ्युपगम्यते | तस्मात्सुषुप्तौ ज्ञानाभावः सिद्ध एव | तदिदं सूत्रकारो वक्ष्यति स्वाप्ययसम्पत्योरन्यतरापेक्षमा विष्कृतं हि | इति | तस्माद्बाधकाभावात् प्रपञ्चः पारमार्थिक एव | किञ्च सूत्र विरुद्धं मिथ्यात्वम् | नैकस्मिन्न संभवादित्येकस्मिन् वस्तुनि अस्तित्व नास्तित्वादीनां न स्थानतोपि परस्योभयलिङ्गं सर्वत्रहीति ब्रह्मणि रूपादेस्तदभावस्य चा संभवाभिधानेन मिथ्यात्वस्य कण्ठत एव निराकरणात् | केचित्तु कार्य कारणयोरत्यन्ता भेदमाहुः | तथा हि मृदि घटोनाम द्रव्यान्तरं नोत्पद्यते | किन्त्वेकमेव द्रव्यं पिण्डावस्थां विहाय घटावस्थामापद्यते | पुनश्चघटावस्थां विहाय कपालावस्थामित्यादि | तथा चावस्थान्तरापत्तिरेव द्रव्योत्पत्तिः | अवस्था प्रहाणमेव विनाश इति | तत्र किमवस्था द्रव्यादत्यन्त भिन्नाः उतात्यत्यन्तमभिन्नाः | आद्येकथमवस्थानामागन्तु कत्वं सदान्तरद्द्रव्यदत्यन्तमर्भेदात् | द्वितीये कथमेक विज्ञानेन सर्वविज्ञानम् | द्रव्ये ज्ञातेप्यवस्थानां ज्ञानात् | न चैक विज्ञानेन सर्वविज्ञानमेव | सर्वविज्ञानमनवस्था ज्ञानमपीति वाच्यम् | प्. २३७) सङ्कोचे कारणाभावात् | द्रव्यस्यैकत्वेन सर्वत्वानुपपत्तेश्च | तृतीये किमपराद्धं घटादिना द्रव्येण लोकानुभवसिद्धेन | किञ्च यद्यवस्थान्तरापत्तिरेवोत्पत्तिस्तदावस्थानामुत्पत्तिर्नस्यात् | अवस्थान्तरा भावात् | अवस्थानामवस्थान्तर स्वीकारेऽनवस्था | अथ द्रव्यस्यैवावस्थानापत्तिरुत्पत्तिः | अवस्थानां त्व भूत्वा भवनमुत्पत्तिरिति चेन्न | द्रव्येप्यभूत्वा भवनमुत्पत्तिरस्तु | कृतं भिन्ना भिनोत्पत्तिकल्पनया | किञ्चतत्तेजोऽसृजतेत्यादिना द्रव्याणामेवोत्पत्तिराम्नायते | तेज आदिशब्दानां रूपवद्द्रव्यवाचकत्वात् नावस्थानां तासारूपाभावात् | रूपवत्वाभ्युपगमे द्रव्यस्यैवावस्थेति नामान्तरकरणापत्तेः | न च तदवस्थावतो द्रव्यस्यैव रूपं नावस्थानमिति वाच्यम् | ब्रह्मणो नीरूपत्वादवस्थानां त्रिवृत्करणानुपपत्तेश्च सावयवत्वा भावात् | तस्माद्द्रव्याण्येवोत्पद्यन्ते | तानि भिन्ना भिन्नानीति स्थितम् | तथा च रचनानुपपत्तेश्च नानुमानमित्यारभ्य विप्रतिषेधाच्चेत्यन्तैः सूत्रैः तन्त्राणां परस्पर विरोधात् पूर्वापरविरोधाच्चछ्रुति विरोधाच्च प्रामाण्ये प्रतिपादितेपि तन्त्रार्थानामेव नामान्तरकरणेन सूत्राणां च लक्षणध्याहारादिभिः तन्त्रार्थ परतया तान्त्रिकाणां यानि व्याख्यानानि तानि सूत्र विरुद्धान्येव | प्. २३८) तथाज्ञोऽत-एवेति जीवस्य ज्ञातृत्वे सूत्रितेपि यज्ज्ञानरूपाभिधानं तदपि सूत्र विरुद्धम् | उत्क्रान्ति गत्यागतीनामिति जीवस्याणुत्वे सूत्रितेपि महत्वाभिधानं सूत्रविरुद्धम् | न चाणुत्वेन पूर्वपक्षं कृत्वा तद्गुणसारत्वादिति महत्वेन सिद्धान्तितमिति वाच्यम् | तस्य महत्व प्रतिपादकत्वा भावात् | तथा हि कथमस्य सूत्रस्य प्रवृत्तिरिति चिन्तनीयम् | किं जीवस्य ज्ञानमुकत्वे ज्ञानाभेद व्यपदेशस्य का गतिरित्याकाङ्क्षायामिदं प्रवृत्तम् | उतजीवस्यमहत्वे सिद्धेऽणुत्वादि व्यपदेशस्य का गतिरित्याकाङ्क्षायामिदं प्रवृत्तमिति युक्तम् | तथा हि उत्क्रान्तिगत्या गतीनामिति स्वात्मनाचोत्तरयोरिति जीवस्याणुत्वे साधिते स वा एष महानज आत्मेति महत्त्वश्रुतेर्नाणुत्वमिति शङ्कायां महत्वश्रुतेर्ब्रह्मविषयत्वान्नाणुत्व विरोध इति नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारादित्युक्त्वा पुनश्च स्वशब्दानुमानाभ्यां चेत्यणुत्वमेव दृढीकृत्य जीवस्याणुत्वे कथं सकलशरीर व्यापिकार्यमिति शंकायामविरोधश्चन्दनवदिति चन्दनबिन्दोः शरीरैकदेशस्थस्यापि सकलशरीर व्याप्याह्लादकारित्ववज्जीवस्याप्युपपद्यत इत्युक्त्वा चन्दन बिन्दोरेक देशस्थत्वस्य प्रत्यक्ष सिद्धत्वात्तत्र तथा भवतु | इह तु जीवस्यैक देशस्थत्वे प्रमाणाभावात् सकलदेह व्यापि कार्यानुरोधेन व्यापित्वमेव प्. २३९) किं न स्यादित्याशंक्यावस्थिति वैशेष्यादिति चेन्नाभ्युपगमाद्धृदिहीति जीवस्यापि स वा एव आत्मा हृदीत्यादि श्रुत्या शरीरैक देश हृदयस्थत्वस्य सिद्धत्वाच्चन्दन बिंदुन्यायेन नैव कार्यकरत्वमित्युक्तोपपत्त्यन्तरमुक्तं गुणाद्वालोकवदिति | अणोरपि जीवस्य चैतन्यगुण व्याप्त्या व्यापि कार्यकरत्वम् | ननु कथं गुणस्य गुणिव्यतिरेक इत्याशङ्काया व्यतिरेकोगन्धवदिति गन्धव्यतिरेक मुक्त्वा चैतन्य गुणत्वे स्यादेवम् | न तु चैतन्यं गुणः | किन्तु स्वरूपमेव | तथा च तस्य व्यापित्वे आत्मन एव व्यापित्व मायातमित्याशंकायां पृथगुपदेशादिति प्रज्ञया शरीरं समासह्येति ज्ञानात्मनोर्भेदोपदेशान्न स्वरूपं नांगिंतु गुण एवेत्युक्तम् | तर्हि विज्ञानस्य गुणत्वे विज्ञानं यज्ञं तनुत इति कथमात्मनि ज्ञानाभेद व्यपदेश इत्याकाङ्क्षायां इदं प्रवृत्तम् | तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवदित्यत्र तच्छब्दद्वयेन पूर्वत्र सन्निहितं ज्ञानं गृह्यते | सर्वनाम्नां सन्निहित वाचित्वात् | स चासौ गुणश्चेति कर्मधारय समासः | तद्गुणः सारो यस्य स तद्गुणसारः | तस्यभावस्तत्वं तस्मात्तद्व्यपदेशः ज्ञानमिति व्यपदेशः | लवणगुणस्य रत्यसैन्धवखिल्यस्य लवणमिति व्यपदेशवत् प्राज्ञवदिति सर्वज्ञस्येश्वरस्य ज्ञानगुणसारत्वाज्ज्ञानमिति व्यपदेशः | प्रज्ञानं ब्रह्मेत्यादौ तद्वदिति अयमेव पक्षो युक्तः | प्. २४०) नत्वणुत्व व्यपदेशस्य का गतिरिति विवक्षायां इदं प्रवृत्तमित्येतद्युक्तम् | पूर्वं जीवस्य महत्वे प्रतिज्ञाते प्रमाणे चोपन्यस्ते यद्यात्मा महान् तस्याणुत्व व्यपदेशस्य का गतिरित्याकांक्षा भवेत् | न च पूर्वत्रात्मनो महत्वं प्रतिज्ञातम् | न प्रमाणञ्चोपन्यस्तम् | कथमकस्मादाकाङ्क्षा भवेत् | न च ब्रह्मणो महत्वात्तदभेदाज्जीवस्य महत्वमुक्तमेवेति वाच्यम् | एवं हि नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारादिति सूत्रमनुपपन्नमेव स्यात् | तद्धिसूत्रं स वा एष महानज आत्मेति श्रुत्या जीवस्य महत्व प्रतीतेर्नाणुत्वमिति शंकायां महत्वश्रुतेर्ब्रह्म विषयत्वान्न जीवयस महत्वमिति प्रतिपदनाय प्रवृत्तम् | यदि हि ब्रह्म महत्वे नैव जीवमहत्वं स्यात् | कथमितराधिकारादित्यनेन जीवमहत्वाशंकायाः परिहारः कृतो भवेत् | तस्मात् पूर्वं जीवे महत्व प्रतिज्ञाया प्रमाणस्य चानुपन्यासात् | तर्ह्यणुत्व व्यपदेशस्य का गतिरित्याकाङ्क्षायां इदं सूत्रं प्रवृत्तमित्युक्तमेव | सूत्रार्थोपि तन्मतेऽसमंजस एव | एवं हि तन्मते सूत्रार्थः | प्रथमेन तच्छब्देनां तः करणं गृह्यते | तस्य गुणास्तद्गुणा इति षष्ठी समासश्च | द्वितीयेन तच्छब्देनाणुत्वादिकं परामृर्श्यते | तथा चान्तः करणानुगुण सारत्वाज्जीवस्याणुत्वादि व्यपदेशः प्राज्ञवदिति | न च प्रथमेन तच्छब्देनान्तः करणग्रहणं युक्तम् | तस्या प्रकृतत्वात् | प्रकृतवचनत्वाच्च तच्छब्दस्य षष्ठीसमासे लुप्त षष्ठ्यर्थे पूर्वपदस्य लक्षणाश्रयणं दोषः | प्. २४१) द्वितीयस्य तच्छब्देन व्यवहिताणुत्व परामर्शोदोषः | अन्तःकरण गुणसारत्वादित्य सिद्धश्च हेतुः | न हि जीवस्यान्तः करणगुणोपाधिकत्वं लोके सिद्धम् | नवा केनचिदभ्युपगम्यते | न च दृष्टान्ते प्राज्ञे अन्तःकरणोपाधिकत्वमस्ति | न च प्राज्ञमहत्वेन जीवमहत्वं वदन्तः प्राज्ञजीवयो दृष्टान्त दार्ष्टान्तिक भावो वा संभवति | उत्तरसूत्रमप्यस्मत् पक्षानुगुणमेव | यावदात्मभावित्वाच्च न दोषस्तद्यर्शनादिति ज्ञानस्य मुक्तव्य प्यभ्युपगमेन यावदात्म भावित्वस्य तत्र संभवात् | न च सुषुप्त्यादौ ज्ञाना भावात् कथं यावदात्मभावित्वमिति वाच्यम् | पुरस्त्वादिवत्तस्य सतोऽभिव्यक्तियोगादिति कारणात्मनासत एव कार्त्स्न्यात्मना प्रबोधादावभिव्यक्तिरिति परिहृतत्वात् | तत्पक्षेत्वन्तः करणस्य मुक्तौनिरन्वय नाशेन यावदात्म भावित्वासंभव एव यावत्संसार्यात्म भावित्वादिति संकोचस्य स्वयमेव दर्शितत्वात् | तथा नित्योपलब्ध्यनुपलब्धि प्रसङ्गोऽन्यतर नियमो वान्यथेति विपक्षबाधक सूत्रमस्मत् पक्सानुगुणमेव तथा हि आत्मनोऽणुत्वं ज्ञान गुणकत्वं च साधितम् | तदनङ्गीकारेऽऽत्मनो विभुत्वे ज्ञानस्वरूपत्वे च विभुनात्म चैतन्येन विषयस्य नित्यसंबाधान्नित्योपलब्धि प्रसङ्ग इति | तत्पक्षेत्वन्तः करणानङ्गीकारेऽऽत्मेन्द्रिय विषयाणां संनिधाने सति नित्योपलब्धिः स्यादिति संकोचनीयत्वात् | तस्मादणुत्वमेव सूत्रार्थ इति महत्व प्रतिपादनं जीवस्य सूत्रविरुद्धमेव | प्. २४२) तथा कर्ता शास्त्रार्थवत्त्वादित्यादिना आत्मनः कर्तृत्वे सूत्रिते अकर्तेत्यभिधानं साङ्ख्यमताभिनिवेश कृतमेव | न च यथा च तक्षो भयथेत्यात्मनि कर्तृत्वमौपाधिकमित्युक्तमेवेति वाच्यम् | सूत्रे औपाधिकत्वस्या प्रतीतेः | यथा च तक्षा सत्यामेवेच्छायां वास्यादिकरणसम्पत्तौ चितिं करोति नान्यदा | एवं जीवोपि सत्यामेवेच्छायां मन आदि करणसम्पन्नः करोति नान्यदेत्येतावन्मात्रस्यैव सूत्रात्प्रतीतेरौपाधिक शब्दाभावात् | तक्ष्ण औपाधिक कर्तृत्वा भावेन तद्दृष्टान्तबलेनाप्यौपाधिक कर्तृत्वा लाभाच्च | किञ्च जीवस्य यद्यौपाधिकं कर्तृत्वं कस्य तर्हि स्वाभाविकं बुद्धेरिति चेन्न | तस्यान्तः करणमिति लोकवेदयोः करणतया प्रसिद्धाया कर्तृत्वासंभवात् | उक्तञ्च सूत्र कृताशक्तिविपर्ययादिति | तस्यार्थस्तैरेवैवमुक्तः बुद्धेः करणशक्त्या हि एतत्कर्तृशक्तिश्चापद्येत | सत्याञ्च कर्तृत्व शक्तौ तस्या | एवाहं प्रत्यय विषयत्वं स्यात् | अहंकार पूर्विकाया एव प्रवृत्तेः सर्वत्र दर्शनात् | अहं गच्छाम्यहमागच्छामीति | तस्याश्च कर्तृशक्ति युक्तायाः सर्वार्थकारिकरणमन्यत्कल्पनीयम् | शक्तोपि हि कर्ता लोके करणमुपादाय प्रवर्तत इति | ततश्च नाममात्रे विवादः स्यान्नार्थभेदः कश्चित् | करणव्यतिरिक्तस्य कर्तृत्वाभ्युपगमादिति | प्. २४३) नन्वसङ्गोह्ययं पुरुष इति श्रुत्या आत्मनि सर्वसंबन्धाभाव प्रतिपादनान्निमित्त संयोगाभावे कथमात्मनि कर्तृत्वमिचेन्न | अस्याः श्रुतेः स्वप्ने कामाभाव प्रतिपादकत्वेन संबन्धाभाव प्रतिपादकत्वा भावात् | तथा हि अथ ऊर्ध्वं विमाक्षाय ब्रूहीति जनकेन मोक्षोपायं पृष्टो याज्ञवल्क्यः ससंगेन कृतस्यैव कर्मणोबन्धकत्वात् | सङ्गत्यागः कर्तव्य इत्यभिप्रेत्यासङ्गाभावे कर्मणोबन्धकत्वा भावं प्रदर्शयति | स वा एष एतस्मिन् सम्प्रसादेरत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्या द्रवति स्वप्नायैव | सयत्तत्र किञ्चित्पश्यत्य नन्वागतस्तेन भवति | असङ्गोह्ययं पुरुष इति | अस्यार्थः स एषः प्रकृतो विज्ञानमय एतस्मिन्संप्रसादे पूर्वोक्ते स्वप्ने | यद्यपि सम्प्रसादशब्दः सुषुप्तिवाचकस्तथापि सुषुप्तौरत्यादेरभावात् स्वप्न एव गृह्यते | रत्वा स्त्रीपत्न्यादिभिः रतिमनुभूयचरित्वा नानादेशसंचरणं कृत्वा दृष्ट्वैव पुण्यं च पापं च कर्म येनैव मार्गेण यस्माद्देहान्निर्गतः तेनैव मार्गेण मनुष्यादि देहमागच्छति स्वप्नायैव | स यत्तत्र पूर्वस्मिन् स्वप्ने पुण्यं पापं वा कर्म पश्यति तेनैवा नन्वागतो भवति | तत्र हेतुरसंगोहीति | यतस्तत्र पूर्वस्मिन् स्वप्ने असङ्गः अकामः अतस्तन्नानु गच्छति | ननु स्वप्ने अकामत्वमसिद्धम् | स ईयतेऽमृतो यत्र काममिति कामा कामस्य श्रवणादित्याशंकायां प्. २४४) कामाभावसाधकार्थ अपरा खण्डिका | स वा एव एतस्मिन् स्वप्नेरत्व | चरित्वा दृष्टैव पुण्यं च पापञ्च पुनः प्रतिन्यात्यं प्रतियोन्या द्रवति बुद्धान्तायैव | स यत्तत्र किञ्चित्पश्यति अनन्वागतस्तेन भवति | असङ्गोह्ययं पुरुषः इति | बुद्धान्ताय जागरितान्ताय | शेषं स्वप्नवत् | यदि हि स्वप्ने कामः स्यत् सासङ्गेन कृतं कर्म जागरेप्यनुवर्तेत | न च तदनु वर्तते | न हि स्वप्न कृतेनागसा आगम स्तुतमात्मानं मन्यते प्रतिबुद्धः | नापि स्वप्ने मयागस्तुतमिति स्वप्नदृशोवाक्यं तच्छ्रुत्वा निन्दति परिहरति वा बोधकस्तस्मान्नास्त्येव स्वप्ने कामः | तदिदं तैरप्युक्तम् असङ्गोह्ययं पुरुष इति | असंगता अकर्तृत्वे हेतुरुक्ता | उक्तं च स-ईयते अमृतो यत्र काममिति | सङ्गश्च कामः | अतो सिद्धो हेतुरित्युपनिषद्भाष्ये असङ्गत्वादकर्तेति | नन्व सिद्धोऽयमुच्यते | स्वप्ने कामस्य दृष्टत्वात् | यत्र काममिति श्रुतेः इत्यस्य परिहाराय स वा इत्यादिकं वचः | इत्यादि वार्तिके | असङ्गकाम शब्दयोः पर्यायत्वादित्या नन्दगिरिः || एवञ्च स्वप्ने कामा भावेन तत्प्रतिभानं रथादि भानवत् जाग्रत्कालीन कामविषयं मन्तव्यम् | श्रुतिरपि तत्प्रतिभानमभिप्रेत्याह | न चासङ्गवाक्याज्जाग्रत्यपि कामोनेति शंक्यम् | जाग्रत्यपि कामाभावे स्वप्नेपि तदनुभवापत्तेः | जाग्रद् दृष्टस्यैव स्वप्नेपि भानात् | यानिह्येव जाग्रत् पश्यति तानि स्वप्न इति श्रुतेः | यदेव जाग्रद्भयं पश्यति तदत्रा विद्यया मन्यत इति च | प्. २४५) अत एव स वा एष एतस्मिन् बुद्धान्तेरत्वाचरित्वा दृष्टैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैवेति | जागरित वाक्ये असंग इति न श्रूयते | न चान्तःकरण गत एव जागरिति शंक्यम् | तस्या चेतनत्वेन कामासंभवात् | तदिद मुक्तं सूत्र कृता-कामाच्चनानु मानापेक्षेति | न च स्वप्ने कामाभावादेव तदनु प्रवृत्तिः | न तु कामा भावादिति शंक्यम् | आत्मनैवायं ज्योतिषास्ते पल्यायते कर्मकुरुत इति स्वप्ने कर्मणो दर्शितत्वात् | देवता दर्शनादि कर्मणः संभवात् | अचेतनत्वाच्च तस्यामर्कृकत्वानुपपत्तिः | तदप्ययुक्तं तैरेव गुहां प्रविस्टावात्मानौ हीत्यत्र | वस्तुतो नै कस्यापि कर्तृत्वम् | बुद्धेरचेतनत्वात् | आत्मनो निर्व्यापाराच्चेति | न च निर्व्यापारत्वं अहंकरोमीति व्यापारस्यात्मनि प्रत्यक्षत्वात् | आत्मनि चैवं विचित्राश्च हीति | विचित्र नानापरिणामस्य सूत्रितत्वाच्च | तस्मादात्मनः स्वाभाविकमेव कर्तृत्वम् | न च कर्तृत्वस्य वह्न्यौष्ण्यवत् स्वाभाविकत्वे सुषुप्त्यादौ तदभावोन स्यादिति वाच्यम् | न हि स्वाभाविकं यावद्द्रव्यभावित्वं किन्त्वनारोपितत्वम् | घटे पाक जलौ हित्यादेरयावद् द्रव्य भाविनोपि अनौपाधिकत्वेन स्वाभाविकत्वस्य सर्वसम्मतत्वात् | बदरपील्वादौ श्यामकृष्णरूप योरयावद्द्रव्य भाविनोरप्यौपाधिकत्वात् | न च ध्यायतीवलेलायतीव श्रुत्या कर्तृत्वस्या रोपिता वुपाधिकत्वं प्रतीयत इति वाच्यम् | प्. २४६) अत्र हि ध्यानादेरभावादिव शब्द प्रयोगः | न तु कर्तृत्वाभावात् | अत##- तस्मादनौपाधिकं कर्तृत्वम् | तथा नियमः सर्वेषामनु विरोधः शब्दानु मानाभ्यामिति सर्वेषु विज्ञानेषु देवयानस्य पथः उपसंहारस्य सूत्रितत्वात् | निर्गुण विज्ञाने देवयानोपसंहारो नास्तीत्येतत् सूत्रविरुद्धम् | तथा इयदाम्नानात् | ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्थ्ये इति काठकमन्त्रस्य द्वा सुपर्णासयुजा सखया समानं वृक्षं परिषस्वजाते इत्यस्य मुण्डक गतस्य श्वेताश्वतरगतस्य च द्वित्वोपेतजीव ब्रह्म प्रतिपादकत्वस्य तुल्यत्वात् | वेद्यैक्येन विद्याया अभेदात् | उपनिषत्रयगतानां गुणानां तत्रोपसंहार इति स्वयमेव व्याख्यायोपनिषत्त्रयस्यापि निर्गुण ब्रह्म प्रतिपादकत्वान्नास्ति गुणोपसंहार इति प्रतिपादनं सूत्रा संगतमिति स्फुटमेव || तथा कामादितरत्र तत्रचायतनादिभ्य इति | अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः इति छान्दोग्याष्टमाध्यायगताया विद्यायाः स वा एष महानज आत्मा योयं विज्ञानमयः प्राणेषु | य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते इति वृहदारण्यके षष्ठाध्यायगताया विद्यायाश्च हृदयायतनत्व सेतुत्व लोकासंभेअ हेतुत्वादि सामान्याद् वेद्यैक्येन विद्याभेदमाश्रित्य छान्दोग्यगतानां कामादिगुणानां बृहदारण्ये उपसंहारः | बृहदारण्यगतानां गुणानाञ्च छान्दोग्ये उपसंहार इति स्वयमेव उक्त्वा बृहदारण्यकस्य स वा एव नेति प्. २४७) नेत्युत्तर वाक्यालोचनेन प्रतिषिद्ध सविशेष ब्रह्म प्रतिपादकत्वान्नात्र गुणोपसंहार इति प्रतिपादनमपि सूत्रासङ्गतमेव | न च स एष नेति नेत्यनेन सर्वविशेष प्रतिषेधः | तस्य मूर्तामूर्त भेदमात्र प्रतिपादकत्वात् इत्युक्तम् | न च निर्गुणानां ब्रह्मास्ति | येना निर्गुणवाक्यानां किञ्चिद्भवेत् | प्रमाणाभावात् | क्वाप्य सूत्रितत्वाच्च | न चा शब्दमस्पर्शमरूपमव्ययं साक्षीचेता केवलो निर्गुणश्चेत्यादि श्रुतिर्गुणत्वे प्रमाणम् | अरूपादेव हि तत्प्रधानत्वादिति | सूत्रितञ्च निर्गुणत्वादिति वाच्यम् | यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः | आनन्दं ब्रह्मणो विद्वान् | स वा एष महानज आत्मा इत्यादिभिः श्रुतिभिः प्रकाशवच्चावैयर्ध्यम् | सुखविशिष्टाभिधानादेव | आनन्दमयः प्रधानस्य | विवक्षित गुणोपपत्तेश्चेत्यादि सूत्रैश्च ब्रह्मणो गुणवत्वस्याभ्युपगमात् | न च विरोधः प्रतिषिद्ध गुणासंभवेपि प्रतिपादित गुणसंभवात् | न हि वह्नौ गन्धो ना नास्ति रूपमस्तीत्यनयोर्विरोधः | एवमशब्दमस्पर्शमित्यादिना प्रतिषेधाद्रूपादिगुणा न भवेयुः | साक्षी चेता केवलोनिर्गुणश्चेति गुणसामान्य निषेधश्च | यः सर्वज्ञः साक्षीचेता ज्ञः कालकालः गुणी सर्वविद्य इत्यादि गुणविशेष विधिनांशे बाध्यते | यथा न हिं स्यादिति सामान्यनिषेधो अग्नीषोमीयं पशुमालभेतेति विशेष विधिनांशे बाध्यते | प्. २४८) यथा वा आहवनीये जुहोतीति सामान्यं शास्त्रं पदे जुहोतीति विधिना तद्वत् | न च सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिना ज्ञानादिकं ब्रह्मणः स्वरूपत्वेन प्रतीयते न गुणत्वेनेति वाच्यम् | तदैतद्बहुस्यां प्रजायेयेति स ईक्षां चक्रे इति च ज्ञानस्य जन्यत्वावगमेन स्वरूपत्वायोगात् | न चाविद्या वृत्तिरूपं ज्ञानान्तरमेव जन्यते न स्वरूप ज्ञानम् | स्वरूपत्वेऽपि वा विषयोपरक्तत्वाकारेण जन्यत्व श्रुतेरूपपत्रिरिति वाच्यम् | अविद्यायाः शशविषाण तुल्यत्वात् | सत्वेप्यस्यास्तेनत्वेन तत्रेक्षणा योगात् | अन्यथा प्रधानस्यपीक्षण संभवे ईक्षतेर्नाशब्दमित्यादेरसंगत्यापातात् | यदुक्तं स्वरूपत्वेपि चैतस्यस्य विषयोपरक्तत्वाकारेण जन्यत्वोपपत्तिरिति | तन्न | सृष्टिकारणीभूते क्षणकाले विषया भावात् | न च तदाप्य व्याकृतं नाम रूपादिकमस्त्येवेति वाच्यम् | तत्संभवे प्रमाणाभावात् | भावेपि वा तस्य प्रलयकालेऽपि सत्वेन तदानीमुत्पच्ययोगात् | ईक्षणगततयाश्रुतस्य जन्यत्वस्य तद्विषयगतत्व कल्पनायोगाच्च | कथं तर्हि सत्यं ज्ञानमनन्तं ब्रह्मेति सामानाधिकरण्यम् | नीलमुत्पलमित्यादिवद्गुण गुणिनोर्भेदाभेदाभ्युपगमात् | उक्तं च सूत्र कृतातद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवात् इति || किञ्चात्र ज्ञानशब्दो न जानातेर्भावसाधनो लुट्प्रत्ययान्तः | प्. २४९) तथा सति प्रत्ययाद्युदात् तत्वेनाद्युदात्तं पदं स्यात् | संज्ञानं विज्ञानं प्रज्ञानमित्यादिवत् | अन्तोदात्तं चाधीयते | तस्माज्ज्ञानमस्यास्तीतिमत्वर्थीयार्शाद्यच्प्रत्यये सति | चित इत्यन्नोदात्तं पदं भवति | तथा च ज्ञानवदित्यर्थ लाभात् | अनेनापि ज्ञानगुणत्वमेव सिद्ध्यति | न ज्ञानस्वरूपत्वम् | तस्माद्ब्रह्मणो निर्गुणत्वाभावात् इदं निर्गुण प्रतिपादकमिदं सगुणप्रतिपादकं इति विभागकल्पनमयुक्तमेव | तथा सर्वापेक्षा च यज्ञादिश्रुतेरश्ववदिति कर्मसापेक्षया विद्याया मोक्षहेतुत्वस्य सूत्रित्वात् | कर्मनिरपेक्षितत्वात्केवलादेव ज्ञानान्मोक्ष इति प्रतिपादनं सूत्रासंबद्धम् | तथा हि अत एवाग्नीन्धनाद्यपेक्षा | यथा विद्या कर्माङ्गं तदासास्वकार्यस्य कारणोपकारस्य सिद्धये सहकारित्वेनाग्नीन्धनादी न्यग्निमीडेत्यादि वाक्य विहितानि अग्न्यन्वा नाधीनि वा पेक्षते | यदा न कर्माङ्गं तदा नाङ्गान्तराण्यपेक्षते | यदा विद्या पुरुषार्थ हेतुः तदा पुरुषार्थ सिद्धये सर्वाणि कर्माणि नित्यनैमित्तिकादीनि सहकारित्वेना पेक्षते इत्याह | सर्वापेक्षा च यज्ञादि श्रुतेरश्ववत् | सर्वाणि कर्माण्यपेक्षते विद्या | कुतः | यज्ञादि श्रुतेः | तमेतं वेदानु वचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा ना शकेनेति श्रुतेः | अत्र हि पूर्वं तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्रह्मण इति प्रमाणेन विज्ञाय प्रज्ञामुपासनां कुर्वीतेत्युक्तक्तम् | कानिवोपसना सहकारीणीत्यपेक्षायांमिदं उच्यते तमेवं वेदानु वचनेनेत्यादि | प्. २५०) अत्र वेदानु वचन शब्देन वेदवाक्यमुच्यते | इति त्रिशंकोर्वेदानुवचनमित्यादौ तथा दर्शनात् | न तु वेदाध्ययनं अध्ययनस्य प्रमाणत्वेन प्रमाणाकांक्षा निवर्तकत्वात् यज्ञादि श्रुतेरिति सूत्रविरोधाच्च | यज्ञस्यादित्वा भावात् वेदानुवचनस्यैवादित्वेन वेदानुवचनादि श्रुतेरिति वक्तव्यत्वात् | तस्माद्वेदानुवचनेन वाक्येन विज्ञायेत्यध्याहृत्य योज्यम् | केचित्तु एतं प्राप्तमवगतमित्यर्थः इत्याहुः | विविदिषन्तीत्यत्र वेदनं पूर्वत्रप्रज्ञा शब्देन निर्दिष्टम् | उपासन एव उपास्तौ बहुलं वेदेति प्रयोगदर्शनात् | आवृत्त्यधिकरणे विध्युपास्त्योर्व्यतिरेकेण वेदेप्रयोगदर्शनात् विधिरूपासनार्थ इति तैरप्युक्तत्वाच्च | यज्ञेनेति सहार्थे तृतीया | तथा यज्ञादीनि सहकारित्वेन विधीयंते | न च करणे तृतीयां किं तस्यादिति शंक्यम् | उपास्तौ यज्ञादेः कारणत्वासंभवात् | मनसैवानु द्रष्टव्यमिति मनसः करणत्वावधारणत्वाच्च | विधेः प्रमाण ज्ञानार्थत्वेप्य प्रमाणस्य यज्ञादेः कारणत्वासम्भवाच्च | न च ज्ञानप्रतिबन्धक पापनिवृत्तिद्वारा यज्ञादेः करणत्वं संभवतीति वाच्यम् | योग्यता ज्ञानादिशब्दः ज्ञानसामग्र्यां सत्यां ज्ञानानुदयादर्शनेन पापस्य प्रतिबन्धकत्वा सिद्धेः | प्रतिबन्धकाभाव कारणत्वस्य परैर्यत्नतो निराकरणेन तद्द्वारा यज्ञादेः कारणत्वस्य दूरतोऽयास्तत्वाच्च | प्. २५१) तस्मात्सहार्थ एव तृतीया | ततश्च यज्ञादेः सहकारित्वासिद्धिः | अत-एवाचोत्तरेण तपसा ब्रह्मचर्येण श्रद्धयात्मानमन्विष्यादित्यमभि जयन्त इत्यादौ सहार्थे तृतीयेति परैरपि व्याख्यातम् | अत-एव सूत्रकारोपि सहकारित्वेन चेति कण्ठत एव सहकारित्वं वक्ष्यति | अत-एव तदधिगम उत्तरपूर्वाद्ययोरश्लेष विनाशौ तद्व्यपदेशादितरस्याप्येवं असंश्लेषः पातेत्विति विद्यया पूर्वयोः पुण्यपापयोर्विनाशमुक्त्वा तदपवादत्वेनेदं सूत्रद्वयमुक्तं सूत्रकृता | अनारब्ध कार्य एव तु पूर्वे तदवधेः अग्निहोत्रादि तत्कार्या यैव तद्दर्शनादिति प्रारब्धयोः पुण्यपापयोः न विद्ययानाशः | किन्तु भोगेनाग्निहोत्रादीनां न विद्यया नाशः | किन्तु विद्याफले मोक्षे हेतुत्वमिति तयोरर्थः | यदि हि कर्माणि ज्ञानस्यैवोत्पादकानि तर्हिफलापवर्गित्वात् कर्मणां ज्ञानेन ना वश्यं भावात्तदपवादत्वेन मोक्ष हेतुत्व प्रतिपादनमसङ्गतं स्यात् | किञ्च यदि मोक्ष साधनं ज्ञानं फलमुद्दिश्य तत्साधनत्वेन यज्ञादयो विधीयन्ते | तदाफल निश्चयं विना वैदिके कर्मणि प्रवृत्यनुपपत्तेर्ज्ञान लक्षण फल निश्चयो वाच्यः | ज्ञानञ्च ब्रह्म विषयमिति विषयभूत ब्रह्मनिश्चयोपि वाच्यः | तथापि ब्रह्म निश्चय फलस्य सिद्धत्वान्न साधनानुष्ठानम् | अनिश्चये च फलानिश्चयान्न साधने प्रवृत्तिः | एवं मोक्ष निश्चानिश्चययोरपि द्रष्टव्यम् | एतच्चार्थावबोध कामस्याध्ययनं विधीयत इति पक्षं निराकुर्वद्भिस्तैरेव यत्नतः साधितमिति नातीवयत्यते | प्. २५२) न च मोक्षस्य कर्म साध्यत्वेऽनित्यत्वापत्तिः | तद्यथेह कर्मचितोलोकः क्सीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयत इति श्रुतेरिति वाच्यम् | अथय इहात्मानमननुविद्य व्रजन्त्येतांश्च सत्यान् कामान् तेषामिति विद्यारहित केवलकर्मकृत लोकस्यैव श्रवणात् | तथान्यत्रापि यो व एतदक्षरं गार्ग्यविदित्वास्मिल्लोके जुहोति यजते तपस्तप्यत बहूनि च वर्षसहस्राण्यन्तवदेवास्य तद्भवति | यदि हवा अनेवं विन्महत्पुण्यं कर्म करोति तद्धां स्यां ततः क्षीयत एवमात्मानमेव लोकमुपासीत | स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते इत्यादिना | तत्र विद्यारहित केवलकर्मणः क्षयिष्णुत्वस्य विद्यायुक्त कर्मफलस्याक्षययत्वस्य च प्रतिपादनाच्च | तस्मात्सिद्धं कर्मणां सहकारित्वम् | अश्ववत् | यथा रथचर्यायां नियुक्तो दक्षिणो वाहनाश्वः सहकारित्वेन सव्यमपेक्षते तद्वदेते तद्वदेतेन यज्ञादेर्विविदिषाहेतुत्वमपि निरस्तम् | अश्वेन जिगमिषतीत्यादौ अश्वादेर्जिगमिषा हेतुत्वमपि निरस्तम् | अश्वेन जिगमिषतीत्यादौ अश्वादेर्जिगमिषा हेतुत्वादर्शनात् | अग्निहोत्रादितु तत्कार्यायैव तद्दर्शनादिति साक्सान्मोक्ष हेतुत्वस्यैव सूत्रितत्वाच्च तस्यार्थस्तैरेव मुक्तः | अग्निहोत्रादि यन्नित्यं कर्म वैदिकं तत्कार्यायैव | तस्य ज्ञानस्य यत्कार्यं तदेवास्यापि कार्यमित्यर्थः | कुतः ? तमेवं वेदानु वचनेन ब्राह्मणा विविदिषन्ति इत्यादि श्रुति दर्शनात् | प्. २५३) ननु ज्ञानकर्मणोर्विलक्षण कार्यत्वात् कार्यैकत्वानुपपतिः | ज्वरमरण कार्ययोरपि दधिविषयोर्गुडमन्त्र संयुक्तयोस्तृप्तिपुष्टि कार्यत्वदर्शनात् | तद्वत्कर्मणोपि ज्ञानसंयुक्तस्य मोक्षकार्यत्वोपपत्तेरिति | एवं सति यद्यत्तमतिक्रान्तविषयमेतत्कार्यैकत्वाभिधान चित्तशुद्धि विविदिषा द्वारा ज्ञानस्यैव हि प्रापकं कर्ममोक्षसाधनमुपचर्यते | न हि निर्विशेष ब्रह्मविद्या गम्यागम्यग्निहोत्रादिकं संभवति | अकर्त्रात्मबोधे सति विधिनिषेधशास्त्रानधिकारात् सगुणासु विद्यासु कर्तृत्वानति वृत्तेः | संभवत्या गाम्याग्निहोत्रादिकं तस्यापि निरभि संबन्धिनः कार्यान्तरा भावात् विद्ययासहैक कार्यकरत्वोपपत्तिरिति | तदयुक्तम् | कथं ह्येकस्माच्छ्रुतिवाक्यात्सूत्रवाक्याच्चार्थ द्वयप्रतिपत्तिः | क्वचिद्विविदिषायां हेतुत्वं क्वचिद्विद्या फलहेतुत्वमिति | कथं वा यज्ञादीनां विविदिषायामेवोपयोगमुक्त्वा सगुणासु साक्षात्फलहेतुत्वोक्तौ न पूर्वापरविरोधः | न च फलहेतुत्वस्यैव वाक्यार्थत्वेपि अकर्त्रात्मबोधेन कर्मणां प्रदाशत् कर्मणां फलपर्यन्तावस्थानां संभवेन विविदिषायामेवोपयोगो निर्गुणविद्यायामुक्त इति वाच्यम् | कर्ता शास्त्रार्थवत्वादित्यात्मनः कर्तृत्वस्य व्यवस्थापि तत्वात् | अकर्त्रात्मबोधस्य भ्रान्तित्वेन कर्मप्रदाहकत्वासंभवात् | निर्गुणविद्याया एवाभावेन तत्र विविदिषोपयोगस्य दूरापास्तत्वात् | न च कर्मजन्यत्वे मोक्षस्यानित्यत्वं स्यात् | प्. २५४) यत्कृतकं तदनित्यमिति व्याप्तेः | तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितोलोकः क्षीयत इति श्रुतेश्चेति वाच्यम् | यदि ह वा अप्यनेवं विन्महत्पुण्यं कर्म करोति तद्धांस्यां ततः क्षीयत एव | आत्मानमेव लोकमुपासीत | स य आत्मानमेव लोकमुपास्ते न हास्यकर्म क्षीयत इत्यनात्मविदा कृतस्य कर्मणः फलोपभोगान्ते क्षयस्य ब्रह्म विदा तु कृतस्य कर्मणः क्षया भावस्य प्रतिपादनेना नित्यत्व प्रसक्त्य भावात् | न्यायस्य श्रुति बाधितत्वात् | न च क्रियाया आशुतर विनाशित्वस्य प्रत्यक्ष सिद्धत्वात् कथमक्षययत्व प्रतिपादनमिति वाच्यम् | क्रियासूक्ष्मावस्थारूपस्या पूर्वस्य कर्मशब्दवाच्यस्याक्षययत्व प्रतिपादनात् | न च तस्मिन्मानाभावस्तद भावेश्हुतरविना शिन्याः क्रियायाः कालान्तरे फल जनकत्वानुपपत्तेः | तदभावे तं विद्या कर्मणी समन्वारथेते कस्यवासमन्वारम्भणमुच्येत || प्रात्यान्तं कर्मणस्तस्य यत्किंचेह करोत्ययम् | कस्य वा क्षये परलोका दिहागमनमुच्येत | रमणीयचरणा रमणीयां योनिमापद्येरन् इति वाक्ये केन वायोनिविशेष प्राप्तिरुच्येत | तथा तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशाविति | कस्य वा ज्ञानेन विनाशः अश्लेषश्चोच्येत | क्रियायास्तत्क्षण एव नष्टत्वात् | कस्य वा शुहृदः साधुकृत्यामित्यादिना उपायनमुच्येत | नन्वमूर्तद्रव्यस्य कथं ज्ञानं कथं वो पायनमिति चेन्न | प्. २५५) शास्त्रप्रामाण्यादुभयस्याप्युपपत्तेः | धर्माधर्मयोः शास्त्रैक समधिगम्यत्वेन तत्स्वभावोपि शास्त्रेणैवावगन्तव्यः | न तर्केण प्रयोजनमस्ति | श्रुतेस्तु शब्दमूलत्वादितिह्युक्तम् | अत एवस्तेनः प्रकीर्णकेशौसे मुसलमाधाय राजानं गत्वा कर्माचक्षीत | तेनैनं हन्यात् | वधे मोक्षोनु ज्ञातेन ज्ञातारमेनः स्पृशति | अन्नादेर्भ्रूणहामाष्टनेनाभिशंसति | स्तेनः प्रमुक्तोराजनि याचन नृतसंगरः || इति | अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते | तस्य दुष्कृतं दत्वा पुण्यमादाय गच्छतींत्यादि वाक्यैः पुण्यपापयोः हानमुपायनं च स्मर्यते | तथेह कर्मचित इत्यादि श्रुतिश्चाविद्वद्विषया | अथय इहात्मानमननुविद्य व्रजन्तीति | अनन्तरं विदुषः सर्वकाम्यफल प्राप्त्यभिधानात् | तत्पक्षेपि दहर विद्यायाः सगुणविद्यात्वस्य सगुणासु विद्यासु कर्मसाहित्यस्याभ्युपगतत्वेन तत्प्रकरणस्थेनैव वाक्येन तत्फलं निन्द्यत इत्यसाङ्गत्यापातात् | दहराधिकरणे दहरविद्याफलाक्षययत्वस्यैव तैरेव प्रतिपादनाच्च | तस्मात्कर्मसाध्यत्वेपि मोक्षस्य कर्मणः अक्षययत्वप्रतिपादनात् मोक्षस्याप्यक्षययत्वमुपपन्नम् | तथा समाना चासृत्युपक्रमादिति विद्वदविदुषोरुत्क्रान्तिसाम्य प्रतिपादनेपि कस्यचिद्विदुष-उत्क्रान्त्य भावाभिधानं सूत्रविरुद्धम् | तथा हि कथं वाङ्मनसि प्. २५६) दर्शनाच्छब्दाच्चेत्यादिनेन्द्रिय प्राण संज्ञितस्य जीवस्य लिङ्गशरीरेण सहोत्क्रान्तिर्विद्वत्सम्बन्धिनः प्रतिपाद्यते | यावता तद्यथा नः सुसमाहितमुत्सर्जद्यायादेवमेवायं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्यातीत्यादिकाश्रुतिः सप्रपञ्चमुत्क्रान्तिमुक्त्वा इति न का इति न कामय मान इति तस्या विद्वत्संबन्धितां अभिधायाथा कामयमान इति विद्वांसं प्रस्तुत्य न तस्य प्राना उत्क्रामन्तीति तस्योत्क्रान्तिं प्रतिसित्य अथो मर्त्योऽमृतोभवत्यत्र ब्रह्म समश्नुत इत्यत्रैवामृतत्वं ब्रह्मप्राप्तिं दर्शयतीत्याह | समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य समाना च विद्वदविदुषोरुत्क्रान्तिः | कस्माद्विशेषाश्रवणात् | छान्दोग्ये परेषां निर्विशेष ब्रह्म प्रतिपादकत्वेनाभिमते षष्ठाध्याये एवमेवेहाचार्यवान् पुरुषोवेदेति विद्वां संप्रक्रम्य तस्य तावदेव चिरं यावन्नविमोक्ष्येऽथ संपत्स्य इति सम्पत्तिमभिधाय केन क्रमेण सम्पद्यत इति वीक्षायां वाङ्मनसि सम्पद्यत इत्यादिनोत्क्रान्तिक्रम प्रतिपादनाच्च किं सर्वत्र सम्यं नेत्याह आसृत्युप क्रमात् इति | सृत्युपक्रमो गत्युपक्रमतः प्राक् समानोत्क्रान्तिः सृत्युपक्रमस्तु मूर्धन्यनाडीतो विद्वान् गच्छति इतर इतराभ्यामिति विशेषः || यदुक्तमत्रैव विदुषोऽमृतत्वादिरिति तत्राह अमृतत्वं चानुपोष्येति | अनुपोष्यादग्ध्वा लिंगशरीरादिकं स प्राणत्वममृतत्वमुच्यते अथ मर्त्योऽमृतो भवतीति | प्. २५७) ब्रह्मप्राप्तिरपिहार्द ब्रह्म प्राप्तिरेव | कस्मादित्यत आह-तदापीतेः संसारव्यपदेशात् | उत्तरत्र तेनधीरा अपि यन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वो विमुक्ता इति देवयानेन पथाविकृतब्रह्म प्राप्तिसमय एव लिङ्गशरीरादिभ्यो मुक्तत्वाभिधानेन ततः प्राक्संसारित्वा वगमात् | ननु देहाद्बहिर्निर्गच्छन् लिङ्गशरीरं पार्श्वस्थैः किमिति नोप लभ्यते | किमिति वा स्थूलदेहस्य दाहच्छेदादिना तन्नोपमृद्येतेत्याशंक्य सूक्ष्मत्वान्नैवमित्याह सूक्ष्मं प्रमाणतश्च तथोपलब्धेर्नोपमर्देनातः | अपि च जीवदवस्थायामुपलभ्यमानस्योष्ण स्पर्शस्य लिंगशरीराश्रयत्वान्मृतावस्थायां चोष्णस्पर्शानुपलम्भेन तदाश्रयस्य लिङ्ग शरीरस्योत्क्रान्तिरावश्यकीत्याह अस्यैव चोपपत्तेरेवमूष्मा | यदुक्तं न तस्य प्राण | उत्क्रामन्तीतिविदुष उत्क्रान्तिः प्रतिषिद्धेति | तत्राह - प्रतिषेधादिति चेन्न शारीरात् || नायमुत्क्रान्ति प्रतिषेधः प्राणानाम् | किन्तु शरीरादात्मा कथं गम्यते | स्पष्टो ह्येकेषाम् | स्पष्टो ह्येकेषां माध्यन्दिनानां शाखायाम् | न तस्मात्प्राणा उत्क्रामन्तीति पञ्चमी प्रयोगात् | तस्मादिति च प्राधान्यादभ्युदय निःश्रेयसाधिकृतो देहं गृ तो न देहः | न तस्मादुच्चि क्रमिषोर्जीवात्प्राणा अपक्रामन्ति | प्. २५८) सह तेन भवन्तीत्यर्थः | तथा च स प्राणस्य देहादुत्क्रान्तिर्भवत्येव | एवञ्च तस्येति सम्बंधसामान्ये षष्ठी | शाखान्तरगतया पञ्चम्या सम्बंध विशेषेऽवस्याप्यते | न चैवमिति न कामयमान इति | उत्क्रान्तेर्विद्वत्संबन्धितोक्तिरनुपपन्नेति वाच्यम् | न हीदमुत्क्रान्तेरविद्वत्सम्बन्धिताभिधानम् | न ह्यविदुषो मूर्ध्न उत्क्रान्तिः संभवति | तयोर्ध्वमायन्नमृतत्वमेतीति | तदोकोग्रज्वलनमित्यादि सूत्राभ्यां विदुष एव मूर्ध्न उत्क्रान्त्यभिधानात् | तथा तं विद्या कर्मणी समन्वारभेते | समन्वारंभणमपि न विदुषः संभवति | समन्वारम्भणात् | विभागः शतवदिति सूत्राभ्यां समन्वारम्भणस्य विद्वद्विषयाभिधानाच्च | तथा प्राजापत्यं वा ब्राह्मं वेति ब्राह्मरूपापत्तिरपि नाविदुषः संभवति | ब्राह्मेण जैमिनिरूपन्यासादिभ्य इति सूत्रेण तस्या विद्याफलत्वाभिधानात् | किन्तु तस्माल्लोकात् पुनरेत्यास्मैलोकाय कर्मण इति यत्प्रत्यागमनमुक्तं तस्याविद्वत्संबंधिताभिधानमेतत् | तथा चा विद्वान् कर्मक्षयात् पुनरागच्छति विद्वांसस्तु ब्रह्मापियन्ति इत्येव विषाभिधानात् | न तूत्क्रान्त्यनुत्क्रान्तिभ्याम् | न च शारीरादुत्क्रान्तेर प्रसक्तेस्तन्निषेधानुपपत्तिः | देवदत्तो मृत इत्यादि लौकिक व्यवहारात् प्रसक्तौ निषेधसंभवात् | जीवापेतं वावकिलेदं म्रियते | न जीवो इति वा | प्. २५९) अपि च नैवोत्क्रान्त्यभावोऽपूर्वोत्र प्रतिपाद्यते | किंतु विभाग प्रश्नोत्तर सिद्धोऽनुभूयते | तथाहि- यत्रायं पुरुषोम्रियत उदस्मात्प्राणाः क्रामन्त्याहोनेति प्रश्नेनेतिहोवाच याज्ञवल्क्योऽत्रैव समवलीयन्तं | स उच्छ्वयत्याध्यायत्याध्मातो मृतः शेत इत्युत्तरम् | तत्रास्मादितीदं शब्देन देहीपरामृश्यते | अत्रैव समवलीयंत इति जीवे प्राणानां संलीनतया उक्तायाः संभवात् | सोध्यक्ष इत्यत्र तथा प्रतिपादनात् | न शरीरे तत्र तस्या संभवात् | न च स उच्छ्वयतीति जीवस्योच्छूनतानुपपन्नेति वाच्यम् | नह्युच्छ्रयतीत्यत्रोच्छूनतार्थः | किन्तूर्ध्वगमनमेव | उडश्विगति वृद्ध्योरिति स्मरणात् | आध्यायति | देहं शब्दयुक्तं करोतीत्यर्थः | ध्माधातोः सकर्मकत्वात् | शङ्खान् दध्मुरिति दर्शनात् | अपध्मातः कर्मभूतो देहः आध्मातः शङ्ख इति दर्शनात् | मृतः प्राण वियुक्तः शेते इत्यर्थः | तथा चात्र सिद्धो जीवात् प्राणानामुत्क्रमणाभावोऽनूद्यते | न चास्य प्राणा इति | न चानुवादो व्यर्थ इति | शङ्क्यम् | ब्रह्मैव सन्नित्युक्त ब्रह्मत्वोपपादकत्वादिति | अत्र च ब्रह्मैव सन्निति ब्रह्मभावो विदुषो वैशेषिका नोच्यन्ते | विद्यासाध्य ब्रह्मप्राप्तेर्ब्रह्माप्येतीति पृथगेवाभिधानात् | किन्तूत्क्रान्ति प्रस्तावे येयमिन्द्रि मनः प्राणसहितस्य जीवस्य भूतद्वारा ब्रह्मणि संपत्तिरवि भागापत्तिरूपा विद्वदविदुषोः समाना | प्. २६०) वाङ्मनसिदर्शनाच्छब्दाच्चेत्यारभ्या विभागो वचनादित्येवमन्तेन निरूप्यते सैवाभिधीयते | तदभिधानं च तस्या ब्रह्मप्राप्ति द्वारत्वात् | न ह्युत्क्रान्त्यभावे देवचानेन पथा ब्रह्मगमनं संभवति | तदर्थमेव हि द्वितीय पादेनोत्क्रान्ति निरूपणम् | न च प्राण सहितस्य जीवस्य ब्रह्मसम्पत्तिः | जीवात्प्राणानामुत्क्रान्ति प्रतिषेधं विना संभवतीति तत्प्रतिषेधोप्यर्थवान् | यदपि ब्रह्मैव सन्नित्यस्य स्वयमपि ब्रह्मभूत्वेत्यर्थः | देवो भूत्वा देवानप्येतीतिवत् | तदापि ब्रह्मभावो ह्युत्क्रान्तप्राणस्य मृतस्य न भवतीति प्रतिषेधोप्यर्थवान् | इयं च सम्पत्तिः कदा केन क्रमेण भवतीत्याकाङ्क्षायां आह तदासर्वे प्रमुच्यन्ते कामायेऽस्य हृदिस्थिताः | अथ मर्त्योऽमृतोभवतीत्यत्र ब्रह्मसमश्नुत इति सर्वे कामाः प्रमुच्यन्त इति सेंद्रियस्य प्राणेसम्पत्येति शेषः | कारणस्य प्रविलये हि कार्यस्य सर्वात्मना विलयो भवति | अथ मर्त्योऽमृतोभवतीति | अनन्तरं जीवे प्राणस्य सम्पत्तिरुक्ता | तदिदमुक्तम् सूत्रावयवेन | अमृतत्वं चानुपोष्येतिः अस्यार्थः अथ मर्त्य इत्यत्रामृतशब्देन विद्याफलं नोच्यते उत्तरत्र तस्याभिधानात् | किन्त्वनुपोष्यादग्ध्वा बन्धहेतु मनुपेत्यचाविकृतं ब्रह्म स प्राणत्वमात्रं तत्वविदविदुषोः समानमिति | इदमेव चामृतत्वं अस्य सूत्रस्य विषयः | प्. २६१) तयोर्ध्वमायन्न मृतत्वमेतीत्यादौ अमृतत्वस्योत् क्रान्तिपूर्वकत्वाभिधानेन तदभावे शंकानुदयात् | अत्र ब्रह्मसमश्नुत इति जीवस्य भूतद्वाराहं ब्रह्मणि सम्पत्तिं वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामिति श्रुत्यन्तरात् | नन्वेवं ब्रह्मणि सम्पन्नः सन्निति वक्तव्यम् | न ब्रह्मैव सन्नित्याशङ्कां सम्पत्तिरिह नीरक्षीरवत् अग्नितप्तायः पिण्डवच्च विभागापत्तिरिव | न तु संश्लेषमात्रमिति परिहरिष्यन् प्रथमं जीवस्यामृतत्वे मृति व्यवाहारो निरालम्बनः स्यादिति शङ्कां परिहरति | तद्यथा हि निर्लयनी वल्मीके मृता प्रत्यस्ताशयीतैवममेवेदं शरीरं शेते | अथायं शरीरो मृतः | प्राणो ब्रह्मैव तेज एवेति | यथा अहिनिर्लयनी अहित्वक् अहिनानिर्मुक्ता प्राणवियुक्तत्वात् मृत | वल्मीकेशयीत एवमेवेदं शरीरं प्राणवियोगान्मृतं शेते | जीवस्तु शरीरादुत्क्रान्तत्वात् देहसाम्य निवृत्तेर्वा अशरीरः प्राणादि योगाभावाच्चामृतः प्राणाविभागापत्त्या प्राणा ब्रह्मविभागात् ब्रह्मैव तेजोविभागापत्त्या तेज एवेति | तदेवं ब्रह्मैव सन्नित्येतत्प्रपंचितम् | इदानीं कीदृशेन पथा कीदृक्साधन विशिष्टश्च ब्रह्माप्येतीत्याकाङ्क्षायां ब्रह्माप्येतीत्येतत् प्रपञ्चयति | अणुः पन्थाविततः पुराणोमं स्पृष्टोऽनुवित्तोमयैव तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वो विमुक्ताः | तस्मिञ्छुक्लमुत नीलमाहु पिङ्गलहरितं लोहितञ्च | एष पन्था ब्रह्मणाहानुवित्तस्तेनैति प्. २६२) ब्रह्मवित्पुण्यकृत्तैजसश्चेति मूर्धन्या नाड्यास्तृदणुत्वद्दुर्ज्ञेयत्वाद्वा अणुः पन्थाः देवयानः मं स्पृष्टः मां स्पृष्ट इति याज्ञ वल्क्योक्तिः | मूर्धन्या नाडीसम्बन्धाच्च देवयानस्य मा स्पृष्ट इत्युक्तिः | अनुवित्तः परिज्ञातः ध्यानेन मया स्वर्गं लोकमिति निरतिशयानंदं ब्रह्मोच्यते | ब्रह्माप्येतीति प्रक्रमात् | विमुक्ता इति स्थूलात्सूक्ष्माच्च देहबंधहेतु पुण्य पापाभ्यां च तस्मिञ्छुक्लमिति मूर्धन्यनाड्याऽऽदित्यरश्मीनाञ्च नानारूपवत्वस्य श्रुतिसिद्धत्वात् | तद्घटितमार्गस्य नानारूपवत्वं तैजसश्चेति विद्याति साधनसमुच्चयार्थश्चकारः एत एवैकैक साधनानुष्ठाने पुरुषार्थ सिद्धिमाह अन्धं तमः प्रविशन्ति ये विद्यामुपासते ततो भूयश्वते तमोय उ विद्यायांरताः इत्यादिना | तदेवं पौर्वापर्येण प्रकरणे पर्यालोच्यमाने विदुषोगत्युत्क्रान्त्योरवगमात् प्रतिषेधः शारीरापादानक एव स्मर्यते च | स्मर्यते च महाभारते विदुषो गतिः | शुकः किलवैयासिकिरादित्य मण्डलमभिप्रतस्थ इति | शुकस्तु मरुताच्छीघ्रां गतिं कृत्वान्तरिहगतः | दर्शयित्वा प्रभावं स्वं सर्वभूतगतोऽभवत् | तथा सर्वभूतात्म भूतस्य सम्यग्भूतानि पश्यतः || देवापि मार्गे मुह्यन्ति अपदस्य पदैक्षिणः || अपथस्य स्वस्थानाद्धृदयादुत्क्रान्तत्वात्पदैषिणः परमपदप्रेप्सोः मार्गे देवताने देवा अपि मुह्यन्तीति मार्गस्य दुर्विज्ञेयतोच्यते | न तु मार्गाभावः | अथ य गतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्तशूकमिति | प्. २६३) मार्गद्वयभ्रष्टानां अधोगतिश्रवणात्प्रतिषेधस्य जीवापादानोत्क्रान्तिविषयत्वाद्विदुषः शरीरादुत्क्रान्ति विरहाभिधानं सूत्र विरुद्धमेव | तथा चार्चिरादिना तत्प्रथितेरित्यर्चिरादि मार्गेणैव ब्रह्मप्राप्तिर्न प्रकारान्तरेणेति सूत्रितेपि केषाञ्चिद्ब्रह्मविदां मार्गाभावाभिधानं सूत्रासम्बद्धमेव | न च तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेयनायेति ज्ञानव्यतिरिक्त मार्गान्तरनिषेधान्न देवयानः पन्था अपेक्षितव्य इति वाच्यम् | तमेवं विद्वान मृत इह भवति | नान्यः पन्था अयनाय विद्यत इति परात्ममहित स्वविषय विद्यावाक्यवदस्यापि देवयाननिषेधकत्वा भावात् | विद्या कर्मणोरिति तु प्रकृतत्वादिति सूत्रे | अथैतयोः पथोर्नकतरेण च न इत्युपात्तयो देवयान पितृयाणयोः पथोर्विद्याकर्मणी प्रतिपदे इति विद्याया अपि देवयानपथ मार्ग प्रमपूर्वत्वेनाभिधानात् | विद्याग्रहणेनैव तदादेर्देवयानस्यापि लाभात् | तं मुक्त्वा ब्रह्मगमनायान्योमार्गोनास्तीति तद्ब्रह्मगमनाय देवयानस्यैवापेक्षा प्रतीयते | अन्यथा मार्गा न पेक्षायामयनायेत्युक्तगमनानुपपत्तेः | नरायनायेति गमनं नाभिधीयते | किन्तु ब्रह्मप्राप्तिरेवेति वाच्यम् | पथिशब्दस्य मुख्यार्थ संभवे लक्षणाश्रयणस्या न्याययत्वात् | अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गावेति | अथैतयोः पथो न कतरेण च न तानीमानि क्षुद्राण्यसकृदावर्तोनि भूतानि भवन्ति जायस्वम्रियस्वेत्येतत्तृतीयं स्थानं | प्. २६४) तेनासौ लोको न संपूर्यते | तस्माज्जुगुप्सेतेति मार्गद्वयभ्रष्टानां कष्टजुगुप्सितव्य तृतीयमार्गश्रवणाच्च | तस्माद्देवयानाभाववचनं ब्रह्मविदामयुक्तमेव || तथा अप्रतीकालम्बनान्नयतीति बादरायण-उभयथा दोषात्तत् क्रतुश्चेत् यप्रतीकोपासकानां ब्रह्मप्राप्तिमुक्त्वा तत्क्रतुश्चेति तस्य हेतुरुक्तः | अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिल्लोंके पुरुषो भवति | तथेतः प्रेत्यभवतीति तत्क्रतोस्तत्प्राप्त्यभिधानात् | एवं स्थिते सूत्रार्थेऽप्रतीकोपासकानां हिरण्यगर्भप्राप्त्यभिधानं सूत्रविरुद्धम् | न च तदुपासनमपि हिरण्यगर्भविषयमेवेतिवाच्यम् | सर्वत्र प्रसिद्धोपदेशादित्यधिकरणेषू पास्यस्य ब्रह्मत्वनिर्धारणात् | तथा सम्पत्त्याविर्भावने स्वेन शब्दात् मुक्ति प्रतिज्ञानादिति ब्रह्मसम्पत्त्यनन्तरं मुक्तस्यस्वरूपाविर्भावः उक्तः | केनस्वरूपेनाभिनिष्पत्तिरिति वीक्षायां ब्राह्मेण जैमिनिरूपन्यासादिभ्य इति ब्राह्मेणापहत पाप्मत्वादिना सत्यकामः सत्यसङ्कल्प इत्येवमन्तेन | स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा वयस्यैर्वा इत्यादिना सर्वज्ञः सर्वेश्वर इत्यादिना च रूपेण संप्रतिपत्तिरिति जैमिनिपक्षमुक्त्वा चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिरित्य व्ययपदे येन चैतन्यरूपेणैव संपत्तिरित्यौडुलोमिपक्षं चोक्त्वा एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः प्. २६५) एवमपि पारमार्थिक चैतन्य मात्रार्थस्वरूपाभ्युपगमेपि व्यवहारापेक्षया पूर्वस्याप्युपन्यासादिभ्योऽनन्वागतस्य ब्राह्मस्यैश्वर्य रूपस्या प्रत्याख्यानात् अविरोधं बादरायण आचार्योमन्यत इति | एवं बादरायणपक्षः तैर्व्याख्यातः | एवं चाज्ञान प्रभवत्वात् समस्तस्य प्रपञ्चस्य ज्ञानादज्ञाननाशे तन्मूलस्य कृत्स्न प्रपञ्चस्य निरन्वयनाशादात्मस्वरूपमात्रेणावस्थानं मुक्तिरिति पक्षो बादरायणस्यानभिप्रेत इति स्फुटमेव | तथा एव सम्प्रसादोऽस्माच्छरीरात् समुत्थय परं ज्योतिरूपसम्पद्यस्वेन रूपेणाभि निष्पद्यत इत्यस्य स यदि पितृलोककामो भवति संकल्पादेवास्यपितरः समुत्तिष्ठन्त इत्यादि वाक्यस्य च दहरविद्यागतत्वेपि सङ्कल्पा देवतु तच्छ्रुतेरिति सूत्रस्यापि ब्राह्मेणेति पूर्वोक्त सत्यसङ्कल्पत्वोपजीव्यत्वेपि पूर्वसूत्रं निर्गुणविद्या विषयमिदं सगुणविद्याविषयमिदमिति विभागकथनं निर्मूलम् | अथ एव चानन्याधिपतिरिति | अत-एव सत्यसङ्कल्पत्वाच्च शब्दोक्ताया सस्वराड्भवतीति श्रुतेश्चानन्याधिपतिर्मुक्तो भवति नास्यान्योधिपतिर्भवतीत्यर्थः | इदमप्यनन्याधिपतित्वं सगुणविद्योपासनया हिरण्यगर्भलोक गतस्येति तैरुक्तम् | न च तदयुक्तम् | तस्य हिरण्यगर्भ परमेश्वर रूपाधिपति द्वयत्वेनानन्याधिपतित्वाभावात् | तथा भावं बादरिराह ह्येवमिति | न ह वै सशरीरस्य सतः प्रिया प्रिययोरपहतिरस्ति | प्. २६६) अशरीरं वा वसन्तं न प्रियाप्रिये स्पृशतः इति छान्दोग्याष्टमाध्याय गतवाक्येन मुक्तस्य शरीराभाव प्रतीतेः शरीरं नास्तीति बादरायण पक्षमुक्त्वा भावं जैमिनिर्विकल्पामननादिति | स एकधा भवति त्रिधाभवति पञ्चधा इत्यादिना सप्तमाध्यायगतेन वाक्येन मुक्तस्य शरीरमस्तीति जैमिनिपक्षमुक्त्वा द्वादशाहवदुभयविधं बादरायणोक्त इति श्रुतिद्वयप्रामाण्यादुभयविधं भवतीति | मुक्तस्य च सत्यसंकल्पत्वाद्यस्य सशरीरत्वं सङ्कल्पः स शरीरोभविष्यामीति तस्य सशरीरत्वम् | यस्यत्वशरीरत्वसङ्कल्पस्तथा शरीरत्वमिति बादरायणेन स्वपक्षमुक्तम् | तथैवतैरपि व्याख्यातः | एतच्चाध्यायद्वयेऽपि विद्याया एकत्वे घटते नान्यथा | विद्याभेदेन पक्षद्वयस्यापि व्यवस्थितत्वात् | संकल्पानुरोधेन व्यवस्थाया अयोगात् | एवं स्थिते सप्तमाध्यायः निर्गुण ब्रह्म प्रतिपादकः | अष्टमाध्याये सगुणविद्याविधिः सगुणविद्याफलमेवैकधा भवतीत्यादिनोच्यमान निर्गुणविद्यास्तुतयेत्र कीर्तितमित्याद्यभिधान मूलकम् | षष्ठाध्याये उपास्यस्य ब्रह्मणः कार्यकारणादन्यत्वेन सर्वात्मकत्वेन प्रतिपादनम् | सप्तमेन च तस्यैव च नानादिषु व्यस्तेषू पासनं समस्तेन भूमत्वेन चोपासनमुक्तम् | अष्टमेनचोपासनस्थानं हृदयाद्युपास्यस्य ब्रह्मणः कामादयोगुणा उपासनाङ्गानि कानिचिदुपासकस्य देवयानेन पथा ब्रह्मप्राप्तिः | ब्रह्म प्. २६७) प्राप्त्यनन्तरञ्च सकलकामावाप्तिरित्येवंमादिकमुच्यत इति छान्दोग्य भाष्ये तैरन्यैश्चाध्याय त्रयस्याप्येकवाक्यत्वस्योक्तत्वात् | तथा प्रदीपवदादेशस्तथा हि दर्शयतीत्यत्र मुक्तस्यानेक शरीर पक्षे किं तानि शरीराणि सात्मकान्युत निरात्मकानीति संशये अनेनैव शरीरेण यागादितराणि निरात्मकानीति पूर्वपक्षं कृत्वा यथादीप एकानेक दीपभावमापद्यानेक वर्तिष्वाविशति विकारशक्तियोगात् | एवं मुक्त एकोप्यैश्वर्यशक्तियोगादनेकानि शरीराण्याविशति इति सिद्धान्तितम् | तदेतज्जीवस्य विभुत्ववादिनामसमञ्जसम् | किं सर्वाणि शरीराणि निरात्मकानीति संशयस्य निरात्मकानि आत्मक एकेनैव शरीरेण योगादिति पूर्वपक्षस्य प्रतिपादनैकभावमैश्वर्य दशादापद्य शरीराण्याविशतीति सिद्धान्तस्य तस्मिन् पक्षे असामञ्जस्यात् | तथा मुक्तस्य कथमनेक शरीरावेशादि लक्षणमैश्वर्यमभ्युपगम्यते | यावता तत्केनकं विजानीयात् | न तु तद्द्वितीयमस्ति | ततोऽन्यद्विभक्तम् | यद्विजानीयात् | सलिल एकोद्रष्टाद्वैतो भवतीत्येवं जातीयकाश्रुतिर्विशेषविज्ञानं वारयतीत्याशंकायां स्वात्ययसम्पत्योरन्यतरापेक्षमाविष्कृतं हि | सुषुप्त्युत्क्रान्त्योरन्यतरापेक्षयेदं विशेष विज्ञानाभाववचनं प्रकरणान्यवशात्तथा प्रतीतेरित्युक्तम् | केचिदत्र सम्पत्तिशब्देन कैवल्यावस्थोच्यते इति तदपेक्षया विशेषविज्ञानाभाव वचनं मित्याहुः | तेषां पूर्वापरविरोधः प्रसज्येत | प्. २६८) ब्राह्मेण जैमिनिरूपन्यासादिभ्य इत्यादिना मुक्तस्य सर्वज्ञत्वमुक्तम् | इदानीं ज्ञानाभाव उच्यत इति | किं बहुना | यानि यानियैरसाधारण्येनाभ्युपगम्यन्ते तानिसर्वाणि सूत्रितान्येव | सूत्रेषु तद्वाचकशब्दानां क्वाप्यदर्शनात् | एवमन्यत्र सूत्रस्यापि विरोधोऽस्त्येव विस्तरभयादुपरम्यते || तदेवं सूत्रानुसारिव्याख्यानानामुत्सन्नत्वाद्विद्यमानानां च सूत्रा ननु सारित्वात् सूत्रानुसारिणी व्याख्येयमारभ्यते | तत्र स्वाध्यायोऽध्येतव्य इत्यध्ययनविधौ तव्य प्रत्ययेन स्वाध्यायस्याध्ययनसंस्कार्यता प्रतीयते | उत्पत्त्यादीनामसंभवात् | संभवेपि वान्वयव्यतिरेक सिद्धत्वेन विधिवैयर्थ्यात् | संस्कारश्च साधन निवेशी | न ब्रीहीणामिव स्वाध्यायस्य साधनता प्रकरणादिना प्रतीयते | अध्ययनविधेरनारभ्याधीतत्वात् | तथा चानेनैव साधनता प्रतीतिर्वाच्या | अध्ययन संस्कृतेन स्वाध्यायेनेष्टं भावयेदिति | पुरोहितं वृणीतेत्यत्र वरण संस्कृतेन पुरोहितेनेष्टं भावयेदिति यथा | एवञ्च स्वाध्यायस्य साधनतयोपादेयत्वात् तद्गतमेकत्वं विवक्षितमिति एकस्यैव वेदस्याध्ययन विधिः | इतरथा ग्रहं संमाष्टीत्यादाविव स्वाध्यायस्य संस्कार्यतयोद्देश्यत्वात् तद्गतमेकत्वमविवक्षितमिति सर्वत्र ग्रह संमार्गवत्सर्व वेदाध्ययनं प्राप्नुयात् | एवञ्च स्वाध्ययेनेष्टं कुर्यादित्यत्र किं तदिष्टद्वारमिति वीक्षायां दृष्टे सत्य दृष्टकल्पनानुपपत्तेरर्थावबोध एवेष्टद्वारमिति कल्प्यते | तस्याप्यनुष्ठानद्वाराऽभ्युदयनिः श्रेयसहेतुत्वेन पुरुषार्थद्वारत्वोपपत्तेः | प्. २६९) यत्र राजसूयादिवाक्याध्ययनादौ ब्राह्मणादेर्दृष्ट प्रयोजनं नास्ति | अनुष्ठाना संभवात् | तत्रानन्यगत्या जपादि द्वारा पुरुषार्थपर्यवसायित्वम् | यत्र तु दृष्टद्वारा असंभवत्वात्तत्र दृष्टद्वारेणैव पुरुषार्थपर्यवसायित्वम् | एवञ्चाध्ययनविधेरर्थावबोध सापेक्षत्वादर्थावबोधस्य च सन्दिग्धेविषये विचारसापेक्षत्वात् विचारोप्यध्ययन विधित्वेनाक्षिप्तः | तत्र चाध्ययनानन्तरं सर्वोपिवेदार्थो विचारणीयः | तत्र काण्डस्य प्राथम्यात् तदर्थविचारः प्रथमं जैमिनिना कृतः | तद्विचारादेव विद्या विधयोपि विचारितप्रायाः जद्विषयीभूतं तु ब्रह्म विचारितम् | तच्च परमसूक्ष्मत्वात् विचारानर्हमेवेति प्राधान्येन तद्विचारं प्रतिजानीते भगवान् वादरायणाचार्यः अथातो ब्रह्मजिज्ञासेति | न च ब्रह्मविचारस्या ध्ययनविधियोग्यत्वे तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्टमित्यादिना पृथग्ब्रह्मोपदेश विधिरनर्थः स्यादिति वाच्यम् | नहि मीमांसा पाठ मात्रादेव कर्मणः विद्याया अनुष्ठानं सिध्यति | तावतासन्दिग्धवाक्यार्थ निर्णयेपि नानाशाखागताङ्गोपसंहारेण प्रयोगस्यापरिज्ञानात् | किन्तु कल्पसूत्राध्ययनेन तत्तत्कर्माभिज्ञोपदिष्ट प्रयोगवचनेन च यथा संभवं प्रयोगाज्ज्ञात्वा कर्मानुष्ठानमेवमिहापि आचार्याद्धैव विद्याविदिता साधिष्ठं प्रापदिति | एवमादिशास्त्रात् तत्तद्विद्याभिज्ञाचार्यादीदृशं ब्रह्मात्रोपास्यमेतावद्गुणविशिष्टमेतानि चोपासनस्य पूर्वोत्तराण्यङ्गानी दृशश्चोपासकस्तस्य प्. २७०) चैतद्वतमीदृशञ्चोपासनास्थानमीदृस्युपासकस्य गतिरीदृशी च फलप्राप्तिरित्येवं विधोपदेशमन्तरेण विद्यानुष्ठानात् सिद्धः | तदुपदेश विधेरर्थ वत्वादेषां नानाध्ययन विधिर्विचार प्रयोजकः | तस्य क्षर ग्रहणमात्रपर्यवसानत्वात् | किन्त्वध्ययन विध्याध्यपित क्रतुविधिरेव स्वार्थस्य धर्मस्य ज्ञात्वानुष्थेयत्वात् | तैरेव धर्मविचार आक्षिप्यत इति मतम् | तेषामपिमते क्रतु विधिवत् विद्याविधेरपि विचार प्रयोजकत्वात् ब्रह्मविचारोपीदानीं कर्तव्य एव | न चेदानीं विद्यानुष्ठानाभावान्न ब्रह्मविचारः कर्तव्य इति वाच्यम् | तर्हीदानीं अग्निहोत्राद्यनुष्ठानाभावात् तद्विचारोपि कर्तव्य इति तुल्यम् | यदि बुद्ध्वा कर्माणि यत्कामयेत तदारभेतीति स्मृतेः स्वीकर्तव्याश्रमान्तरे कर्मणामवश्य कर्तव्यत्वात् तद्विचार इति विद्यायामपि तुल्यः | वस्तु ब्रह्मविचारिणोदाराग्नि परिग्रहाभावादग्निहोत्राद्यनुष्ठाना संभवेपि विद्यायाः सर्वाश्रम साधारण्याद्ब्रह्मचारिणोपि युक्त एव | अथ चोद्गीताद्यङ्गावबद्धोपासनामधिकृताधिकारत्वेन कर्मानुष्ठान काल एव कर्तव्यत्वेन तद्विधाभूत ब्रह्म विचारोपि इदानीं कर्तव्य एव | अथ शब्देन कर्मविचारानन्तर्यमुच्यते | न च तदा नन्तर्येमानाभावः | शास्त्रयोनित्वात् | हृद्यपेक्सया मनुष्याधिकारत्वाच्छेषत्वात् पुरुषार्थवादः | यथान्येष्विति जैमिनिः | सर्ववेदान्त प्रत्ययं चोदनाद्यविशेषात् | नानाशब्दादि भावात् | हानौतूपायन शब्दशेषत्वात् कुशाछन्द स्तुत्युपगानवत्तदुक्तम् | नचाधिकारिकमपि पतनानुष्ठानात्तदभोगात् | प्. २७१) उपपूर्वमपित्वेके भावमश्नवत्तदुक्त व इत्येवमादिषु सूत्रेषु पूर्वतन्त्र सिद्धानां वेद प्रामाण्य भेदशेषत्वाधिकारादीनामुपजीवनेन तदानन्तर्यस्यावश्यवक्तव्यत्वात् | अत-एव पूर्वोत्तर मीमांसात्व प्रसिद्धिरपि सङ्गच्छते | अतः शब्दोहेत्वर्थः | यस्मात्स्वाध्यायो विवक्षितार्थः ब्रह्म च परिशोषितम् तस्मात्तज्जिज्ञासा कर्तव्येति ब्रह्म विचार्यं न वेति सन्देहः | नेति तावत्प्राप्तम् | कृत्स्नस्य वेदस्य पूर्वतन्त्रे विचारितत्वात् | ब्रह्मणोपि वेदार्थत्वात् | न च कृत्स्नस्य वेदार्थस्य विचारितत्वासिद्धिः | तस्मदुक्तेन रूपेण विचार्यं गुरुसेवया | ब्रह्मकैवल्यफलदमागमैर्लिङ्ग शब्दितम् || अविनाभूत चिच्छक्तिप्रसादोन्मोक्षमाप्नुयात् | श्रोतव्यवाक्यविहितं श्रवणं विधिवाक्यतः || भाषा प्रबन्धैर्यज्ज्ञानं यच्च पौरुष वाक्यतः | न तस्य चात्र ज्ञानस्य पुरुषार्थैक हेतुता || तस्माद्वैदिक विज्ञानं साक्षान्मुक्तिप्रदं नृणाम् | अस्मिन्नर्थे बहुग्रन्थाः प्रसृताभाष्य दर्शिताः | वैदिको भाष्य सन्दर्भः तांत्रिकाणां न विद्यते | यश्चायं भाष्य सन्दर्भः शान्तिपाठ पुरस्सरम् || विरक्तैर्विषयस्तोमैर्विज्ञेयो गुरुसेवया | शंनोमित्रादिका मन्त्रास्तत्र सन्दर्शिता बुधैः | कथं वा वीरशैवानां तादृगर्थस्य सङ्गतिः || प्. २७२) अत्रायं सम्प्रदायाध्वा नीलकण्ठेन तन्यते | वीरशैवे गुरुकृपा सुधया शिक्ष्ययोगतः || दीक्षयांकुरितं जीवब्रह्मशब्देन शब्दितम् | लिङ्गाङ्गयोः सामरस्यं महावाक्योपदेशवत् || पञ्चाक्षर महामन्त्रात् बोधनीयं विपश्चिता | नमः शब्देन जीवत्वं शिवेति परमात्मनि | आयेत्यैक्यं गतोमन्त्रस्तेन पञ्चाक्षरः स्मृतः || इति ब्रह्मोत्तरेखण्डे मन्त्रार्थस्य विचारणात् | आगमोक्तांस्तदर्थांश्च विज्ञायैवोपदेशतः || स्थूलपञ्चाक्षरार्थोयं श्रुतिवाक्यसमीरितः | कारिकार्थ विवेकेन संग्राह्योथ मुमुक्षुभिः || प्राचीनो भाष्य सन्दर्भः शंभोर्नानुमतस्ततः | यतः साम्बः शिवः साक्षात् अन्वशान्मामहर्मुखे | व्यासीयं सूत्रसन्दर्भं वीरशैवानुसारतः || व्याचष्टां विमलाबुद्धिरुदेति तत्कृते | इत्येवं कारिकारूप श्रुत्यर्थानां विचारणात् || अधीत्य गुरुकारुण्यादपवर्ग * * * * || * * * * * * ग्रन्थं तस्य मुक्तिः करेस्थिता | पञ्चाक्षरोऽयं मन्त्रश्च शान्त्यर्थे विनियुज्यते || तदर्थः प्राप्यते तस्मात् कारिकार्थविचारणात् | कारिकार्थं समध्याय यः प्रचारयति स्वयम् || प्. २७३) अहं तस्य पदद्वन्द्वं शिरसा धृतवान् पुनः | अशैवेन प्रदेयास्यात्कारिका शिवभावदा || श्रुत्वा दद्याच्छ्रावयित्रे वेदोक्तामेव दक्षिणाम् | गृहस्थाय धनं धान्यं सस्यपूर्णां वसुन्धराम् || सालंकारां विरक्तेभ्यो दद्यात्तदनुशासनात् | तदङ्गे भेजयेद्विद्वान् सहस्रंशतमेव वा || ज्ञानिनः शाम्भवानन्ते सायुज्यं याति शम्भुना || || इति श्रीमद्विशिष्टाद्वैतसिद्धान्तरहस्यैकोत्तरशतस्थलाभिज्ञ नीलकण्ठकृते निगमागमसारसङ्ग्रहे क्रियासारे चतुर्थोपदेशः || ########### END OF FILE #######